सम्भाषणम्
सम्भाषणम्
एतत् सम्भाषणं पठतु –
शिष्टाचारः
हरिः ओम्, सुप्रभातम् ।
नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।
धन्यवादः । सर्वं कुशलं वा ?
आम्, कुशलम् । भवान् कथम् अस्ति ।
अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।
किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।
व्याकरणग्रन्थम् पठितुम् इच्छामि अहम् ।
चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।
बहु धन्यवादाः महोदय ।
उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।
क्षम्यताम्, मास्तु ।
अहं स्वीकरोमि । भवान् अपि किञ्चित् स्वीकरोतु ।
अस्तु, धन्यवादः ।
स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।
(पानीयं पिबति ।)
किञ्चित् अधिकम् आवश्यकं वा ?
न, पर्याप्तम् ।
(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)
चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?
चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।
अस्तु । पुनः आगच्छतु । नमस्कारः ।
अभ्यासः
१) कोष्टके अधोलिखित शब्दानाम् अन्वेषणं करोतु
हरिः ओम्, स्वागतम्, नमस्कारः, चिन्ता मास्तु, सुप्रभातम्, क्षम्यताम्, कुशलम्, समीचिनम्, धन्यवादः | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
Puzzle created by Sameer Talar |
उत्तराणि Answers [Link to answer on page 50]