९. सम्बन्धषष्ठी - शब्दानां प्रयोगः

From Samskrita Vyakaranam
< 13 - भाषित-संस्कृतम्‌‎ | Introductory-Sanskrit-lessons13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambandhaSaSThI zabdAnAM-prayogaH
Jump to navigation Jump to search


सम्बन्धषष्ठी

द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति। यत्र सम्बन्धः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।

सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः

शब्दद्वयम् शब्दद्वयस्य साहाय्येन वाक्यानि
शिवः -  कार्तिकेयः  शिवस्य पुत्रः कार्तिकेयः ।
गणेशः - पार्वती गणेशस्य माता पार्वती।
पार्वती -शिवः पार्वत्याः पतिः शिवः ।
गङ्गानदी - वाराणसीनगरम् गङ्गानद्याः तीरे वाराणसीनगरम् ।
पुस्तकम् - रामायणम् पुस्तकस्य नाम रामायणम्।
भारतम् - पन्तप्रधानः मोदी भारतस्य पन्तप्रधानः मोदी ।
गृहम् - नाम अवन्तिली गृहस्य नाम अवन्तिली ।
विष्णुः - लक्ष्मीः विष्णोः भार्या लक्ष्मीः।
रामः - भरतः रामस्य भ्राता भरतः।
अभिमन्युः – अर्जुनः अभिमन्योः पिता अर्जुनः ।


अभ्यासः

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु

१) वीणा  (सुरेशः) ----------------------------- अग्रजा ।

२) गरिमा (मोहितः) ---------------------------- अनुजा ।

३) पवनः (सविता) ----------------------------- अग्रजः ।

४) सुन्दरः (साक्षी) ----------------------------- अनुजः ।

५) देहली  (भारतदेशः) ------------------------- राजधानी ।

६) चेन्नई (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।

७) पटना (बिहार-राज्यम्) -------------------------राजधानी ।

८) धर्मस्थलं (काशी) -----------------------------प्रमुख-स्थानम् ।

९) पूर्णः काश्मीरः (भारतदेशः) ------------------अभिन्नम् अङ्गम् अस्ति ।


अभ्यासः

मैसूरुनगरः प्रसिद्धः अस्ति दक्षिणभारते। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः इत्यादयः च सन्ति। एतानि आधारीकृत्य अधोभागे वाक्यानि लिखितानि सन्ति।

आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु। 

उदाहरणम्


(कावेरीनदी) - कावेरीनद्याः तीरे मैसूरुनगरम् अस्ति।  

१) (नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।  

२) (प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।  

३) (दीपालङ्कारः) ------ दर्शनं कर्तुं बहुजनाः आगच्छन्ति।  

४) (जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।

५) (सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।

६) (उद्यानम्)  जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।  

७) (मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।

८) (शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।  

९) (देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति ।


सम्बन्धषष्ठी शब्दानां प्रयोगः pdf

PAGE 9