च - एव - अपि - इति

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/ca-eva-api-iti
Jump to navigation Jump to search
Home

च - एव - अपि - इति

"च - एव - अपि - इति" - एते अव्ययपदानि।

एतत् सम्भाषणं पठतु ।

सुरेशः – आनन्द ! अद्यतनस्य कार्यक्रमार्थं सर्वे सिद्धाः सन्ति किम् ?

आनन्दः – आम् भोः । सर्वे सिद्धाः एव

सुरेशः – तर्हि के के किं किं कुर्वन्ति ?

आनन्दः – नलिनी माला दिव्या गानं गायन्ति । राधा अपि गायामि इति उक्तवती। यदि आगच्छति चेत् ।

सुरेशः – अपि च अन्ये किं कुर्वन्ति ?

आनन्दः – अहं कृष्णः गोविन्दः दिलीपः वाणी ललिता चन्द्रिका मिलित्वा एकं नाटकं प्रदर्शयामः ।

सुरेशः – किरणः अपि नाटके भवामि इति उक्तवान् खलु? ।

आनन्दः – सः अद्य नगरे नास्ति एव भोः । प्रवासे अस्ति । तस्य स्थाने प्रसादः भविष्यति ।

सुरेशः – एवं वा ? अस्तु । तर्हि सायङ्काले मिलामः । भवतः कार्यक्रमः यशस्वी भवतु ।

आनन्दः – धन्यवादः सुरेश ! सायङ्काले मिलामः ।

च इत्यस्य प्रयोगः

रमेशः अच्युतः अनन्तः शालां गतवन्तः।

वीणा सौम्या स्मिता च ग्रन्थालयं गतवत्यः।

माता ओदनं क्वतिथं च पचति।

पिता फलानि शाकानि पुष्पाणि च क्रीतवान्।

एव इत्यस्य प्रयोगः

रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः।

रमेशः अच्युतः अनन्तः च मन्दिरं एव गतवन्तः। अर्थः - अन्यत्र कुत्रापि न गतवन्तः।

रमेशः अच्युतः अनन्तः च मन्दिरं गतवन्तः एवअर्थः - निश्चयेन मन्दिरं गतवन्तः।

रमेशः एव मन्दिरं गतवान्। अर्थः - अच्युतः अनन्तः च मन्दिरं न गतवन्तौ।

अपि इत्यस्य प्रयोगः

रमेशः अच्युतः च क्रीडतः।

अनन्तः अपि क्रीडति। अर्थः - रमेशः अच्युतः च क्रीडतः। तदा अनन्तः अपि क्रीडति।

अनन्तः कन्दुकेन अपि क्रीडति । अर्थः - अनन्तः अन्याः क्रीडाः अपि क्रीडति। यथा - अध्ययनम् अपि करोति।

अनन्तः क्रीडति अपिअर्थः - अनन्तः आपणं गच्छति। कन्दुकं क्रीणाति। गृहम् आगच्छति। क्रीडति अपि।

इति इत्यस्य प्रयोगः

अभ्यासः – उपरिदत्तस्य सम्भाषणम् अनुसृत्य स्व-शब्दैः एकं सम्भाषणं लिखतु ।

----------------------------------------------------------------------