तुमुन् प्रत्ययः
तुमुन् प्रत्ययः
तुमुन् प्रत्ययः
एतत् संभाषणम् पठत अवगच्छत च –
पुत्रः – तात! एतां पुस्तकप्रदर्शिनीम् किमर्थम् आयोजितवन्तः ?
पिता – पुस्तकानां प्रचारं कर्तुं | पुस्तकप्रकाशकाः पुस्तकानि विक्रेतुं , प्रदर्शयितुं च अत्र आगच्छन्ति |
पुत्रः - – जनाः पुस्तकानि क्रेतुं आगच्छन्ति किल ?
पिता – आम् | केचन क्रेतुं , पुनः केचन द्रष्टुम् |
पुत्रः – बहिः क्रिडासाधनानि किमर्थं सन्ति ?
पिता – जनान् आक्रष्टुम् । अत्र द्रष्टुम् आगताः केचन पातुम् इच्छन्ति, केचन खादितुम् इच्छन्ति । अतः उपाहारशकटानि अपि तत्र सन्ति ।
पुत्रः – केचन भिक्षुकाः अपि सन्ति, पश्यतु । धनं याचितुम् आगताः ते ।
पिता – आम् । ये दातुम् इच्छन्तु ते यच्छन्ति । चोरयितुम् इच्छन्तः केचन चोराः अपि अत्र भवन्ति । अतः जनान् शान्तिव्यवस्थां च रक्षितुम् अत्र आरक्षकाः सन्ति ।
अवधेयम् ---
कर्तुम्, विक्रेतुम्, प्रदर्शयितुम्, क्रेतुम्, द्रष्टुम्, पातुम्, याचितुम्, दातुम्, एतेषु शब्देषु “तुमुन्” इति प्रत्ययः योजितः अस्ति | एकस्याः क्रियायाः अपेक्षायाम् इच्छायां वा यदि अन्या काचित् क्रिया भवति तर्हि अपेक्षितक्रियायाः प्रदर्शनाय “तुमुन्” इति प्रत्ययस्य उपयोगः भवति | यथा –
रामः चषकं स्वीकरोति | दुग्धम् पिबति | रामः दुग्धं पातुं चषकं स्वीकरोति |
अत्र रामस्य दुग्धपाने इच्छा अस्ति | अतः सः चाषक-स्वीकरणरूपं अन्यां क्रियाम् अपि करोति|
अथवा “किमर्थम्” इति प्रश्नस्य यत् उत्तरं भवति तत्र प्रायः “तुमुन्” इति प्रत्ययस्य उपयोगः भवति |
यथा – रामः किमर्थं चषकं स्वीकरोति ? रामः दुग्धं पातुं चषकं स्वीकरोति |
“रामः पठितुं शालां गच्छति |” - एतस्मिन् वाक्ये गच्छति इति क्रिया पठनोद्देशेन अस्ति । अतः पठनम् - उद्धिष्टक्रिया । एवम् उद्दिष्टक्रियायाः “तुमुन्” भवति ।
तुमुन्नन्तरूपाणि ---
वर्तमानकालः | तुमुन्नन्तरुपम् | |
---|---|---|
१. | पतति | पतितुम् |
२. | हसति | हसितुम् |
३. | धावति | धावितुम् |
४. | पठति | पठितुम् |
५. | भवति | भवितुम् |
६. | चलति | चलितुम् |
७. | नयति | नेतुम् |
८. | लिखति | लेखितुम् |
९. | मिलति | मेलितुम् |
१०. | क्रीणाति | क्रेतुम् |
११. | शृणोति | श्रोतुम् |
१२. | नयति | नेतुम् |
१३. | करोति | कर्तुम् |
१४. | गॄह्णाति | ग्रहीतुम् |
१५. | पृच्छति | प्रष्टुम् |
१६. | पश्यति | द्रष्टुम् |
१७. | पिबति | पातुम् |
१८. | ददाति | दातुम् |
१९. | उत्तिष्ठति | उत्थातुम् |
२०. | उपविशति | उपवेष्टुम् |
पठत अवगच्छत च -
1. सः ______ इच्छति (पठनम्) । सः पठितुम् इच्छति |
2. सः ______ इच्छति (गानम्) । सः गातुम् इच्छति |
3. सः ______ इच्छति (लेखनम्) । सः लेखितुम् इच्छति |
4.सः ______ इच्छति (कथनम्) । सः लेखितुम् इच्छति |
5.सः ______ इच्छति (गमनम्) । सः गन्तुम् इच्छति |
6.सः ______ इच्छति (पानम्) । सः पातुम् इच्छति |
7.सः ______ इच्छति (खादनम्) । सः खदितुम् इच्छति |
8.सः ______ इच्छति (दानम्) । सः दातुम् इच्छति |
9.सः ______ इच्छति (हसनम्)। सः हसितुम् इच्छति |
10. सः ______ इच्छति (चलनम्) । सः चलितुम् इच्छति |
11. सः ______ इच्छति (क्रीडनम्) । सः क्रीडितुम् इच्छति |
12. सः ______ इच्छति (धावनम्) । सः धावितुम् इच्छति |
13. सः ______ इच्छति (करणम्) । सः कर्तुम् इच्छति |
14. सः ______ इच्छति (दर्शनम्) । सः द्रष्टुम् इच्छति |
15. सः ______ इच्छति (अर्चनम्) । सः अर्चितुम् इच्छति |
अभ्यासः
1. कोष्ठगतशब्दान् तुमुन्नन्तपदेषु परिवर्त्य रिक्तस्थानानि पूरयन्तु ।
१. अहं पठितुं विद्यालयं गच्छामि । (पठनार्थम्)
२. सः ……………………………………… गच्छति । (शयनार्थम्)
३। ते ……………………………………… गच्छन्ति । (वन्दनार्थम्)
४। ताः ……………………………………… मन्दिरं गच्छन्ति । (अर्चनार्थम्)
५। बिडालः ………………………………… भोजनार्थम् प्रविशति । (खादनार्थम्)
६। मूषकः ……………………………………… आगच्छति । (कर्तनार्थम्)
७। कृषकः ……………………………………… क्षेत्रं गच्छति । (कर्षनार्थम्)
८। ते ……………………………………… द्वारे तिष्ठन्ति । (रक्षनार्थम्)
९। वयं ……………………………………… प्रातः उत्तिष्ठामः । (स्मरणार्थम्)
१०। एते विश्वनाथमन्दिरं ……………………………… काशीं गच्छन्ति । (दर्शनार्थम्)
११। सा ……………………………………… पाकशालां गच्छति । (पचनार्थम्)
१२। युवकः चायं ……………………………………… उपाहारगृहं गच्छति । (पानार्थम्)
2. कोष्ठे दत्तेन धातुना सह तुमुन्-प्रत्ययं योजयित्वा उचितं रूपं रिक्ते स्थाने लिखन्तु ।
१। सः अत्र ……………………………………… शक्नोति । (स्था)
२। सः एतत् पुस्तकं ……………………………………… शक्नोति । (पठ्)
३। किं, सः अस्मिन् आसने ……………………………… शक्नोति ? (उपविश्)
४। अहं गीताम् ………………………………… शक्नोमि । (उपदिश्)
५। किम्, इदानीं सः गृहं ……………………………………… न शक्नोति ? (गम्)
६। न हि, इदानीं सः गृहं ……………………………………… न शक्नोति । (गम्)
७। किम्, अहम् अत्र ……………………………… शक्नोमि ? (आगम्)
८। किम्, अहम् एकं चलचित्रं ……………………………… शक्नोमि ? (दृश्)
९। किं, भवती एकं गीतं ……………………………………… शक्नोति ? (गा)
१०। सः वृक्षम् ……………………………… शक्नोति । (आरुह्)
११। ताः नृत्यं ……………………………………… शक्नुवन्ति । (कृ)
१२। अहं काव्यं ………………………………… न शक्नोमि । (लिख्)
१३। त्वं ……………………………………… न शक्नोषि । (पच्)
१४। ते छात्रे ……………………………………… शक्नुतः । (नृत्)
१५। मूषकः बिलं ………………………………… शक्नोति । (प्रविश्)
3. कोष्ठके प्रदत्तैः धातुभिः सह तुमुन् प्रत्ययं संयोज्य यथोदाहरणं रिक्तस्थानानि पूरयन्तु -
१। वयं नर्त्तितुम् इच्छामः । (नृत्)
२। सः ……………………………………… इच्छति । (खाद्)
३। ते गृहं ……………………………………… इच्छन्ति । (गम्)
४। यूयं किं ……………………………………… इच्छथ । (कृ)
५। रमा प्राङ्गणे ……………………………………… इच्छति । (क्रीड्)
६। देवेशः चलचित्रं ……………………………………… इच्छति । (दृश्)
७। सः आसने ……………………………………… इच्छति । (उपविश्)
८। सः श्लोकं ……………………………………… इच्छति । (श्राव्)
९। सः गीतं ……………………………………… इच्छति । (गा)
१०। सः वस्त्राणि ……………………………………… इच्छति । (प्रक्षालय्)
११। सः समाचारं ……………………………………… इच्छति । (श्रु)
१२। सः उत्तरं ……………………………………… इच्छति । (ज्ञा)