३६. आगामि - गत
< 13 - भाषित-संस्कृतम् | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/AgAmi-gata
Jump to navigation
Jump to search
आगामि
आगामिवर्षे अहं मातामह्याः गृहं गमिष्यामि।
आगामिमासे देव्याः भागवतं श्रोष्यामि।
गत-ऋतुः वसन्तः आसीत्, आगामि-ऋतुः वर्ष-ऋतुः भविष्यति।
गत-ऋतुः हेमन्तः आसीत् आगामि-ऋतुः शिशिर- ऋतुः भविष्यति।
आगामिपर्वणस्य भोजनं स्वादिष्टं भवेत्।
आगामिवर्गे नुतनं विषयं पठिष्यामः।
आगामिवर्षे प्रयागे पर्यटनाय मम अभिरूचिः अस्ति।
गत
गतमासे होलिका उत्सवः आसीत्।
गतसप्ताहे अहं रामस्य कथां श्रुतवती।
गतदिने तस्याः स्वास्थ्यं समीचीनं नासीत्।
गतकेषुचन दिनेषु सः एकाकी एव कार्यं करोति।
बालकः गतवर्षे अष्टमिकक्षायां पठितवान्।
आगामिवर्षे नवमिकक्षायां पठिष्यति |
गतवर्षद्वयात् आरभ्य मम न्यायशास्त्रस्य अभ्यासः प्रचलन् अस्ति।
PAGE 36