३४. सह - विना

From Samskrita Vyakaranam
Revision as of 11:17, 14 July 2023 by Vidhya (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/saha-vinA
Jump to navigation Jump to search
Home

सह

सह इति अव्ययम्। सह meaning with.


अवधेयम् ---


स : पुत्रेण सह आपणं गच्छति।
सा सख्या सह विद्यालयं गच्छति।

ध्यानेन पठतु , अवगच्छतु ---

१) राम: रावण:  ..............युद्धं कृतवान्।

राम: रावणेन सह युद्धं कृतवान्।

२) लक्ष्मणः । राम: ..........वनं गतवान्।

लक्ष्मणेन सह राम: वनं गतवान्।

३) गोपाल: । माधव:.........अभ्यासं करोति।

गोपालेन सह माधव: अभ्यासं करोति।  

४) अहं । मित्रम्  .......नाटकं पश्यति।

अहं  मित्रेण सह नाटकं पश्यामि ।

५) एषा । सीता .....तिष्ठति।

एषा सीतया सह तिष्ठति।

६) सुरेश: । भगिनी ......... सम्भाषणं करोति।

सुरेश: भगिन्या सह सम्भाषणं करोति।

७) माता । पुत्री .......कार्यं करोति।

माता पुत्रिया सह कार्यं करोति।

८) अध्यापकः । छात्रा: ........प्रवासार्थं गतवान्।

अध्यापकः छात्रै: सह प्रवासार्थं गतवान्।

९) लता । सख्य: ............क्रीडति।

लता सखीभि: सह क्रीडति।


तृतीयाविभक्त्यन्तरूपाणि

एक वचनम्                          बहु वचनम्
छात्रेण                                   छात्रै:  
मित्रेण                                    मित्रै:
बालिकया                             बालिकाभि:
सख्या                                   सखीभि:

अभ्यास :

१) एतेषु वाक्येषु पदानि अव्यवस्थितानि सन्ति । तानि व्यवस्थितानि लिखतु।


यथा ---

१) करोति सह दिनेश: मित्रै: प्रतिदिनम् अभ्यासं।

दिनेश: मित्रै: सह प्रतिदिनम् अभ्यासं करोति।

२) आगतवान् सह क: भवता?

३) कलहं सः सह करोति सर्वै:।

४) आगच्छामि वा अहम् अपि सह भवत्या?

५) युद्धं सैनिक: सह करोति शत्रुभि:।

६) करोति वैद्य: सह रोगिभि: सम्भाषणं।

७) ललिता सह कृतवती चर्चाम् अध्यापिकाभि:।


२) सह उपयुज्य वाक्यानि रचयतु ---

सह सह उपयुज्य वाक्यम्
राजेशः मनीषः सह पठति राजेशः मनीषेण सह पठति
अभिषेकः प्रकाशः सह लिखति
भगिनी अनुजः सह नृत्यति
पिता पुत्री सह क्रिडति
पुत्रः जननी सह गच्छति
माला सीता सह खादति
रामः पिता सह धावति
शिशुः माता सह हसति
कृष्णः राधा सह विहरति
अनुराधा मातुलः सह आपणं गच्छति
छात्रः अध्यापिका सह वार्तालापं करोति

विना

विना इति अव्ययम् । विना means without.

चित्रम्
मीनः (जलं) जलेन विना न जिवति।
चित्रम्
वाहनं (तैलं) तैलेन विना न चलति।
चित्रम्
माता (पुत्रः) पुत्रेण विना भोजनं न करोति ।
चित्रम्
मानवः (वृक्षः) वृक्षेण विना न जीवति ।

विशेषसूचना

जलं विना मीनः न जीवति । अयं प्रयोगः अपि शुद्धः एव ।


उदाहरणं दृष्ट्वा अन्यवाक्यानि लिखतु

१) (धनम्) .........  जीवनं कठिनम्। —→ धनेन विना जीवनं कठिनम् ।

२) (इन्धनम्) ........ वाहनं न चलति। —→ ----------------------------- ।

३) (पुस्तकम्) ........  अहं विद्यालयं न गच्छति। —→ ----------------------------- ।

४) (अभ्यासः) ........ शास्त्रं नश्यति। —→ ----------------------------- ।

५) (गृहिणी) ........ गृहं निरर्थकं भवति । —→ ----------------------------- ।

६) (पठनम्) ........ शास्त्राभ्यासः न भवति। —→ ----------------------------- ।

७) (व्यायामम्) ........ स्वास्थ्यं न भवति । —→ ----------------------------- ।

८) (दण्डः ) ........ वृद्धः न चलति । —→ ----------------------------- ।

PAGE 34