च - एव - अपि - इति
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
![](http://static.miraheze.org/samskritavyakaranamwiki/thumb/e/e9/Home_13-2023.png/48px-Home_13-2023.png)
च - एव - अपि - इति
च - एव - अपि - इति
च - एव - अपि - इति अव्ययानि ।
च means and, also, even, just, but, yet'.
एव meaning depending on the context can be ' only, as you like, even so, indeed, exactly, still, just, also'.
अपि means 'also'.
इति means 'and so, in the end, conclusion etc.'
अधः स्थितं सम्भाषणं पठतु ।
सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?
आनन्दः – आम् भोः । सर्वे सिद्धाः एव ।
सुरेशः – तर्हि के के किं किं कुर्वन्ति ?
आनन्दः – नलिनी माला दिव्या च गानं गायन्ति । राधा अपि गायामि इति उक्तवती। यदि आगच्छति चेत् ।
सुरेशः – अपि च अन्ये किं कुर्वन्ति ?
आनन्दः – अहं कृष्णः गोविन्दः दिलीपः वाणी ललिता चन्द्रिका च मिलित्वा एकं नाटकं प्रदर्शयामः ।
सुरेशः – किरणः अपि नाटके भवामि इति उक्तवान् खलु? ।
आनन्दः – सः अद्य नगरे नास्ति एव भोः । प्रवासे अस्ति । तस्य स्थाने प्रसादः भवति ।
सुरेशः – एवं वा ? अस्तु । तर्हि सायङ्काले मिलामः । भवतः कार्यक्रमः यशस्वी भवतु ।