कदा ?; कुत्र ?; किम् ?

From Samskrita Vyakaranam

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/kadA-kutra-kim
Jump to navigation Jump to search
Home

कदा ? कुत्र ? किम् ?

कदा ?

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

भवान् कदा उत्तिष्ठति ?

अहं पञ्चवादने उत्तिष्ठामि ।

भवान् कदा विद्यालयं गच्छति ?

अहं सप्तवादने विद्यालयं गच्छामि ।

सूर्योदयः कदा भवति ?

सूर्योदयः षड्वादने भवति।

भवती कदा क्रीडति ?

अहं सायं चतुर्वादने क्रीडामि।

दीपावली कदा भवति ?

दीपावली प्रायः नवम्बर मासे भवति।

वर्षा ऋतुः कदा आगच्छति ?

वर्षा ऋतुः जून मासे आगच्छति।


कुत्र ?

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

यथा - भवान् कुत्र वसति ?

अहं देहली नगरे वसामि ।

भवती कुत्र कार्यं करोति ?

अहं वित्तकोषे कार्यं करोमि ।

रमेशः प्रतिदिनं कुत्र गच्छति ?

रमेशः प्रतिदिनं क्रीडाँगनं  गच्छति।

महोदयस्य कारयानं कुत्र अस्ति ?

महोदयस्य कारयानं गृहे अस्ति ।

भवान् श्वः कुत्र गमिष्यति ?

अहं श्वः मुम्बई नगरं गमिष्यामि।

बिहार राज्यस्य राजधानी कुत्र अस्ति ?

बिहार राज्यस्य राजधानी पटना नगरे अस्ति।

महाकाल मन्दिरं कुत्र अस्ति ?

महाकाल मन्दिरं उज्जैन नगरे अस्ति ।


किम् ?

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

भवान् किम् पठति ?

अहं रामायणं पठामि ।

सुनील किम् क्रीडति ?

सुनील पादकन्दुकं क्रीडति ।

भवती किम् पाठयति ?

अहं संस्कृतं पाठयामि ।

गृहस्य पुरतः किम् अस्ति ?

गृहस्य पुरतः वाटिका अस्ति ।

विद्यालयस्य पृष्ठतः किम् अस्ति ।

विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।

शिशुः किम् खादति ?

शिशुः रोटिकां खादति ।


अभ्यासः

एतेषां प्रश्नानाम् उत्तरम् लिखतु –

भवती कदा कार्यालयं गच्छति ?

------------------------------------

भवान् कदा मैसूरु नगरे गमिष्यति ?

------------------------------------

विशालस्य गृहं कुत्र अस्ति ?

------------------------------------

भारत देशस्य संसद भवन कुत्र अस्ति ?

-------------------------------------

बालकः प्रभाते किम् खादति ?

------------------------------------

माता आपणतः किम् आनयति ?

------------------------------------