13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/saha-vinA: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/saha-vinA
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 231: Line 231:




<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/7/7c/34-saha-vinA.pdf सह विना pdf]'''</big>
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/3/3d/PAGE_34_PDF.pdf सह , विना pdf]'''</big>


'''PAGE 34'''
'''PAGE 34'''

Revision as of 21:04, 12 August 2023

Home

सह

सह इति अव्ययम्। सह meaning with.


अवधेयम्

स : पुत्रेण सह आपणं गच्छति।
सा सख्या सह विद्यालयं गच्छति।

ध्यानेन पठतु , अवगच्छतु च

१) राम: । रावण:  ..............युद्धं कृतवान्।

राम: रावणेन सह युद्धं कृतवान्।

२) लक्ष्मणः । राम: ..........वनं गतवान्।

लक्ष्मणेन सह राम: वनं गतवान्।

३) गोपाल: । माधव:.........अभ्यासं करोति।

गोपालेन सह माधव: अभ्यासं करोति।  

४) अहं । मित्रम्  .......नाटकं पश्यामि।

अहं  मित्रेण सह नाटकं पश्यामि ।

५) एषा । सीता .....तिष्ठति।

एषा सीतया सह तिष्ठति।

६) सुरेश: । भगिनी ......... सम्भाषणं करोति।

सुरेश: भगिन्या सह सम्भाषणं करोति।

७) माता । पुत्री .......कार्यं करोति।

माता पुत्रिया सह कार्यं करोति।

८) अध्यापकः । छात्रा: ........प्रवासार्थं गतवान्।

अध्यापकः छात्रै: सह प्रवासार्थं गतवान्।

९) लता । सख्य: ............क्रीडति।

लता सखीभि: सह क्रीडति।


तृतीयाविभक्त्यन्तरूपाणि

एक वचनम्                          बहु वचनम्
छात्रेण                                   छात्रै:  
मित्रेण                                    मित्रै:
बालिकया                             बालिकाभि:
सख्या                                   सखीभि:

अभ्यास :

१) एतेषु वाक्येषु पदानि अव्यवस्थितानि सन्ति । तानि व्यवस्थितानि लिखतु।


यथा ---

१) करोति सह दिनेश: मित्रै: प्रतिदिनम् अभ्यासं।

दिनेश: मित्रै: सह प्रतिदिनम् अभ्यासं करोति।

२) आगतवान् सह क: भवता?

३) कलहं सः सह करोति सर्वै:।

४) आगच्छामि वा अहम् अपि सह भवत्या?

५) युद्धं सैनिक: सह करोति शत्रुभि:।

६) करोति वैद्य: सह रोगिभि: सम्भाषणं।

७) ललिता सह कृतवती चर्चाम् अध्यापिकाभि:।


२) सह उपयुज्य वाक्यानि रचयतु

सह सह उपयुज्य वाक्यम्
राजेशः मनीषः सह पठति राजेशः मनीषेण सह पठति
अभिषेकः प्रकाशः सह लिखति
भगिनी अनुजः सह नृत्यति
पिता पुत्री सह क्रिडति
पुत्रः जननी सह गच्छति
माला सीता सह खादति
रामः पिता सह धावति
शिशुः माता सह हसति
कृष्णः राधा सह विहरति
अनुराधा मातुलः सह आपणं गच्छति
छात्रः अध्यापिका सह वार्तालापं करोति

विना

विना इति अव्ययम् । विना means without.

विना इति पदम् उपयुज्य वाक्यानां रचनम्।

मीनः (जलं) जलेन विना न जीवति। वाहनं (तैलं) तैलेन विना न चलति।
माता (पुत्रः) पुत्रेण विना भोजनं न करोति । मानवः (वृक्षः) वृक्षेण विना न जीवति ।


विशेषसूचना

विना इति पदस्य प्रयोगः द्वितीया पञ्चमी च विभक्त्योः अपि भवति।

यथा

जलेन विना मीनः न जीवति ।

जलं विना मीनः न जीवति ।

जलात् विना मीनः न जीवति ।

एवम् एव उपरिदत्तेषु अन्येषु वाक्येषु अपि भवति।


उदाहरणं दृष्ट्वा अन्यवाक्यानि लिखतु

१) (धनम्) .........  जीवनं कठिनम्। —→ धनेन विना जीवनं कठिनम् ।

२) (इन्धनम्) ........ वाहनं न चलति। —→ ----------------------------- ।

३) (पुस्तकम्) ........  अहं विद्यालयं न गच्छति। —→ ----------------------------- ।

४) (अभ्यासः) ........ शास्त्रं नश्यति। —→ ----------------------------- ।

५) (गृहिणी) ........ गृहं निरर्थकं भवति । —→ ----------------------------- ।

६) (पठनम्) ........ शास्त्राभ्यासः न भवति। —→ ----------------------------- ।

७) (व्यायामम्) ........ स्वास्थ्यं न भवति । —→ ----------------------------- ।

८) (दण्डः ) ........ वृद्धः न चलति । —→ ----------------------------- ।


सह , विना pdf

PAGE 34