३८. स्म -प्रयोगः

From Samskrita Vyakaranam
(Redirected from ३८. स्म -प्रयोगः)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sma-prayogaH
Jump to navigation Jump to search

स्म -प्रयोगः

Home

स्म इति अव्ययम् ।

वर्तमानकालिकैः धातुरुपैः सह ‘स्म’ पदस्य प्रयोगः भवति चेत् तानि रूपाणि भूतकालिकक्रियाणाम् अर्थं प्रकटयन्ति।

उदाहरणम् ---

१. पिता शयनं करोति।     --->  पिता शयनं करोति स्म ।

२. माता भोजनं पचति।    --->  माता भोजनं पचति स्म ।

३. गायकः गायति ।       --->  गायकः गायति स्म ।

४. नर्तक्यः नृत्यन्ति।        --->  नर्तक्यः नृत्यन्ति स्म।

५. भक्तौ नमतः ।         --->  भक्तौ नमतः स्म।

६. धनिकाः दानं ददति। --->  धनिकाः दानं ददति स्म ।

७. अहं गच्छामि । ---> अहं गच्छामि स्म ।

८. यूयं पिबथ ।          --->  यूयं पिबथ स्म ।

९. पुष्पाणि विकसन्ति।     ---> पुष्पाणि विकसन्ति स्म ।

१०. पुस्तकम् अस्ति ।      --->  पुस्तकम् अस्ति स्म ।


स्म पदस्य प्रयोगेण भूतकालदर्शक-क्रियापदस्य परिवर्तनं वर्तमानकालधातुरूपे भवति।

उदाः ---

१. रामः अखादत् ।        ---> रामः खादति स्म ।

२. अहम् अखादम् ।        --->  अहं खादामि स्म |

३. बालिका अपठत् ।      --->  बालिका पठति स्म ।

४. त्वम् अधावः।          ---> त्वं धावसि स्म ।

५. श्यामः अपश्यत् ।      --->  श्यामः पश्यति स्म ।

६. पर्णानि अपतन्।       --->  पर्णानि पतन्ति स्म ।

७. सिंहाः अगर्जन्।        --->  सिंहाः गर्जन्ति स्म ।

८. यूयम् अलिखत।        --->  यूयं लिखथ स्म ।

९. फलानि अभवन् ।      --->  फलानि भवन्ति स्म ।

१०. वयम् अक्रीडाम ।     --->  वयं क्रीडामः स्म ।


अभ्यासः

चित्रं दृष्ट्वा कः कः किं किं करोति स्म इति लिखतु ---

१.
बालकः पठति स्म ।
२.
३.
४.
५.
६.
७.
८.
९.
१०.
११.
१२. .
१३..
१४..
१५..
१६.
१७.
१८.
१९.
२०.
२१.
२२.
२३.
२४.
२५.


स्म -प्रयोगः pdf

PAGE 38