द्वितीया विभक्तिः
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/dvitIyA-vibhaktiH
द्वितीया विभक्तिः
एतानि चित्राणि वाक्यानि च पठत –
बालकः | विद्यालयः | बालकः विद्यालयम् गच्छति | |
बालकः पाठम् पठति । | बालिका क्रीडालयम् गच्छति । |
माता – वत्स ! आपणं गत्वा आगच्छति वा ?
गोविन्दः – अम्ब ! शीघ्रं लिखित्वा गच्छामि | किम् आनयामि ततः ?
माता – वत्स ! आपणं गत्वा लवणं, शर्करां, तण्डुलं, गुडं, द्विदलं च आनय |
गोविन्दः – भगिनीं वदतु अम्ब ! सा किम् करोति ?
माता – सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति | द्रोण्यां जलं पूरयति | भूमिं वस्त्रेण मार्जयति | पुष्पाणि आनीय मालां करोति | एवं तस्य बहूनि कार्याणि सन्ति भोः |
गोविन्दः – ममापि पठनं बहु अस्ति |
माता – दशनिमेषाभ्यन्तरे आपणं गत्वा आगच्छतु | अनन्तरं पाठान् पठ |
गोविन्दः – तर्हि शीघ्रं धनं स्यूतम् चा ददातु अम्ब !
माता – आगमनसमये द्वौ कूर्चौ, अग्निपेटिके, संमार्जन्यौ च आनय |
गोविन्दः – द्वौ स्युतौ ददातु, धनम् अधिकं ददातु, चाकलेहान् अपि आनयामि.....?
माता – अतः एव भवान् शीघ्रम् गन्तुम् उद्युक्तः | स्वीकुरु ....|
रूपाणि
अजन्तशब्दानाम् द्वितीया विभक्तिप्रयोगः | |||
---|---|---|---|
प्रथमाविभक्तिः | अकारान्तः पुंलिङ्गः | मयूरः | मयूराः |
द्वितीयाविभक्तिः | मयूरम् | मयूरान् | |
प्रथमाविभक्तिः | अकारान्तः स्त्रीलिङ्गः | बालिका | बालिकाः |
द्वितीयाविभक्तिः | बालिकाम् | बालिकाः | |
प्रथमाविभक्तिः | ईकारान्तः स्त्रीलिङ्गः | नदी | नद्यः |
द्वितीयाविभक्तिः | नदीम् | नदीः | |
प्रथमाविभक्तिः | अकारान्तः नपुंसकलिङ्गः | पुस्तकम् | पुस्तकानि |
द्वितीयाविभक्तिः | पुस्तकम् | पुस्तकानि |
सर्वनामशब्दानाम् द्वितीया विभक्तिप्रयोगः | |||
---|---|---|---|
प्रथमाविभक्तिः | सः | ते | |
द्वितीयाविभक्तिः | तम् | तान् | |
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः | |||
प्रथमाविभक्तिः | |||
द्वितीयाविभक्तिः |
अभ्यासः
एतानि वाक्यानि पठन्तु –
वाक्यम् | प्रश्नः |
---|---|
भक्तः ध्यानं करोति | | भक्तः किं करोति ? |
आचार्यः योगाभ्यासम् अवलोकयति। | आचार्यः कम् अवलोकयति ? |
छात्रः प्राणान् पूरयति। | छात्रः कान् पूरयति ? |
[place below sentences in the table above]
योगशिक्षकः मुद्रां कारोति | योगशिक्षकः काम् करोति ?
योगः अस्मान् रक्षति | योगः कान् रक्षति ?
त्वं बालिकाभ्यः योगासनं दर्शयति | त्वं बालिकाभ्यः किं दर्शयति ?
सः आसनानि प्रदर्शयति | सः कानि प्रदर्शयति ?
बालकः नेतिसूत्रे नासिकायां स्थापयति | बालकः के नासिकायां स्थापयति ?
तौ भानुं नमस्कुरुतः | तौ कं नमस्कुरुतः ?
एषा महिला प्राणायामं पाठयति | एषा के प्राणायामं पाठयति ?
उदाहरणानुसारं प्रश्न-निर्माणम् कुर्वन्तु |
वाक्यम् | प्रश्नः |
---|---|
सः सत्यं वदति। | कः सत्यं वदति ? |
[place below sentences in the table above]
एषः संयमं करोति | प्रश्नः – ____________________ ?
योगी विभूतिं प्राप्नोति | प्रश्नः – ____________________ ?
अहिंसकः वैरं त्यजति | प्रश्नः – ____________________ ?
साधकः इन्द्रियाणि निगृह्णाति | प्रश्नः – ____________________ ?
छात्रः पादान् प्रसारयति | प्रश्नः – ____________________ ?
सा हठयोगप्रदीपिकां पठति | प्रश्नः – ____________________ ?
वैद्यः नाडीः परिशीलयति | प्रश्नः – ____________________ ?
सः नियमान् पालयति | प्रश्नः – ____________________ ?
अहं षट्कर्माणि करोमि | प्रश्नः – ____________________ ?
अधः एकं सम्भाषणम् अस्ति । सम्भाषणं पठत । आवरणे विद्यमानानां शब्दानाम् उचितानि रूपाणि रिक्ते स्थले लिखत ।
गीता – ह्यः भवती किमर्थं ____________ (विद्यालयः) न आगतवती ?
माला – ह्यः अहं ___________ (ग्रामः) गतवती आसम् |
गीता – _________ (ग्रामः) किमर्थं गतवती भवती ?
माला – प्रतिवर्षं मम पितामहः __________ (देवपुजा) करोति | अतः अहं ________ (ग्रामः) गतवती |
गीता – ग्रामे भवती किं किं करोति ?
माला – अहं ग्रामे _________ (लीला) ___________ (लता) चा दृष्टवती | अहम् अपि _________ (पूजा) कृतवती | पितामहेन सह ___________ (संभाषणम्) कृतवती | ____________ (बीजपूरवृक्षः) आरुह्य __________ (फलानि) खादितवती | अस्तु , ह्यः अध्यापकः __________ (कः) ___________ (पाठः) पाठितवान् ?
गीता – ह्यः अध्यापकः _________ (पाठः) न पठितवान् | अपि तु _________ (श्लोकाः) पठितवान् |
माला – तृतीयपाठस्य विषये सः ___________ (प्रश्नाः) पृष्टवान् वा ?
गीता – आं , सः ___________ (प्रश्नाः) पृष्टवान् | वयम् _________ (उत्तराणि) उक्तवन्तः |
माला – ह्यः गायत्री किं ___________ (कक्ष्या) आगतवती ?
गीता – आम् | सा ________ (नूतनः) _________ (चोलः) __________ (निचोलः) च धृत्वा आगतवती | ह्यः तस्याः जन्मदिनम् | सा ___________ (अध्यापिकाः) नमस्कृतवती | अध्यापकाः __________ (अशीर्वादः) कृतवन्तः | वयम् _________________ (अभिनन्दनवचनानि) उक्तवन्तः |
शब्दानां द्वितीयाविभक्तिप्रयोगाः
अधोलिखितानां शब्दानाम् उचित् विभक्तिरूपेण रिक्तस्थानानि उरयन्तु ---
१. आपणः | २. ग्रन्थालयः | ३. वित्तकोषः | ४. प्रकोष्ठः |
५. मठः | ६. बौध्दविहारः | ७. आश्रमः | ८. चन्द्रलोकः |
९. विदेशः | १०. हिमालयः | ११. देवालयः | १२. भूलोकः |
- ग्राहकः आपणं गच्छति।
- प्राध्यापकः ----- गच्छति।
- धनिकः ----- गच्छति।
- माता ----- गच्छति।
- भक्तः ----- गच्छति।
- भिक्षुकः ----- गच्छति।
- आचार्यः ----- गच्छति।
- अन्तरिक्षयात्रीकः ----- गच्छति।
- भ्राता ----- गच्छति।
- साधकः ----- गच्छति।
- पिता ----- गच्छति।
- नारदः ----- गच्छति।
आवरणे लिखितानां शब्दानां द्वितियाविभक्तिरूपाणि लिखन्तु ---
- सः (अहम् ) ----- आह्वयति।
- सा (भवती) ----- पश्यति ।
- जनानी (सा) ----- पृच्छति ।
- त्वं (ते [पुं]) ----- वदसि ।
- सैनिकाः (देशः) ----- रक्षन्ति ।
- सा (भवत्यः ) ----- स्मरति ।
- सर्वे (अहम्) ----- पृच्छन्ति ।
- भवान् (एषा) ----- जानाति किम् ?
- सः ( भवान्) ----- न जानाति।
अधोलिखित सम्भाषणम् पठतु। आवरणे विद्यामानां शब्दानाम् उचितरूपाणि रिक्त स्थाने लिखतु ---
माता - पुत्र ! (श्लोकः) ----- वदतु।
पुत्रः - अहं (श्लोकः) ----- वक्तुं न शक्नोमि।
माता – किमर्थम् ?
पुत्रः – अहम् (शाला) ----- न गतवान् ।
माता – अहं (भवान्)---- पाठयामि।
पुत्रः – सत्यं, भवती (अहं) ----- पाठयामि।
माता – आम्, पाठयामि।
पुत्री – अम्ब, (अहम्) ----- अपि पाठयतु।
माता – अस्तु, (भवती) ----- अपि पाठयामि।
पुत्रः – कदा पाठयति?
माता – इदानीं (भवान्) ----- पाठायामि ।
पुत्रः – (अनुजा) ----- कदां पाठयति।
माता – (सा) ----- श्वः पाठयामि ।