शीघ्रम् , मन्दं ,शनैः ,उच्चैः

From Samskrita Vyakaranam
Revision as of 13:38, 1 July 2023 by Anjali2023 (talk | contribs)

13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/zIghram-mandam-zanaiH-uccaiH
Jump to navigation Jump to search

शीघ्रम् , मन्दं ,शनैः ,उच्चैः

Home


शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।

शम्बूकः मन्दं गच्छति।
स्येनः शीघ्रं डयते।  
कुक्कुटः उच्चैः रवति।
बालिका शनैः रोदिति।


अभ्यासः

1. चित्रं दृष्ट्वा रिक्तस्थानं  पूरयतु।

ऋषभशकटः
उच्चभाषिणी
अश्वः
शशः
सिंहः
उल्लूकः
कूर्मः
विमानम्


शीघ्रम् , मन्दं ,शनैः ,उच्चैः पठत अवगच्छत च।

१. ऋषभशकटः ----- गच्छति।

२. उच्चभाषिणि ---- शब्दम् करोति।

३. अश्वः  ------  धावति।  

४. .शशः -----धावति।              

५. सिंहः ------- गर्जति।

६. उल्लूकः -----डयते।

७. कुर्मः ------गच्छति।

८. विमानम्‌ ----गच्छति।


2. अधोभागे दत्तान् शब्दान्  प्रयुज्य वाक्यानि  रचयतु।  

पठति खादति धावति
गायति पचति प्रक्षालयति

यथा

बालकः शीघ्रं पठति।

  1. ---- ---- ----।
  2. ---- ---- ----।
  3. ---- ---- ----।
  4. ---- ---- ----।
  5. ---- ---- ----।


3. शीघ्रम्, मन्दम्, उच्चै, शनैः इत्येतेषु उचित-पदेन रिक्त स्थानं पूतरयत।

१.पण्डितः -------- श्लोकान् स्मरति।

२.गुरुः ---------धर्मं बोधयति।

३.रुग्णः -------- भाषयति।

४.बालकः------- उत्तरं प्राप्तवान्।

५. युवकः ----- यानं चालयति।

६.शिशुः------- रोदिति।

७.सस्यानि-------वर्धन्ते।

८. नदी ------- प्रवहति।

९.पाठम् ----- पठतु।

१०. चिन्तयित्वा ------ लिघतु।


4. आवरणे सूचितानां शब्दानां साहाय्येन अधो निर्दिष्टानां प्रश्नानां उत्तरं लिखतु।

(शीघ्रम्,मन्दम्,उच्चैः, नीचैः)

१.यानं कथं गच्छति ?

२. कूर्मः कथं गच्छति ?

३.गजः कथं गच्छति ?

४.विमानं कथम् उड्डयते ?

५.सिंहः कथं गर्जति ?

६.चोरः कथं धावति?

७.मार्जारः कथं गच्छति?

८.छत्राः कथं कोलाहलं करोति?

९. वृद्धा कथं भाषते?

१०.पुष्पं कथं विकसति?

११. बालकः कथं पठति?

१२. मृगाः कथं धावन्ति?

१३. वृद्धः कथं गच्छति ?

१४.  मीनाः कथं तरन्ति ?

१५. कन्दुकं कथं पतति ?


उत्तराणि-

अ.    १.शनैः, २.उच्चैः, ३.शनैः, ४.शीघ्रम् , ५.शीघ्रम्, ६.शनैः, ७.मन्दम्, ८.शीघ्रम्, ९.उच्चैः, १०.शीघ्रम्।

आ. १.शीघ्रम्, २.मन्दम्, ३.मन्दम्, ४.शीघ्रम्, ५.उच्चैः, ६.शीघ्रम्, ७.मन्दम्, ८.उच्चैः, ९. शनैः १०. मन्दम्        

    ११. उच्चैः, १२.शीघ्रम्, १३.मन्दम्, १४.शीघ्रम्, १४.शीघ्रम्।