२८. सम्बोधनरूपाणि
सम्बोधनप्रथमा - एकवचन-रूपाणि ध्यानेन पठन्तु
सम्बोधनसमये हे, भोः, अये, अयि, रे इत्यादीनि अव्ययानि अपि कदाचित् प्रयुज्यन्ते । रामः, गौरी, मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि एकवचने प्रथमाविभक्तितः भिन्नानि भवन्ति।
अधः सम्बोधनरूपाणि प्रथमाविभक्तिरूपतः कथं भिन्नानि भवन्ति इति निर्दिष्टम् अस्ति।
ध्यानेन पठतु
प्रथमा विभक्तिः
एकवचनम् |
सम्बोधनरूपम्
एकवचनम् |
प्रथमाविभक्तितः भेदः |
रामः | राम ! | सम्बोधने विसर्गः न दृश्यते । |
हरिः | हरे ! | सम्बोधने विसर्गः न दृश्यते । |
गुरुः | गुरो ! | सम्बोधने उकारस्य स्थाने ओकारः । |
राजा | राजन् ! | सम्बोधने आकारस्य स्थाने अकारः, अनन्तरं नकारः । |
रमा | रमे ! | सम्बोधने आकारस्य स्थाने एकारः । |
सुमतिः | सुमते ! | सम्बोधने इकारस्य स्थाने एकारः । |
गौरी | गौरि | सम्बोधने ईकारस्य ह्रस्वः । |
लक्ष्मीः | लक्ष्मि ! | सम्बोधने ईकारस्य ह्रस्वः, विसर्गः न दृश्यते । । |
धेनुः | धेनो ! | सम्बोधने उकारस्य स्थाने ओकारः, विसर्गः न दृश्यते । । |
पिता | पितः | सम्बोधने ह्रस्वः अकारः, विसर्गः च । |
माता | मातः | सम्बोधने ह्रस्वः अकारः, विसर्गः च । |
अम्बा | अम्ब ! | सम्बोधने आकारस्य स्थाने अकारः । |
मान्या | मान्ये | सम्बोधने आकारस्य स्थाने एकारः । |
कर्ता | कर्तः | सम्बोधने ह्रस्वः अकारः, विसर्गः च । |
मित्रम् | मित्र ! | सम्बोधने मकारस्य लोपः। |
फलम् | फल ! | सम्बोधने मकारस्य लोपः। |
पुस्तकम् | पुस्तक ! | सम्बोधने मकारस्य लोपः। |
सम्बोधनरूपाणाम् अभ्यासः ---
१) उदाहरणानुगुणं सम्बोधनरूपाणि लिखतु ---
प्रथमा ए. व. सम्बोधनप्रथमा ए.व.
उदाः रामः राम !
बालकः -----
पुत्रः -----
कृष्णः -----
भरतः -----
लक्ष्मणः -----
भिक्षुकः -----
गिरीशः -----
भास्करः -----
गजाननः -----
राधा राधे !
सीता -----
रमा -----
माला -----
गीता -----
शीला -----
सुधा - --
बालिका -----
ललिता -----
अध्यापिका -----
भगिनी भगिनि !
गौरी -----
पार्वती -----
सरस्वती -----
सुमती -----
देवी -----
नन्दिनी -----
२) आवरणे दत्तानां शब्दानाम् उचितैः रूपैः रिक्तस्थालानि पूरयतु ।
यथाः
………. ! भवान् कुत्र गच्छति ? (राघवः )
राघव ! भवान् कुत्र गच्छति? |
१. ………. ! आगच्छ । (उषा)
२. ………. ! भवान् सेवकम् आह्वयतु । (कृष्णः)
३. ………. ! पाठं पठ । (पुत्री)
४. ………. ! अत्र आगच्छतु । (भगिनी)
५. ………. ! कोलाहलं मा कुरु । (बालकः)
६. ………. ! श्वः मम गृहम् आगच्छतु । (मित्रम्)
७. ………. ! गृहपाठं लिखतु । (पुत्रः)
८. ………. ! अद्य सायं मम आगमने विलम्बः भवेत् । (अम्बा)
९. ………. ! क्षीरं पिब । (गोपालः )
१०. ………. ! चिन्ता मा करोतु भवती । (नन्दिनी)
११. ………. ! श्लोकं वद । (गीता)
१२. ………. ! उत्तरं वद। (शिष्यः)
१३. ………. ! किमर्थम् अद्य आगमने विलम्बः ? (लक्ष्मीः)
१४. ………. ! जलम् आनय। (सुखदा)।
१५. ………. ! किं खादसि? (गणेशः)
१६. ………. ! अद्य किं मधुरं ददाति? (माता)
१७. ………. ! मा हस । ( मूर्खः)
१८. ………. ! प्रवासार्थं धनं ददातु। (पिता)
१९. ………. ! सङ्कोचं मा अनुभवतु । (सखी)
२०. ………. ! शिघ्रम् उत्तिष्ठ । ( वत्सः)
२१. ………. ! दूरे उपविश्य दूरदर्शनं पश्यतु ।( नलिनी)
२२. ………. ! किञ्चित् सारं परिवेषयतु । (अम्बा)
२३. ………. ! किमर्थं मौनेन स्थितवती? ( राधा)
२४. ………. ! एतत् पाठयतु । (अध्यापकः)
२५. ………. ! किमर्थं रोदिति ? ( मालिनी)
सम्बोधनरूपाणि PPTX without audio
PAGE 28