३. परिचयः
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paricayaH
चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )
पुंलिङ्गम् (Masculine) | ||
---|---|---|
स्त्रीलिङ्गम् (feminine) | ||
विशेषः –
* भवतः - पुंलिङ्गे | भवत्याः – स्त्रीलिङ्गे |
* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |
एतत् संभाषणम् उच्चैः पठत अवगच्छत च –
आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?
रमेशः – मम नाम रमेशः |
आचार्यः – भवत्याः नाम किम् ?
लता – मम नाम लता |
आचार्यः – मम नाम किम् ?
छात्राः – भवतः नाम अरुणः |
आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकं , चित्रं , मित्रं , वृक्षः, हस्तः, लेखनी |
छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |
आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |
छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |
आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |
छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |
परिचयः
अभ्यासाः (मम / भवतः / भवत्याः )
१. यथोदाहरणं रिक्तस्थानानि पूरयत –
यथा – रामः – भवतः नाम किम् ?
रावणः – मम नाम रावणः |
सीता – भवत्याः नाम किम् ?
शूर्पणखा – मम नाम शूर्पणखा
- विनोदः - _____ _____ ? प्रकाशः - _____ _____ |
- द्रोणः - _____ _____ ? एकलव्यः - _____ _____ |
- अर्जुनः - _____ _____ ? सुभद्रा - _____ _____ |
- आञ्जनेयः - _____ _____ ? भीमः - _____ _____ |
- बृहन्नला - _____ _____ ? उत्तरा - _____ _____ |
२. नामानुगुणं प्रश्नं पृच्छन्तु |
यथा - १. नारायणः – भवतः नाम किम् ?
- श्रीशः - ____________________________ ?
- ललिता - ___________________________ ?
- नलिनी - ____________________________ ?
- दिवाकरः - ___________________________ ?
- पद्मा - ______________________________ ?
- तपनः - _____________________________ ?
३. भवतः , भवत्याः , मम , नाम , किम्
१. मम नाम रामः | _______________ नाम किम् ?
२. ___________________ नाम दिनेशः |
३. ________________ नाम _________ ?
४. मम _______________ रुक्मिणी |
५. _________________ नाम किम् ?
६. ___________________ नाम अरुणः |
४. [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सूचितानां शब्दानाम् उपयोगं कृत्वा वाक्यानि रचयन्तु |
ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी
- ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
- __________ |____________ | ____________ |
- __________ | ____________| ____________ |
- __________ | _ __________ |_____ _______ |
- __________ | ___________ | ____ ________ |
- __________ | ___________ | _____________ |
- __________ | ___________ | _____________ |
- __________ | ___________ | _____________ |
- __________ | ___________ | _____________ |
- __________ | ___________ | _____________ |
PAGE 3