03A - तत्पुरुषसमासः- सामान्यतत्पुरुषस्य सारांशः

From Samskrita Vyakaranam
Revision as of 15:52, 13 July 2023 by Vidhya (talk | contribs)

14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH
Jump to navigation Jump to search


तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः

 

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६)

परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति  | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् |


सामान्य-तत्पुरुषसमासाः

द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्याय्यां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम्  | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |


सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति |

सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति
१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;

३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;

४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;

५) सप्तमी-तत्पुरुषसमासः,  यथा - कर्मणि कुशलः = कर्मकुशलः ;

६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |

यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते |


a)     द्वितीयातत्पुरुषसमासः

द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् |


१) द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः (२.१.२४)

द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रं— द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः  |

उदाहरणानि
कष्णं श्रितः = कष्णश्रितः( कृष्णस्य आश्रयः स्वीकृतः), कृष्णं श्रितः |

नरकं श्रितः = नरकश्रितः, नरकं श्रितः |

रामम् आश्रितः = रामाश्रितः, रामम् आश्रितः |

दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः  | दुःख + अम् + अतीत + सु इति अलौकिकविग्रहः |

कान्तारम् अतीतः (one who is beyond) =कान्तारातीतः, कान्तारम् अतीतः |

कूपं पतितः = कूपपतितः, कूपं पतितः  | कूप+ अम् + पतित + सु इति अलौकिकविग्रहः |

पतितः नरकम् = नरकपतितः, पतितः नरकम् |

ग्रामं गतः = ग्रामगतः, ग्रामं गतः | ग्राम + अम् + गत + सु इति अलौकिकविग्रहः |

तरङ्गम् अत्यस्त: (crossed the tides) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: |

सुखं प्राप्तः = सुखप्राप्तः, सुखं प्राप्तः | सुख + अम् + प्राप्तः + सु इति अलौकिकविग्रहः |

सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः | सुख + अम् + आपन्न  + सु इति अलौकिकविग्रहः |

दुःखम् आपन्नः = दुःखापन्नः, दुःखम् आपन्नः |

कष्टम् आपन्नः = कष्टापन्नः, कष्टम् आपन्नः |

तुहिनम् ( snow) अत्यस्तः = तुहिनात्यस्तः, तुहिनम् अत्यस्तः |

जीवनं प्राप्तः = जीवनप्राप्तः, जीवनं प्राप्तः |

गर्तं पतितः = गर्तपतितः, गर्तं पतितः |

अस्तं गतः = अस्तगतः, अस्तं गतः |

धनम् आपन्नः = धनापन्नः, धनम् आपन्नः |

कष्टम् आश्रितः = कष्टाश्रितः, कष्टम् आश्रितः |

शरणम् आगतः = शरणागतः, शरणम् आगतः |

कृष्णम् आश्रितः = कृष्णाश्रितः, कृष्णम् आश्रितः |


गम्यादीनाम् उपसङ्ख्यानम्

गम्यादीनाम् उपसङ्ख्यानम् इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षुः इत्येतैः शब्दैः सह समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति -  गमिन्, गामिन् इति |

ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः), ग्रामं गमी  |

वार्तिकस्य उदाहरणानि
ग्रामं गामी = ग्रामगामी, ग्रामं गामी |  ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |

अन्नं बुभुक्षुः ( अन्नं खादितुम् इच्छुकः) =अन्नबुभुक्षुः, अन्नं बुभुक्षुः |

मधु पिपासुः = मधुपिपासुः , मधु पिपासुः |

गुरुं शुश्रुषुः = गुरुशुश्रुषुः, गुरुं शुश्रुषुः |


द्वितीयातत्पुरुषसमासस्य अपवादः

द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —

प्राप्तापन्ने च द्वितीयया (२.२.४)

प्राप्तापन्ने च द्वितीयया (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | एतत् सूत्रं द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |

उदाहरणानि
१) प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति  इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति | परन्तु द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः इति वार्तिकेन परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेष्यपदमनुसृत्य समासस्य लिङ्गं निर्णीयते |


२) आपन्नो जीविकाम् = आपन्नजीविकः, जीविकापन्नः, आपन्नो जीविकाम् | अलौकिकविग्रहः आपन्न +सु + जीविका +अम्  | यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः |


२) स्वयं क्तेन (२.१.२५)

स्वयं क्तेन (२.१.२५) = ‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते  | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीया स्वयम् सुप् क्तेन सुपा सह विभाषा  तत्पुरुषः समासः |

उदाहरणानि
१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः |

२) स्वयं विलीनं ( butter melted by itself) = स्वयंविलीनम् आज्यम् , स्वयं विलीनम् आज्यम् | ३) स्वयं धौतौ पादौ ( feet washed by himself)  = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ  |


३) खट्वा क्षेपे (२.१.२६)

खट्वा क्षेपे (२.१.२६) = खट्वा (cot )  इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स: च समासार्थ: एव, तेन विभाषा अधिकारेऽपि नित्यसमासः एव अयम्  | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | अनुवृत्ति-सहित-सूत्रम्‌— द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्पुरुषः समासः |

उदाहरणानि
१) खट्वारूढो जाल्मः |२) खट्वाप्लुतः (यः कुमार्गं गच्छति)  |
४) सामि (२.१.२७)

सामि (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति  | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | अनुवृत्ति-सहित-सूत्रं— द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) सामि कृतं = सामिकृतम्, सामि कृतम्  |२) सामि पीतं = सामिपीतम्, सामि पीतम् |
५) कालाः (२.१.२८)

कालाः (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | अनुवृत्ति-सहित-सूत्रं— द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा  तत्परुषाः समासाः |

उदाहरणानि
१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः |

२) अहः अतिसृताः मुहूर्ताः = अहरतिसृताः मुहूर्ताः ( The six muhurtas which have gone over to the day and become part of the day during Uttarayana),  अहः अतिसृताः मुहूर्ताः |३) रात्रिम् अतिसृताः मुहूर्ताः  = रात्र्यतिसृताः मुहूर्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति |४) रात्रिम् सङ्क्रान्ताः = रात्रिसङ्क्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) |  रात्रौ ये मुहूर्ताः आगच्छन्ति  |

६) अत्यन्तसंयोगे च (२.१.२९)

अत्यन्तसंयोगे च (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अनुवृत्ति-सहित-सूत्रं— अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) मुहूर्तं सुखं = मुहूर्तसुखम् | मुहूर्तव्यापि सुखमित्यर्थः (pleasure lasting for a muhurta) | द्विक्षणात्मकं सुखम् |२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) |

सर्वा चासौ रात्रिः च = सर्वरात्रः इति कर्मधारयसमासः | अत्र विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणपूर्वपदकर्मधारयसमासः भवति | सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इत्यनेन वार्तिकेन सर्वा इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति | अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अनुवृत्ति-सहितसूत्रम्‌— सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च ,  रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः | यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, अतिरात्रः |रात्राह्नाहाः पुंसि ( २.४.२९) = यदा समासस्य उत्तरपदं रात्र, अहन्, अह च अस्ति, तथा च समासान्तप्रत्ययः कृतः, तदा द्वन्द्वतत्पुरुषसमासः पुंलिङ्गे भवति | अनुवृत्ति-सहितसूत्रम्‌— द्वन्द्वतत्पुरुषाः रात्राह्नाहाः पुंसि | यथा - पूर्वाह्णः, अपराह्णः, मध्याह्नः, द्व्यहः, त्र्यहः | संख्यापूर्वं रात्रं क्लीबम् | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः रात्राह्नाहाः पुंसि ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |

b)    तृतीयातत्पुरुषसमासः

१) तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०)

तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) = तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह विकल्पेन समस्यते, तत्पुरुषसमासश्च भवति |  तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते  | प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्पुरुषः समासः |


तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –

१)     तृतीयान्तं पदं तत्कृतेन गुणवचनेन सह समस्यते |

२)     तृतीयान्तं पदं तत्कृतेन अर्थेन सह समस्यते  |

उदाहरणानि
१)      तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति |

गुणवचनः =  गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः, क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |१) शङ्कुलया (knife) खण्डः ( cut) = शङ्कुलाखण्डः देवदत्तः, शङ्कुलया खण्डः  |२) किरिणा काणः = किरिकाणः (blinded by a boar), किरिणा काणः | काणत्वम् इत्युक्ते अन्धत्वम् | अन्धत्वम् इति एकः गुणः यस्मिन् पुरुषे वर्तते | काणः = अन्धः, गुणवचनः | काणः नाम काणत्वविशिष्टः पुरुषः इत्यर्थः | काणत्वे कारणं किरिः (वराहः) |३) पङ्केन ( Slush) कलुषः (  dirty) = पङ्ककलुषः, पङ्केन कलुषः |

४) कुसुमेन ( पुष्पं)  सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते |

५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः |

६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) |

७) शलाका काणः = शलाकाकाणः, शलाका काणः |

८) विद्यया मान्यः = विद्यामान्यः, विद्यया मान्यः |

९) मदेन अन्धः = मदान्धः, मदेन अन्धः |

१०) चन्दनेन सुरभिः = चन्दनसुरभिः, चन्दनेन सुरभिः |

११) वातेन शूरः = वातशूरः, वातेन शूरः |

१२) व्रणेन काणः = व्रणकाणः, व्रणेन काणः |

१३) सुधया धवलः = सुधाधवलः, सुधया धवलः |

१४) भस्मना सितः = भस्मसितः, भस्मना सितः | २)     तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते  |१) धान्येन अर्थः = धान्यार्थः | धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः | अत्र तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इत्यनेन समासः भवति | २) विद्यया अर्थः = विद्यार्थः;

३) पुण्येन अर्थः = पुण्यार्थः

४) हिरण्येन अर्थः = हिरण्यार्थः

५) फलेन अर्थः = फलार्थः

६) गृहेण अर्थः =  गृहार्थः

७) धनेन अर्थः = धनार्थः

८) चौर्येण अर्थः = चौर्यार्थः

२) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१)

पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१) = तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह  विभाषा  तत्पुरुषः समासः |

उदाहरणानि
पूर्व →  १) मासेन पूर्वः = मासपूर्वः, मासेन पूर्वः, मासात् पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः |

२) संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः, संवत्सरात् पूर्वः |सदृश १) मात्रा सदृशः = मातृसदृशः, मात्रा सदृशः पुत्रः | २) पित्रा सदृशी = पितृसदृशी, पित्रा सदृशी पुत्री | ३) आकारेण सदृशः = आकारसदृशः आकारेण सदृशः |


सम

१) मात्रा समः = मातृसमः, मात्रा समः पुत्रः |

२) द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः |


ऊनार्थ ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम्  |


१) माषेण ऊनम् = माषोनं तोलकं, माषेण ऊनं तोलकम् | एकः माषः न्यूनः ( less by a particular measure) इत्यर्थः |

२) पादेन ऊनः = पादोनः, पादेन ऊनः |

३) माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम्   | विकलम् इति शब्दः ऊनार्थे अस्ति |


कलह

१) वाचा कलहः = वाक्कलहः, वाचा कलहः | चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |


निपुण

१)वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः |

२) आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |


मिश्र→

१) गुडेन मिश्रः = गुडमिश्रः |

२) तिलेन मिश्रः = तिलमिश्रः |


श्लक्ष्ण →

१) आचारेण श्लक्ष्णः ( gentle, sincere)  = आचारश्लक्ष्णः, आचारेण श्लक्ष्णः |

२) कुट्टेन श्लक्षणम् = कुट्टश्लक्षणम् , कुट्टेन श्लक्षणम् | मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात् इति वार्तिकम् | अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति | अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति | अस्य प्रमाणं स्वरप्रक्रियायाम् इदं सूत्रं मिश्रं चानुपसर्गमसंधौ (६.२.१५४) इति |

गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः |प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह अन्यसमानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते |


पूर्वादिष्ववरस्योपसङ्ख्यानम् इति वार्तिकम् अस्ति | वार्तिकार्थः  – तृतीयान्तं समर्थं सुबन्तम् अवरः (कनिष्ठः, अश्रेष्ठः,  junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः | 

३) कर्तृकरणे कृता बहुलम्‌ (२.१.३२)

कर्तृकरणे कृता बहुलम्‌ (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | अनुवृत्ति-सहित-सूत्रं— कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं  तत्पुरुषः समासः |

भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं क्त-प्रत्ययस्यैव ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |

बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति | प्रकृतसूत्रे बहुलग्रहणात् क्तवतु, शतृ, शानच्, इत्यादीनां कृदन्तानां योगे तु समासः न भवति |

उदाहरणानि
१) कर्त्रर्थे तृतीया१) रामेण हतः = रामहतः रावणः | कर्तरि तृतीयायाः कृदन्तेन सह समासः  | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | कर्तृकरणे कृता बहुलम्‌ (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः रावणः अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् रावणः इत्यर्थः |

२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः गजेन्द्रः | त्राणक्रियायां हरिः कर्ता |

३) अहिना हतः = अहिहतः ( killed by a snake) परीक्षित्, अहिना हतः |

४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo) पिकी, अन्यैः पुष्टा पिकी |

५) परेण भृतः= परभृतः शावकः , परेण भृतः शावकः |

६) प्रज्ञया हीनः = प्रज्ञाहीनः, प्रज्ञया हीनः |

७) परैः भृतः (carried, nourish) = परभृतः शावकः , परैः भृतः शावकः |

८) विद्यया रहितः = विद्यारहितः, विद्यया रहितः |

९) बलिभिः (strength) पुष्टः = बलिपुष्टः, बलिभिः  पुष्टः |

१०) देवेन त्रातः = देवत्रातः, देवेन त्रातः |

११) देवेन खातः (ditch) = देवखातः, देवेन खातः |

१२) चौरैः हृतः (taken)  = चौरहृतः, चौरैः हृतः |

१३) गोतमेन विरचितम् = गोतमविरचितम् |

१४ ) शिवेन त्रातः = शिवत्रातः, शिवेन त्रातः |

१५) शिवया त्रातः = शिवात्रातः, शिवया त्रातः |

करणार्थे तृतीया

१) बाणेन हतः = बाणहतः, बाणेन हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः |

२) नखैः भिन्नः = नखभिन्नः, नखैः भिन्नः | भेदनक्रियायां नखाः करणम् |

३) परशुना छिन्नः = परशुछिन्नः, परशुना छिन्नः |

४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife), दात्रेण लूनः |

५) नखैः निर्भेदः = नखनिर्भेदः, नखैः निर्भेदः  | अत्र भिद् इति धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते | अत्र एका परिभाषा वर्तते – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्  | नखैर्निभिन्नः = नखनिर्भिन्नः, नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | गतिश्च ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः  | गतिपूर्वकस्य उदाहरणम् – नखैः निर्भिन्नः इति विग्रहे सति नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः सिद्ध्यति |

कारकपूर्वस्य कृदन्तस्य उदाहरणम् – अवतप्ते नकुलस्थितम् इति | स्थितमिति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति नकुलस्थितम् इति समासः | अस्मिन् विषये अग्रे क्षेपे (२.१.४७) इति सप्तमीतत्पुरुषसमाससूत्रस्य प्रसङ्गे द्रक्ष्यामः |

४) कृत्यैरधिकार्थवचने (२.१.३३)

कृत्यैरधिकार्थवचने (२.१.३३) = कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः | तव्यत्तव्यानीयरः (३.१.९६) इत्यस्मात् सूत्रात् आरभ्य ण्वुल्तृचौ ( ३.१.१३३)  इति सूत्रपर्यन्तं  ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति | अर्थात् तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति | अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये; किमपि आरोपितम्, अधिकं वदनम्, अधिकार्थवचनम् इत्युच्यते | स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनम् अधिकार्थवचनम् |  पूर्वसूत्रेण अयं समासः प्राप्यते चेद् अपि पाणिनिना पृथक् सूत्रं कृतं यतोहि नियमार्थम् इदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्‌— कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः |

उदाहरणानि
१) वातेन छेद्यं तृणम् = वातच्छेद्यं तृणं, वातेन छेद्यं तृणम् |२) काकैः पेया नदी = काकपेया नदी, काकैः पेया नदी |३) श्वभिर्लेह्यः कूपः = श्वलेह्यः कूपः, श्वभिर्लेह्यः कूपः |४) नखैर्छेद्यम् = नखच्छेद्यम् , नखैर्छेद्यम् |काशिकारस्य मतेन कृत्य-प्रत्ययेन केवलं यत्, ण्यत् इति प्रत्ययोः एव ग्रहणं न तु तव्यदादीनाम् | कृत्यग्रहणे यत्‌-ण्यतोः ग्रहणं कर्तव्यम् | अतः काकैः पातव्या इत्यादिषु समासः न भवति |

५) अन्नेन व्यञ्जनम् (२.१.३४)

अन्नेन व्यञ्जनम् (२.१.३४) = व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति | अन्नं स्वादुं कर्तुम् उपयोगिनः व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | व्यञ्जनं संस्कारकः, अन्नं सस्कार्यं भवति | अनयोः मध्ये उपसेचनक्रिया (शाकसूपादिः) भवति येन संस्कार्यसंस्कारकभावः उत्पद्यते | अतः सामर्थ्योत्पादनयोग्यतावशात् समासवृत्तौ अन्तर्भूता उपसेचनक्रिया आक्षिप्यते | स्वादिष्टान्नस्य करणार्थं संस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति | संस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः | अनुवृत्ति-सहित-सूत्रम्‌—तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह  विभाषा तत्पुरुषः समासः |


उदाहरणानि
१) दध्ना ओदनः = दध्योदनः, दध्ना ओदनः |२) क्षीरेण ओदनः = क्षीरौदनः, क्षीरेण ओदनः | क्षीरोदनः इति वैदिकप्रयोगः दृश्यते | लोके तु क्षीरौदनः इति रूपं सम्यगस्ति |

३) तक्रेण ओदनम् = तक्रौदनम्, तक्रेण ओदनम् |

४) दध्ना अन्नम् = दध्यन्नम् , दध्ना अन्नम् |

५) सूपेन ओदनः = सूपौदनः, सूपेन ओदनः |

६) क्वथितेन ओदनः = क्वथितौदनः, क्वथितेन ओदनः |

७) पयसा ओदनः = पयओदनः/पययोदनः, पयसा ओदनः |


६) भक्ष्येण मिश्रीकरणम् ( २.१. ३५)

भक्ष्येण मिश्रीकरणम् ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्यं नाम तादृशपदार्थः यः कठोरः, अवयवयुक्तः भवति, यस्य खादनार्थं हनोः प्रयोगः भवति | यत् वस्तु अन्यपदार्थेन सह मिलित्वा तस्य संस्कारकं भवति, तत् वस्तु एव मिश्रीकरणम् इत्युच्यते | अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणम् | मिश्र्यते खाद्यं द्रव्यम् अनेन इति मिश्रीकरणम् | भक्ष्- धातुतः ण्यत्प्रत्ययं योजयित्वा निष्पन्नः शब्दः भक्ष्यम् इति | अनुवृत्ति-सहित-सूत्रम्‌—तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह  विभाषा तत्पुरुषः समासः |

उदाहरणानि
१) गुडेन (मिश्रिताः) धानाः = गुडधानाः |२) गुडेन पृथुकाः ( beaten rice) = गुडपृथुकाः |


c) चतुर्थीतत्पुरुषसमासः

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६)

चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) = चतुर्थ्यन्तं सुबन्तं तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | तदर्थः = चतुर्थ्यन्तं पदं, चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति ( तदर्थः), तद्वाचकपदेन सह समस्यते | तस्मै इदं तदर्थम् | तदर्थः इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तपदम् अस्ति तस्य एव सङ्केतं करोति | अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थः | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | अर्थात् तदर्थेन केवलं यत्र प्रकृति-विकृतिभावः भवति तत्र एव चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं( आभरणं) कर्तुमेव हिरण्यम् ( सुवर्णम्) अस्ति | हिरण्यं प्रकृतिः, कुण्डलं तस्य विकृतिः, अतः कुण्डलहिरण्यम् इति समासः | अर्थ-बलि-हित-सुख-रक्षित = एवञ्च चतुर्थ्यन्तं पदम् अर्थ-बलि-हित- सुख-रक्षित च इत्येतैः शब्दैः सह  विकल्पेन समस्यते | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा  तत्पुरुषः समासः |


तदर्थः = अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः | तस्मै इदं तदर्थम् | अर्थात् चतुर्थ्यन्तार्थं यत् वस्तु अस्ति तत् तदर्थं भवति | पूर्वपदे चतुर्थीविभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति | चतुर्थ्यन्तपदं, तादृशचतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तद्बोधकेन शब्देन सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति | पूर्वपदं चतुर्थ्यन्तं पदम्, उत्तरपदम् चतुर्थ्यन्तार्थं यत् पदम् अस्ति, तद्बोधकं पदम् | तात्पर्यमेवं यत् पूर्वपदं विकृतिः स्यात्, उत्तरपदं प्रकृतिः स्यात् |

तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते, बलिरक्षितग्रहणात् ज्ञापकात् |


चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रे तदर्थः इति शब्देन प्रत्येकं तदर्थस्य ग्रहणम् अभीष्टं नास्ति, अपि तु प्रकृतिविकृतिभावरूपस्य तदर्थस्य एव ग्रहणम् इष्टम् |

उदाहरणानि
१) यूपाय दारु = यूपदारु |तादर्थे चतुर्थी वाच्या इति वार्तिकं चतुर्थी सम्प्रदाने (२.३.१३) इति सूत्रभाष्ये पठितम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये | वार्तिकार्थः अस्ति – तादर्थे चतुर्थीविभक्तिः भवति | अर्थात् तस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थीविभक्तिः भवति | यत् वस्तु प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | वार्तिकेन उपकार्योपकारकभावसंबन्धो विवक्षितः | उपकार्यत्वं च बहुविधं जन्यत्वादि |

यथा मुक्तये हरिं भजति इति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं क्रियते | मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम्  |


२) कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्) |

मूलं सुवर्णं, तस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि चतुर्थीतत्पुरुषसमासः भवति |

३) गृहाय दारु = गृहदारु, गृहाय दारु |

४) कुम्भाय मृत्तिका = कुम्भमृत्तिका, कुम्भाय मृत्तिका |

५) नवनीताय दधि = नवनीतदधि, नवनिताय दधि |

६) दध्ने दुग्धम् = दधिदुग्धम् ,दध्ने दुग्धम् |


अर्थः

प्रकृतसूत्रे अर्थः इत्युक्ते प्रयोजनम् इति अर्थः | द्विजाय अयं = द्विजार्थः (सूपः) |वार्तिकम् = अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् इति वार्तिकेन अर्थ-शब्देन सह नित्यसमासः, विशेष्यलिङ्गविधानं च क्रियते | अर्थ-शब्देन सह समासः नित्यः भवति न तु विकल्पेन अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यम् अनुसृत्य भवति | अर्थः इति शब्दस्य प्रयोजनम् इत्यर्थः स्वीक्रियते | चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् | नित्यसमासः भवति यतोहि अस्वपदविग्रहः भवति |द्विजार्थः सूपः |द्विजाय इयं यवागूः = द्विजार्था यवागूः |

द्विजाय इदं पयः = द्विजार्थं पयः |

तस्मै इदं पुस्तकम् = तदर्थं पुस्तकम् |

शिशवे इदं पयः = शिश्वर्थं पयः |


भोजनार्थं गच्छामि इति वाक्ये भोजनार्थम् इति पदं क्रियाविशेषणम् अस्ति | भोजनाय इदं = भोजनार्थम् इति चतुर्थीतत्पुरुषसमासः अस्ति परन्तु तस्य लिङ्गं नपुंसकलिङ्गे अस्ति यतोहि क्रियाविशेषणम् अस्ति | क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गञ्च वक्तव्यम् इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीयाविभक्तौ एकवचने भवति |

बलिः

भूतेभ्यः बलिः = भूतबलिः, भूतेभ्यः बलिः | भूत + भ्यस् + बलि + सु |

पशुभ्यः बलिः = पशुबलिः, पशुभ्यः बलिः |

हितः

हितशब्दस्य योगे तु तादर्थे चतुर्थी वाच्या इति वार्तिकेन चतुर्थी न भवति अपि हितयोगे च इति वार्तिकेन चतुर्थीविभक्तिः भवति | हितयोगे च इति वार्तिकस्य ज्ञापकं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रमेव |

गोभ्यः हितम् = गोहितम्  | गो + भ्यस् + हित + सु  |

प्रजाभ्यः हितम् = प्रजाहितम् |

अश्वेभ्यः हितम् = अश्वहितम् |

सुखम्

गोभ्यः सुखं =गोसुखम् |

रक्षितः

गोभ्यः रक्षितं = गोरक्षितम् |

अश्वेभ्यः रक्षितम् = अश्वरक्षितम् |