13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/sambhASaNam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 48: Line 48:


<big>अस्तु । पुनः आगच्छतु । नमस्कारः ।</big>
<big>अस्तु । पुनः आगच्छतु । नमस्कारः ।</big>


[[:File:सम्भाषणम् - Samskrita Vyakaranam.pdf|Lesson PDF]]

Revision as of 02:10, 4 June 2023

Home

एतत् सम्भाषणं पठतु –

शिष्टाचारः

हरिः ओम्, सुप्रभातम् ।

नमस्ते महोदय ! सुस्वागतम्, आगच्छतु ।

धन्यवादः । सर्वं कुशलं वा ?

आम्, कुशलम् । भवान् कथम् अस्ति ।

अहम् अपि कुशलम् । अहम् एकं पुस्तकम् इच्छामि । न जानामि कुतः प्राप्नोमि ।

किं पुस्तकम् इच्छति भवान् । कृपया वदतु ।

व्याकरणग्रन्थम् अहं पठितुम् इच्छामि ।

चिन्ता मास्तु । तत् तु मम समीपे अस्ति । स्वीकरोतु ।

बहु धन्यवादाः महोदय ।

उपविशतु । किञ्चित् चायं, स्वल्पाहारं स्वीकरोतु ।

क्षम्यताम्, मास्तु ।  

अहं करोमि । भवान् अपि स्वीकरोतु ।

अस्तु, धन्यवादः ।

स्वल्पाहारः आगच्छति । प्रथमं पानीयं पिबतु ।

(पानीयं पिबति ।)

किञ्चित् अधिकम् आवश्यकं वा ?

न, पर्याप्तम् ।

(स्वल्पाहारः आगच्छति । द्वौ खादतः ।)

चायं कथम् अस्ति । किञ्चित् शर्करा आवश्यकं वा ?

चायं बहु सम्यक् अस्ति । शर्करा पर्याप्तम् । अधुना अहं गच्छामि । नमस्कारः ।

अस्तु । पुनः आगच्छतु । नमस्कारः ।


Lesson PDF