13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambandhaSaSThI zabdAnAM-prayogaH: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambandhaSaSThI zabdAnAM-prayogaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 6: Line 6:




=== '''सम्बन्धषष्ठी''' ===
=== '''<big>सम्बन्धषष्ठी</big>''' ===




Line 64: Line 64:
<big>४. (उत्तरा) ----- पतिः अभिमन्युः।</big>
<big>४. (उत्तरा) ----- पतिः अभिमन्युः।</big>


<big>५. (वीणा) ----- ध्वनिः मधुरम्।</big>
<big>५. (वीणा) ----- ध्वनिः मधुरः।</big>


<big>६. (सा) ----- नाम भवानी।</big>
<big>६. (सा) ----- नाम भवानी।</big>

Revision as of 23:33, 5 July 2023

Home


सम्बन्धषष्ठी - शब्दानां प्रयोगः

सम्बन्धषष्ठी

द्वयोः पदार्थयोः मध्ये किदृशः सम्बन्धः भवति इति सम्बन्धषष्ठी सूचयति। यत्र सम्बन्धः कथनीयः भवति तत्र षष्ठीविभक्तिः प्रयुज्यते।


शब्दद्वयम् शब्दद्वयस्य साहाय्येन वाक्यानि
शिवः -  कार्तिकेयः  शिवस्य पुत्रः कार्तिकेयः ।
गणेशः - पार्वती गणेशस्य माता पार्वती।
पार्वती -शिवः पार्वत्याः पतिः शिवः ।
गङ्गानदी - वाराणसीनगरम् गङ्गानद्याः तीरे वाराणसीनगरम् ।
पुस्तकम् - रामायणम् पुस्तकस्य नाम रामायणम्।
भारतम् - पन्तप्रधानः मोदी भारतस्य पन्तप्रधानः मोदी ।
गृहम् - नाम अवन्तिली गृहस्य नाम अवन्तिली ।
विष्णुः - लक्ष्मीः विष्णोः भार्या लक्ष्मीः।
रामः - भरतः रामस्य भ्राता भरतः।
अभिमन्युः – अर्जुनः अभिमन्योः पिता अर्जुनः ।


सम्बन्धषष्ठीम् उपयुज्य शब्दानां प्रयोगः

उदाहरणम् अनुसृत्यः आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्तस्थाने लिखतु ---

१. (कृष्णः) कृष्णस्य  भगिनी सुभद्रा।

२. (गोदावरी) ----- तीरे नाशिकनगरम् अस्ति।

३. (कुन्ती) ------ पुत्रः कर्णः।

४. (उत्तरा) ----- पतिः अभिमन्युः।

५. (वीणा) ----- ध्वनिः मधुरः।

६. (सा) ----- नाम भवानी।

७. ( नदी) ----- जलं शुध्दम्।

८. (शाटिका) ----- वर्णः रक्तः ।

९. ( श्यामः) ----- अग्रजः रामः ।

१०. (वृक्षः) ----- फलानि मधुराणि।

११. (फलम्) ----- नाम आम्रफलम्।

१२. ( पुस्तकम्) ----- नाम स्वाध्यायदीपिका।

१३. (वैद्या) ----- कार्यं रुग्णसेवा।

१४. (भगिनी)----लेखनी।

१५. (अहम्) ----- कार्यं अध्ययनम्।


आवरणे विद्यमानस्य पदस्य उचितं रूपं रिक्ते स्थले लिखतु

उदाहरणम् –  


(यमुनानदी) यमुनानद्याः तीरे मथुरा अस्ति।


१) (मथुरा) -------------------- राजा  उग्रसेनः ।

२) (उग्रसेनः) ----------------------- पुत्रः कंसः ।

३) (कंसः) --------------------- भगिनी देवकी ।

४) (देवकी) ------------- पतिः वसुदेवः, पुत्रः कृष्णः ।

५) कृष्णः  (नन्दगोपः)  ---------------- (यशोदा) --------------च पालितपुत्रः अपि।

६) (कुन्ती) ----------------------  पुत्रः अर्जुनः ।

७) सः अर्जुनः (कृष्णः) ---------------- (भगिनी) ------------ (सुभद्रा) -------------------------------  पतिः।

८) (सुभद्रा) ------------------- पुत्रः अभिमन्युः ।

९) अभिमन्युः  (उत्तरा) --------------------पतिः।

१०) (अयोध्या)  ---------------------  राजा दशरथः ।

११) (दशरथः) ----------------------  चत्वारः पुत्राः ।

१२) (प्रथमः)    -----------------------------   नाम रामः ।

१३) (द्वितीयः)  ---------------------------   नाम भरतः ।

१४) (तृतीयः) ---------- (चतुर्थः) ---------- च नाम लक्ष्मणः शत्रुघ्नः च ।

१५) रामः  (कौसल्या) ----------------------------  पुत्रः ।

१६) भरतः  (कैकेयी) --------------------------     पुत्रः ।।

१७) (लक्ष्मणः) -------------- (श्त्रुघ्नः) --------------- च माता सुमित्रा ।

१८) रामः  (रावणः) -----------(कुम्भकर्णः) ------------ च वधं कृतवान् ।


आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु

१) वीणा  (सुरेशः) ----------------------------- अग्रजा ।

२) गरिमा (मोहितः) ---------------------------- अनुजा ।

३) पवनः (सविता) ----------------------------- अग्रजः ।

४) सुन्दरः (साक्षी) ----------------------------- अनुजः ।

५) देहली  (भारतदेशः) ------------------------- राजधानी ।

६) चेन्नै (तमिलनाडु- राज्यम्) --------------------मुख्यं नगरम् ।

७) पटना (बिहार-राज्यम्) -------------------------राजधानी ।

८) धर्मस्थलं (काशी) -----------------------------प्रमुख-स्थानम् ।

९) पूर्णः काश्मीरः (भारतदेशः) ------------------अभिन्नम् अङ्गम् अस्ति ।


आवरणे विद्यमानस्य पदस्य उचितं षष्ठ्यन्तं रूपं रिक्ते स्थले लिखतु

मैसूरुनगर-प्रवासः  

मैसूरुनगरः प्रसिद्धः अस्ति। प्रतिदिनं बहवः प्रवासिकाः मैसूरुनगरम् आगच्छन्ति। नगरे प्रासादाः, देवालयाः, उद्यानानि, मृगालयः च सन्ति । अत्र किं किम् अस्ति इति विषये अधोभागे वाक्यानि लिखितानि सन्ति। आवरणे दत्तानां पदानां षष्ठीविभक्तिरूप लिखन्तु।

 

उदाहरणम्


(कावेरीनदी) - कावेरीनद्याः तीरे मैसूरुनगरम् अस्ति।  


१) (नगरम्) ------ मध्ये प्रसिद्धः प्रासादः अस्ति।  

२) (प्रासादः) नवरात्रि उत्सवसमये ------ सुन्दरः दीपालङ्कारः भवति ।  

३) (दीपालङ्कारः) ------ दर्शनं कर्तुं बहु जनाः आगच्छन्ति।  

४) (जलबन्धः) नगरस्य समीपे महान् जलबन्धः अस्ति। ------ नाम कृष्णराजसागरः ।

५) (सः) ------ मुख्य-अभियन्ता विश्वेश्वरय्यः ।

६) (उद्यानम्)  जलबन्धस्य पार्श्वे उद्यानम् अस्ति। ------ सस्यानि पुष्पाणि च मनोहराणि सन्ति।  

७) (मृगालयः) नगरे स्थितस्य ------ विविधान् प्राणिनः दृष्ट्वा बालाः हर्षन्ति ।

८) (शैलः) नगरे स्थितस्य ------ उपरि देवालयः अस्ति।  

९) (देवी) तस्मिन् देवालये ------ दर्शनं कृत्वा भक्ताः मुदिताः भवन्ति।