३९. क्त्वा- ल्यप्

From Samskrita Vyakaranam
(Redirected from ३९. क्त्वा- ल्यप्)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ktvA-lyap
Jump to navigation Jump to search
Home

क्त्वा- ल्यप् प्रयोगः

क्त्वा, ल्यप् इति प्रत्ययौ स्तः।

एकः कर्ता कार्यद्वयं क्रमेण करोति । पूर्वकार्यं यद् अस्ति तस्य सूचना धातोः क्त्वान्तरूपेण भवति।  

यदि धातुः उपसर्गसहितः भवति तर्हि क्त्वाप्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति।

क्त्वान्तशब्दाः, -ल्याप्‌प्रत्ययान्तशब्दाः अव्ययानि भवन्ति।


क्त्वा प्रत्ययः

ध्यानेन पठतु---

प्रथमं कार्यं । क्त्वान्तरूपम्
बालकः देवालयं गच्छति। सः अर्चति। बालकः देवालयं गत्वा अर्चति।
बालकः खादति। सः पिबति। बालकः खादित्वा पिबति।
माता स्‍नाति। सा मोदकं पचति। माता स्‍नात्वा मोदकं पचति।
सः क्रीडति। सः खादति। सः क्रीडित्वा खादति।
त्वं पुस्तकं पठसि। त्वम् उत्तरं देहि। त्वं पुस्तकं पठित्वा उत्तरं देहि।
अहम् आपणं गच्छामि। अहं शाकानि आनयामि। अहम् आपणं गत्वा शाकानि आनयामि।
कृषकाः भूमिं कर्षन्ति। ते जलं सिञ्चन्ति। कृषकाः भूमिं कृष्ट्वा जलं सिञ्चन्ति।
कर्मकराः कार्यं कुर्वन्ति। ते वेतनं नयन्ति। कर्मकराः कार्यं कृत्वा वेतनं नयन्ति।
रामः चिन्तयति। सः उत्तरं लिखति। रामः चिन्तयित्वा उत्तरं लिखति।


क्त्वान्तरूपाणि ---

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. गम् गच्छति गत्वा
२. पठ् पठति पठित्वा
३. लिख् लिखति लिखित्वा
४. कृ करोति कृत्वा
५. हस् हसति हसित्वा
६. खाद् खादति खादित्वा
७. धाव् धावति धावित्वा
८. पत् पतति पतित्वा
९. स्मृ स्मरति स्मृत्वा
१०. क्री क्रीणाति क्रीत्वा
११. हृ हरति हृत्वा
१२. सृ सरति सृत्वा
१३. श्रु शृणोति श्रुत्वा
१४. स्ना स्नाति स्नात्वा
१५. भ्रम् भ्रमति भ्रमित्वा
१६. जप् जपति जपित्वा
१७. खन् खनति खनित्वा
१८. क्रन्द् क्रन्दति क्रन्दित्वा
१९. निन्द् निन्दति निन्दित्वा
२० नृत्य् नृत्यति नर्तित्वा


विशेषरूपाणि---

धातुः लट्‌लकारः ए.व. क्त्वान्तरूपम्
१. पा पिबति पीत्वा
२.   दा ददाति दत्त्वा
३. स्था तिष्ठति स्थित्वा
४.   रुद् रोदिति रुदित्वा
५.   पच् पचति पक्त्वा
६.   भू भवति भूत्वा
७. अस् अस्ति भूत्वा
८.   दृश् पश्यति दृष्ट्वा
९. पृच्छ् पृच्छति पृष्ट्वा
१०. नम् नमति नत्वा
११. ज्ञा जानाति ज्ञात्वा
१२. ग्रह् गृह्णाति गृहीत्वा


ल्यप् - प्रत्ययः

ध्यानेन पठतु ---

प्रथमं कार्यं । ल्यबन्तरूपम्
बालकः उपविशति। सः जलं पिबति। बालकः उपविश्य जलं पिबति
माता द्वारं प्रक्षालयति। सा रङ्गवल्लीं लिखति। माता द्वारं प्रक्षाल्य रङ्गवल्लीं लिखति।
श्यामः द्वारम् उद्‍घाटयति। सः बहिः गच्छति। श्यामः द्वारम् उद्‍घाट्य बहिः गच्छति।
छात्रा लेखनीं स्वीकरोति। सा चित्रं लिखति । छात्रा लेखनीं स्वीकृत्य चित्रं लिखति ।
भक्तः प्रतिमां संस्थापयति। सः पूजां करोति। भक्तः प्रतिमां संस्थाप्य पूजां करोति।
सा माम् अनुसरति। सा वेगेन आगच्छति। सा माम् अनुसृत्य वेगेन आगच्छति।
वानरः वृक्षम् आरोहति। सः फलानि पातयति। वानरः वृक्षम् आरुह्य फलानि पातयति।
ग्राहकः फलानि स्वीकरोति। सः धनं ददाति। ग्राहकः फलानि स्वीकृत्य धनं ददाति।
बालः आगच्छति। सः दुग्धं पिबति। बालः आगत्य दुग्धं पिबति।
धनिकः धनं सङ्‍गृह्णाति। सः दानं करोति। धनिकः धनं सङ्‍गृह्य दानं करोति।


ल्यबन्तरूपाणि ---

धातुः लट्‌लकारः ए.व. उपसर्गसहितं क्रियापदम् ल्यबन्तरूपम्
१. गम् गच्छति आगच्छति आगत्य
२. नी नयति आनयति आनीय
३. कृ करोति स्वीकरोति स्वीकृत्य
४. स्मृ स्मरति विस्मरति विस्मृत्य
५. लिख् लिखति विलिखति विलिख्य
६. क्री क्रीणाति विक्रीणीते विक्रीय
७. ज्ञा जानाति विजानाति विज्ञाय
८. स्था तिष्ठति उत्तिष्ठति उत्थाय
९. भू भवति अनुभवति अनुभूय
१०. स्थापि  स्थापयति संस्थापयति संस्थाप्य


क्त्वान्तरूपाणि ल्यबन्तरूपाणि च---

धातु: क्तवा रूपम् उपसर्गम् ल्यप् रूपम्
१. नी नीत्वा आनीय
२. हृ हृत्वा आहृत्य
३. स्मृ स्मृत्वा वि विस्मृत्य
४. कृष् कृष्ट्वा आकृष्य
५. कृ कृत्वा उप उपकृत्य
६. ज्ञा ज्ञात्वा वि विज्ञाय
७. क्री क्रीत्वा वि विक्रीय
८. नम् नत्वा प्र प्रणम्य
९. त्यज् त्यक्त्वा परि परित्यज्य
१०. लिख् लिखित्वा वि विलिख्य
११. स्था स्थित्वा सम् संस्थाय
१२. गृह् गृहीत्वा सम् सङ्गृह्य
१३. प्रेषि प्रेषयित्वा सम् सम्प्रेष्य
१४. स्था स्थित्वा उत् उत्थाय
१५. हस् हसित्वा वि विहस्य


अभ्यासः

१) उदाहरणं दृष्ट्वा वाक्येषु क्त्वाप्रयोगं कृत्वा लिखतु ---

वाक्यानि क्त्वाप्रयोगः
उदाः सः शालां गच्छति, पाठं पठति। सः शालां गत्वा पाठं पठति।
१. कार्यं कुर्वन्ति, श्रान्ता: भवन्ति ।
२. शिशुः क्रीडाङ्गणे पतति, रोदनं करोति ।
३. अहं फलं खदितवान्, जलं पीतवान् ।
४. किञ्चित् पानीयं पिबतु, अनन्तरं गच्छतु।
५. सा पत्रं लिखितवती, प्रेषितवती।
६. भवन्त: वार्तां श्रुण्वन्ति, विषयं जानन्ति।
७. वयं नाटकं पश्याम: । गृहं गच्छाम: ।
८. ता: बालिका: विषयं स्मरन्ति, सम्यक् लिखन्ति ।


२) क्त्वान्तरूपाणि लिखतु ---

उदाहरणम् - पठति – पठित्वा ।


१. गच्छति - -----।

२. खादति - -----।

३. पिबति - -----।

४. करोति - -----।

५. क्रीडति - -----।

६. हरति - -----।

७. लिखति - -----।

८. स्‍नाति - -----।

९. पतति - -----।

१०. धावति - -----।


३) ल्यबन्तरूपाणि लिखतु ---

उदाहरणम् - आगच्छति – आगत्य ।

१. प्रणमति - -----।

२. अनुभवति - -----।

३. निर्दिशति - -----।

४. उत्तिष्ठति - -----।

५. संस्मरति - -----।

६. संहरति - -----।

७. विलिखति - -----।

८. विजानाति - -----।

९. उपकरोति - -----।

१०. सङ्‍गृह्णाति - -----।


४) यथोदाहरणं क्त्वान्तरूपाणि अथवा ल्यबन्तरूपाणि उपयुज्य वाक्यानि रचयतु ---

यथा -

१. पिता स्‍नाति। देवपूजां करोति।

पिता स्‍नात्वा देवपूजां करोति।


२. गुर: उपविशति। पाठं पाठयति।

गुरुः उपविश्य पाठं पाठयति ।



३. कृष्णः रथं स्थापयति । सर्वान् पश्यति। = --- --- --- --- ---।

४. माला धावति। लक्ष्यं प्राप्नोति। = --- --- --- ---।

५. राघवः गृहम् आगच्छति । जलं पिबति। = --- --- --- ---।

६. लेखिका गीतं विलिखति । गायति । = --- --- --- ---।

७. श्यामः वाक्यं स्मरति । वदति । = --- --- --- ---।

८. छात्रः कथां लिखति । कण्ठस्थीकरोति । = --- --- --- --- ---।

९. वानरः वृक्षं पश्यति । आरोहति । = --- --- --- --- ---।

१०. सा मातरं पृच्छति । अर्थं जानाति । = --- --- --- ---।


क्त्वा- ल्यप् प्रयोगः pdf


PAGE 39