03A - तत्पुरुषसमासः- सामान्यतत्पुरुषस्य सारांशः
२०२३ ध्वनिमुद्रणानि |
---|
१) tatpuruShasamAsaH- punassmaraNam _ 2023-07-22 |
तत्पुरुषसमासः - सामान्यतत्पुरुषस्य सारांशः
तत्पुरुषसमासः
समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति | तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्याय्यां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि तत्पुरुषः (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति |
तत्पुरुषः (२.१.२२)
तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | सूत्रं स्वयं सम्पूर्णम् |
तत्पुरुषसमासस्य प्रभेदाः
तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— १) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६)
परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) = द्वन्द्वस्य तत्पुरुषस्य च परस्य यत् लिङ्गं तत् भवति | अनुवृत्ति-सहित-सूत्रं— द्वन्द्वतत्पुरुषयोः परवत् लिङ्गम् |
सामान्य-तत्पुरुषसमासाः
सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तीनां प्रयोगः भवति | द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्याय्यां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम् | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |
सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –
१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;
२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;
३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;
४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;
५) सप्तमी-तत्पुरुषसमासः, यथा - कर्मणि कुशलः = कर्मकुशलः ;
६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |
यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्याय्यां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते, सः एव व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते |
a) द्वितीयातत्पुरुषसमासः
द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् |
१) द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः (२.१.२४)
द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह विकल्पेन समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितादिषु गत्यर्थत्वात्कर्तरि क्तप्रत्ययः भवति | अनुवृत्ति-सहित-सूत्रं— द्वितीया सुप् श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
कष्णं श्रितः = कष्णश्रितः( कृष्णस्य आश्रयः स्वीकृतः), कृष्णं श्रितः |
नरकं श्रितः = नरकश्रितः, नरकं श्रितः | रामम् आश्रितः = रामाश्रितः, रामम् आश्रितः | दुःखम् अतीतः = दुःखातीतः, दुखम् अतीतः | दुःख + अम् + अतीत + सु इति अलौकिकविग्रहः | कान्तारम् अतीतः (one who is beyond) =कान्तारातीतः, कान्तारम् अतीतः | कूपं पतितः = कूपपतितः, कूपं पतितः | कूप+ अम् + पतित + सु इति अलौकिकविग्रहः | पतितः नरकम् = नरकपतितः, पतितः नरकम् | ग्रामं गतः = ग्रामगतः, ग्रामं गतः | ग्राम + अम् + गत + सु इति अलौकिकविग्रहः | तरङ्गम् अत्यस्त: (crossed the tides) = तरङ्गात्यस्तः, तरङ्गम् अत्यस्त: | सुखं प्राप्तः = सुखप्राप्तः, सुखं प्राप्तः | सुख + अम् + प्राप्तः + सु इति अलौकिकविग्रहः | सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः, सुखम् आपन्नः | सुख + अम् + आपन्न + सु इति अलौकिकविग्रहः | दुःखम् आपन्नः = दुःखापन्नः, दुःखम् आपन्नः | कष्टम् आपन्नः = कष्टापन्नः, कष्टम् आपन्नः | तुहिनम् ( snow) अत्यस्तः = तुहिनात्यस्तः, तुहिनम् अत्यस्तः | जीवनं प्राप्तः = जीवनप्राप्तः, जीवनं प्राप्तः | गर्तं पतितः = गर्तपतितः, गर्तं पतितः | अस्तं गतः = अस्तगतः, अस्तं गतः | धनम् आपन्नः = धनापन्नः, धनम् आपन्नः | कष्टम् आश्रितः = कष्टाश्रितः, कष्टम् आश्रितः | शरणम् आगतः = शरणागतः, शरणम् आगतः | कृष्णम् आश्रितः = कृष्णाश्रितः, कृष्णम् आश्रितः | |
गम्यादीनाम् उपसङ्ख्यानम्
गम्यादीनाम् उपसङ्ख्यानम् इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षुः इत्येतैः शब्दैः सह समस्यते | गमी, गामी इत्यनयोः पदयोः प्रातिपदिकं नकारान्तम् अस्ति - गमिन्, गामिन् इति |
ग्रामं गमी = ग्रामगमी ( यः ग्रामः गम्यमानः), ग्रामं गमी |
वार्तिकस्य उदाहरणानि |
---|
ग्रामं गामी = ग्रामगामी, ग्रामं गामी | ग्रामगामी, ग्रामगामिनौ, ग्रामगामिनः इति रूपाणि प्रथमाविभक्तौ |
अन्नं बुभुक्षुः ( अन्नं खादितुम् इच्छुकः) =अन्नबुभुक्षुः, अन्नं बुभुक्षुः | मधु पिपासुः = मधुपिपासुः , मधु पिपासुः | गुरुं शुश्रुषुः = गुरुशुश्रुषुः, गुरुं शुश्रुषुः | |
द्वितीयातत्पुरुषसमासस्य अपवादः
द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः इदं सूत्रम् —
प्राप्तापन्ने च द्वितीयया (२.२.४)
प्राप्तापन्ने च द्वितीयया (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | एतत् सूत्रं द्वितीया श्रितातीतपतितगतात्यस्त्प्राप्तापन्नैः (२.१.२४) इति सूत्रस्य अपवादः अस्ति | अनुवृत्ति-सहित-सूत्रम्— प्राप्तापन्ने सुपौ द्वितीयया सुपा सह विभाषा तत्पुरुषः समासः, अन्यतरस्याम् |
उदाहरणानि |
---|
१) प्राप्तः जीविकां = प्राप्तजीविकः, जीविकाप्राप्तः, प्राप्तः जीविकाम् | परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति | परन्तु द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः इति वार्तिकेन परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (२.४.२६) इति सूत्रस्य निषेधः क्रियते इति कारणेन विशेष्यपदमनुसृत्य समासस्य लिङ्गं निर्णीयते |
|
२) स्वयं क्तेन (२.१.२५)
स्वयं क्तेन (२.१.२५) = ‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | स्वयम् आत्मना इत्यस्मिन् अर्थे वर्तते | अनुवृत्ति-सहित-सूत्रम्— द्वितीया स्वयम् सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) स्वयं कृतः = स्वयङ्कृतः, स्वयं कृतः |
२) स्वयं विलीनं ( butter melted by itself) = स्वयंविलीनम् आज्यम् , स्वयं विलीनम् आज्यम् | ३) स्वयं धौतौ पादौ ( feet washed by himself) = स्वयंधौतौ पादौ, स्वयं धौतौ पादौ | |
३) खट्वा क्षेपे (२.१.२६)
खट्वा क्षेपे (२.१.२६) = खट्वा (cot ) इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स: च समासार्थ: एव, तेन विभाषा अधिकारेऽपि नित्यसमासः एव अयम् | अयं समासः नित्यसमासः यतोहि वाक्येन निन्दा न अवगम्यते | अनुवृत्ति-सहित-सूत्रम्— द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्पुरुषः समासः |
उदाहरणानि |
---|
१) खट्वारूढो जाल्मः | २) खट्वाप्लुतः (यः कुमार्गं गच्छति) | |
४) सामि (२.१.२७)
सामि (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति | सामि इत्यव्ययमेकपदमिदं सूत्रम् | सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति | अनुवृत्ति-सहित-सूत्रं— द्वितीया सामि सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) सामि कृतं = सामिकृतम्, सामि कृतम् |
२) सामि पीतं = सामिपीतम्, सामि पीतम् | |
५) कालाः (२.१.२८)
कालाः (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह विकल्पेन समस्यन्ते , तत्पुरुषश्च समासो भवति | कालाः इति बहुवचननिर्देशः स्वरूपनिरासार्थः | अनुवृत्ति-सहित-सूत्रं— द्वितीयाः कालाः सुपः क्तेन सुपा सह विभाषा तत्परुषाः समासाः |
उदाहरणानि |
---|
१) मासं प्रमितः ( measured) = मासप्रमितः प्रतिपच्चन्द्रः, मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः |
४) रात्रिम् सङ्क्रान्ताः = रात्रिसङ्क्रान्ताः ( the muhurtas which have gone over to the night during Dakshinayana) | रात्रौ ये मुहूर्ताः आगच्छन्ति | |
६) अत्यन्तसंयोगे च (२.१.२९)
अत्यन्तसंयोगे च (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति | कालाः इत्येव | अक्तान्तार्थं वचनम् | अर्थात् उत्तरपदं सुबन्तं स्यात् परन्तु क्तप्रत्ययान्तं विहाय | अनुवृत्ति-सहित-सूत्रं— अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) मुहूर्तं सुखं = मुहूर्तसुखम् | मुहूर्तव्यापि सुखमित्यर्थः (pleasure lasting for a muhurta) | द्विक्षणात्मकं सुखम् |
२) सर्वरात्रं कल्याणी = सर्वरात्रकल्याणी (blissful for the whole night) | सर्वा चासौ रात्रिः च = सर्वरात्रः इति कर्मधारयसमासः | अत्र विशेषणं विशेष्येण बहुलम् ( २.१.५७) इति सूत्रेण विशेषणपूर्वपदकर्मधारयसमासः भवति | सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इत्यनेन वार्तिकेन सर्वा इत्यस्य पुंवद्भावः भूत्वा सर्वरात्रि इति भवति | अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः ( ५.४.८७) = तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' ( counted) तथा 'पुण्य' इत्येतेषु कश्चन शब्दः, एकदेशवाचकः शब्दः ( यत्र अवयव-अवयविभावः अस्ति) , संख्यावाचकः शब्दः ( एकं, द्वे, त्रीणि इत्यादीनि) , अथवा अव्ययवाचकः शब्दः ( यथा अति, अपि, इत्यादीनि) अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | अनुवृत्ति-सहितसूत्रम्— सङ्ख्याऽव्ययादेः अहः सर्वैकदेशसंख्यातपुण्यात् च , रात्रेः तत्पुरुषस्य प्रादिपदिकात् अच् प्रत्ययः परश्च समासान्तः तद्धितः | यथा - अहोरात्रः, सर्वरात्रः, सङ्ख्यातरात्रः, पुण्यरात्रः, पूर्वरात्रः, अतिरात्रः |
संख्यापूर्वं रात्रं क्लीबम् | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः रात्राह्नाहाः पुंसि ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् | |
b) तृतीयातत्पुरुषसमासः
१) तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०)
तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) = तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन च सह विकल्पेन समस्यते, तत्पुरुषसमासश्च भवति | तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाचिना प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन च सह समस्यते | प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्पुरुषः समासः |
तृतीया तत्कृतार्थेन गुणवचनेन (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् | अस्य सूत्रस्य अर्थद्वयं वर्तते –
१) तृतीयान्तं पदं तत्कृतेन गुणवचनेन सह समस्यते |
२) तृतीयान्तं पदं तत्कृतेन अर्थेन सह समस्यते |
उदाहरणानि |
---|
१) तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति |
गुणवचनः = गुणः, क्रिया च सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति | सुन्दरः पुरुषः इति वदामः चेत् सौदर्यम् इति गुणः पुरुषम् आश्रित्य एव तिष्ठति | एवं चालकः पुरुषः इति वदामः चेत् चलनक्रिया तु पुरुषम् आश्रित्य एव भवति | अतः गुणः, क्रिया च सर्वदैव द्रव्यम् आधाररूपेण स्वीकरोति | गुणः यस्मिन् द्रव्ये अस्ति तद्बोधकः शब्दः गुणवचनः अथवा गुणवाचकः इति उच्यते | गुणम् उक्तवान् गुणवचनः |
४) कुसुमेन ( पुष्पं) सुरभिः (सुगन्धः) = कुसुमसुरभिः, कुसुमेन सुरभिः | सुरभिगन्धः कुसुमेन उत्पद्यते | ५) बाणेन वेधः (wounded) = बाणवेधः, बाणेन वेधः | ६) निःश्वासेन अन्धः आदर्शः = निःश्वासान्धः, निःश्वासेन अन्धः आदर्शः ( दर्पणम्) | ७) शलाका काणः = शलाकाकाणः, शलाका काणः | ८) विद्यया मान्यः = विद्यामान्यः, विद्यया मान्यः | ९) मदेन अन्धः = मदान्धः, मदेन अन्धः | १०) चन्दनेन सुरभिः = चन्दनसुरभिः, चन्दनेन सुरभिः | ११) वातेन शूरः = वातशूरः, वातेन शूरः | १२) व्रणेन काणः = व्रणकाणः, व्रणेन काणः | १३) सुधया धवलः = सुधाधवलः, सुधया धवलः | १४) भस्मना सितः = भस्मसितः, भस्मना सितः |
२) तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते |
२) विद्यया अर्थः = विद्यार्थः; ३) पुण्येन अर्थः = पुण्यार्थः ४) हिरण्येन अर्थः = हिरण्यार्थः ५) फलेन अर्थः = फलार्थः ६) गृहेण अर्थः = गृहार्थः ७) धनेन अर्थः = धनार्थः ८) चौर्येण अर्थः = चौर्यार्थः |
२) पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१)
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (२.१.३१) = तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समसो भवति | अनुवृत्ति-सहित-सूत्रं— तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
पूर्व → १) मासेन पूर्वः = मासपूर्वः, मासेन पूर्वः, मासात् पूर्वः | देवदत्तः यज्ञदत्तात् मासपूर्वः |
२) संवत्सरेण पूर्वः = संवत्सरपूर्वः, संवत्सरेण पूर्वः, संवत्सरात् पूर्वः |
१) मात्रा = मातृसदृशः, मात्रा सदृशः पुत्रः |
३) आकारेण सदृशः = आकारसदृशः आकारेण सदृशः | सम → १) मात्रा समः = मातृसमः, मात्रा समः पुत्रः | २) द्रोणेन समः अर्जुनः = द्रोणसमः, द्रोणेन समः | ऊनार्थ → ऊनम् इति शब्दस्य न्यूनम् इति अर्थः | न्यूनम् इत्यस्मिन् अर्थे यानि पदानि सन्ति, तेषां सर्वेषां ग्रहणम् |
२) पादेन ऊनः = पादोनः, पादेन ऊनः | ३) माषेण विकलम् = माषविकलं तोलकं, माषेण विकलं तोलकम् | विकलम् इति शब्दः ऊनार्थे अस्ति | कलह → १) वाचा कलहः = वाक्कलहः, वाचा कलहः | चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च |
निपुण → १)वाचा निपुणः= वाङ्निपुणः, वाचा निपुणः | २) आचारेण निपुणः = आचारनिपुणः, आचारेण निपुणः |
मिश्र→ १) गुडेन मिश्रः = गुडमिश्रः | २) तिलेन मिश्रः = तिलमिश्रः |
श्लक्ष्ण → १) आचारेण श्लक्ष्णः ( gentle, sincere) = आचारश्लक्ष्णः, आचारेण श्लक्ष्णः | २) कुट्टेन श्लक्षणम् = कुट्टश्लक्षणम् , कुट्टेन श्लक्षणम् |
गुडेन सम्मिश्रः = गुडसम्मिश्रः, गुडेन सम्मिश्रः |प्रकृतसूत्रे ऊनम् इति शब्दः उक्तः, तेन सह अन्यसमानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते | परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे | अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति, केवलम् ऊनम् इति शब्दस्य समानार्थकानां ग्रहणं क्रियते | पूर्वादिष्ववरस्योपसङ्ख्यानम् इति वार्तिकम् अस्ति | वार्तिकार्थः – तृतीयान्तं समर्थं सुबन्तम् अवरः (कनिष्ठः, अश्रेष्ठः, junior) इति सुबन्तेन सह समस्यते | वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् | अतः अनेन वार्तिकेन मासेन अवरः = मासावरः (less by a month), मासेन अवरः इति तृतीयातत्पुरुषसमासः भवति | संवत्सरेण अवरः = संवत्सरावरः ( less by a year), संवत्सरेण अवरः | |
३) कर्तृकरणे कृता बहुलम् (२.१.३२)
कर्तृकरणे कृता बहुलम् (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति | कर्तरि या तृतीयाविभक्तिः, करणे वा या तृतीयाविभक्ति सा कृदन्तेन बहुलं समस्यते | अनुवृत्ति-सहित-सूत्रं— कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं तत्पुरुषः समासः |
भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेण सूत्रे कृत् इति शब्देन केवलं क्त-प्रत्ययस्यैव ग्रहणं भवति | अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते |
बहुलग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः न भवति | प्रकृतसूत्रे बहुलग्रहणात् क्तवतु, शतृ, शानच्, इत्यादीनां कृदन्तानां योगे तु समासः न भवति |
उदाहरणानि |
---|
१) कर्त्रर्थे तृतीया१) रामेण हतः = रामहतः रावणः | कर्तरि तृतीयायाः कृदन्तेन सह समासः | राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् | कर्तृकरणे कृता बहुलम् (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः | रामहतः रावणः अस्ति | रामहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः रामहतः कः इति चेत् रावणः इत्यर्थः |
२) हरिणा त्रातः = हरित्रातः, हरिणा त्रातः गजेन्द्रः | त्राणक्रियायां हरिः कर्ता | ३) अहिना हतः = अहिहतः ( killed by a snake) परीक्षित्, अहिना हतः | ४) अन्यैः पुष्टा = अन्यपुष्टा (female cuckoo) पिकी, अन्यैः पुष्टा पिकी | ५) परेण भृतः= परभृतः शावकः , परेण भृतः शावकः | ६) प्रज्ञया हीनः = प्रज्ञाहीनः, प्रज्ञया हीनः | ७) परैः भृतः (carried, nourish) = परभृतः शावकः , परैः भृतः शावकः | ८) विद्यया रहितः = विद्यारहितः, विद्यया रहितः | ९) बलिभिः (strength) पुष्टः = बलिपुष्टः, बलिभिः पुष्टः | १०) देवेन त्रातः = देवत्रातः, देवेन त्रातः | ११) देवेन खातः (ditch) = देवखातः, देवेन खातः | १२) चौरैः हृतः (taken) = चौरहृतः, चौरैः हृतः | १३) गोतमेन विरचितम् = गोतमविरचितम् | १४ ) शिवेन त्रातः = शिवत्रातः, शिवेन त्रातः | १५) शिवया त्रातः = शिवात्रातः, शिवया त्रातः | करणार्थे तृतीया १) बाणेन हतः = बाणहतः, बाणेन हतः | करणे तृतीयायाः कृदन्तेन सह समासः | बाणहतः वाली अस्ति | बाणहतः इति समासेन कः उक्तः इति चेत् कर्म एव उक्तं भवति यतोहि क्तप्रत्ययः कर्मार्थे अस्ति | अतः बाणहतः कः इति चेत् वाली इत्यर्थः | २) नखैः भिन्नः = नखभिन्नः, नखैः भिन्नः | भेदनक्रियायां नखाः करणम् | ३) परशुना छिन्नः = परशुछिन्नः, परशुना छिन्नः | ४) दात्रेण लूनः = दात्रलूनः ( wounded by a knife), दात्रेण लूनः | ५) नखैः निर्भेदः = नखनिर्भेदः, नखैः निर्भेदः | अत्र भिद् इति धातोः घञन्तरूपम् अस्ति भेदः इति | सामान्यतया घञन्तेन सह समासः न भवति परन्तु बहुलग्रहणात् अत्र अपि समासः दृश्यते | अत्र एका परिभाषा वर्तते – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् | नखैर्निभिन्नः = नखनिर्भिन्नः, नखैर्निभिन्नः | परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | गतिः इति काचित् संज्ञा वर्तते व्याकरणे | गतिः इत्युक्ते उपसर्गः इत्यर्थः | गतिश्च ( १.४.६०) इत्यनेन प्रादयः क्रियायोगे गतिसज्ञाः स्युः | प्रादिगणे एते द्वाविंशतिः शब्दाः सन्ति – प्र-परा-अप-सम्-अनु-अव-निस्-निर्-दुस्-दुर्-वि-आङ्-नि-अधि-अपि-अति-सु-उत्-अभि-प्रति-परि-उप | एते एव प्रादयः इत्युच्यन्ते | प्रादयः क्रियायोगे गतिसज्ञाः उपसर्गाः च स्युः | गतिपूर्वकस्य उदाहरणम् – नखैः निर्भिन्नः इति विग्रहे सति नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः सिद्ध्यति | कारकपूर्वस्य कृदन्तस्य उदाहरणम् – अवतप्ते नकुलस्थितम् इति | स्थितमिति भावे क्तप्रत्ययः | नकुलेन स्थितम् इति नकुलस्थितम् इति समासः | अस्मिन् विषये अग्रे क्षेपे (२.१.४७) इति सप्तमीतत्पुरुषसमाससूत्रस्य प्रसङ्गे द्रक्ष्यामः | |
४) कृत्यैरधिकार्थवचने (२.१.३३)
कृत्यैरधिकार्थवचने (२.१.३३) = कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः | तव्यत्तव्यानीयरः (३.१.९६) इत्यस्मात् सूत्रात् आरभ्य ण्वुल्तृचौ ( ३.१.१३३) इति सूत्रपर्यन्तं ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति | अर्थात् तव्य, तव्यत्, अनीयर्, ण्यत्, यत्, क्यप्, केलिमर् इति आहत्य सप्त कृत्यप्रत्ययाः सन्ति | एते प्रत्ययाः कर्मार्थे अथवा भावार्थे भवन्ति | अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये; किमपि आरोपितम्, अधिकं वदनम्, अधिकार्थवचनम् इत्युच्यते | स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनम् अधिकार्थवचनम् | पूर्वसूत्रेण अयं समासः प्राप्यते चेद् अपि पाणिनिना पृथक् सूत्रं कृतं यतोहि नियमार्थम् इदं सूत्रम् | अनुवृत्ति-सहित-सूत्रम्— कर्तृकरणे तृतीया सुप् कृत्यैः सुब्भिः सह अधिकार्थवचने बहुलं तत्पुरुषः समासः |
उदाहरणानि |
---|
१) वातेन छेद्यं तृणम् = वातच्छेद्यं तृणं, वातेन छेद्यं तृणम् |
२) काकैः पेया नदी = काकपेया नदी, काकैः पेया नदी | ३) श्वभिर्लेह्यः कूपः = श्वलेह्यः कूपः, श्वभिर्लेह्यः कूपः | ४) नखैर्छेद्यम् = नखच्छेद्यम् , नखैर्छेद्यम् |काशिकारस्य मतेन कृत्य-प्रत्ययेन केवलं यत्, ण्यत् इति प्रत्ययोः एव ग्रहणं न तु तव्यदादीनाम् | कृत्यग्रहणे यत्-ण्यतोः ग्रहणं कर्तव्यम् | अतः काकैः पातव्या इत्यादिषु समासः न भवति | |
५) अन्नेन व्यञ्जनम् (२.१.३४)
अन्नेन व्यञ्जनम् (२.१.३४) = व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति | अन्नं स्वादुं कर्तुम् उपयोगिनः व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | व्यञ्जनं संस्कारकः, अन्नं सस्कार्यं भवति | अनयोः मध्ये उपसेचनक्रिया (शाकसूपादिः) भवति येन संस्कार्यसंस्कारकभावः उत्पद्यते | अतः सामर्थ्योत्पादनयोग्यतावशात् समासवृत्तौ अन्तर्भूता उपसेचनक्रिया आक्षिप्यते | स्वादिष्टान्नस्य करणार्थं संस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति | संस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः | अनुवृत्ति-सहित-सूत्रम्—तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) दध्ना ओदनः = दध्योदनः, दध्ना ओदनः |
२) क्षीरेण ओदनः = क्षीरौदनः, क्षीरेण ओदनः | क्षीरोदनः इति वैदिकप्रयोगः दृश्यते | लोके तु क्षीरौदनः इति रूपं सम्यगस्ति | ३) तक्रेण ओदनम् = तक्रौदनम्, तक्रेण ओदनम् | ४) दध्ना अन्नम् = दध्यन्नम् , दध्ना अन्नम् | ५) सूपेन ओदनः = सूपौदनः, सूपेन ओदनः | ६) क्वथितेन ओदनः = क्वथितौदनः, क्वथितेन ओदनः | ७) पयसा ओदनः = पयओदनः/पययोदनः, पयसा ओदनः | |
६) भक्ष्येण मिश्रीकरणम् ( २.१. ३५)
भक्ष्येण मिश्रीकरणम् ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति | मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्यं नाम तादृशपदार्थः यः कठोरः, अवयवयुक्तः भवति, यस्य खादनार्थं हनोः प्रयोगः भवति | यत् वस्तु अन्यपदार्थेन सह मिलित्वा तस्य संस्कारकं भवति, तत् वस्तु एव मिश्रीकरणम् इत्युच्यते | अमिश्रं मिश्रं क्रियते अनेन इति मिश्रीकरणम् | मिश्र्यते खाद्यं द्रव्यम् अनेन इति मिश्रीकरणम् | भक्ष्- धातुतः ण्यत्प्रत्ययं योजयित्वा निष्पन्नः शब्दः भक्ष्यम् इति | अनुवृत्ति-सहित-सूत्रम्—तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) गुडेन (मिश्रिताः) धानाः = गुडधानाः |
२) गुडेन पृथुकाः ( beaten rice) = गुडपृथुकाः | |
c) चतुर्थीतत्पुरुषसमासः
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६)
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) = चतुर्थ्यन्तं सुबन्तं तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति | तदर्थः = चतुर्थ्यन्तं पदं, चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति ( तदर्थः), तद्वाचकपदेन सह समस्यते | तस्मै इदं तदर्थम् | तदर्थः इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तपदम् अस्ति तस्य एव सङ्केतं करोति | अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थः | तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते | अर्थात् तदर्थेन केवलं यत्र प्रकृति-विकृतिभावः भवति तत्र एव चतुर्थीतत्पुरुषसमासः भवति | यथा कुण्डलं( आभरणं) कर्तुमेव हिरण्यम् ( सुवर्णम्) अस्ति | हिरण्यं प्रकृतिः, कुण्डलं तस्य विकृतिः, अतः कुण्डलहिरण्यम् इति समासः | अर्थ-बलि-हित-सुख-रक्षित = एवञ्च चतुर्थ्यन्तं पदम् अर्थ-बलि-हित- सुख-रक्षित च इत्येतैः शब्दैः सह विकल्पेन समस्यते | तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा तत्पुरुषः समासः |
तदर्थः = अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः | तस्मै इदं तदर्थम् | अर्थात् चतुर्थ्यन्तार्थं यत् वस्तु अस्ति तत् तदर्थं भवति | पूर्वपदे चतुर्थीविभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति | चतुर्थ्यन्तपदं, तादृशचतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तद्बोधकेन शब्देन सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति | पूर्वपदं चतुर्थ्यन्तं पदम्, उत्तरपदम् चतुर्थ्यन्तार्थं यत् पदम् अस्ति, तद्बोधकं पदम् | तात्पर्यमेवं यत् पूर्वपदं विकृतिः स्यात्, उत्तरपदं प्रकृतिः स्यात् |
तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते, बलिरक्षितग्रहणात् ज्ञापकात् |
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रे तदर्थः इति शब्देन प्रत्येकं तदर्थस्य ग्रहणम् अभीष्टं नास्ति, अपि तु प्रकृतिविकृतिभावरूपस्य तदर्थस्य एव ग्रहणम् इष्टम् |
उदाहरणानि |
---|
१) यूपाय दारु = यूपदारु |
तादर्थे चतुर्थी वाच्या इति वार्तिकं चतुर्थी सम्प्रदाने (२.३.१३) इति सूत्रभाष्ये पठितम् | तस्मै इदं तदर्थम् | तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये | वार्तिकार्थः अस्ति – तादर्थे चतुर्थीविभक्तिः भवति | अर्थात् तस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थीविभक्तिः भवति | यत् वस्तु प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः | वार्तिकेन उपकार्योपकारकभावसंबन्धो विवक्षितः | उपकार्यत्वं च बहुविधं जन्यत्वादि | यथा मुक्तये हरिं भजति इति | मुक्तिं प्राप्तुं हरेः भजनं क्रियते | अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं क्रियते | मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम् | २) कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्) | मूलं सुवर्णं, तस्य विकारेण कुण्डलं निर्मीयते | प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि चतुर्थीतत्पुरुषसमासः भवति | ३) गृहाय दारु = गृहदारु, गृहाय दारु | ४) कुम्भाय मृत्तिका = कुम्भमृत्तिका, कुम्भाय मृत्तिका | ५) नवनीताय दधि = नवनीतदधि, नवनिताय दधि | ६) दध्ने दुग्धम् = दधिदुग्धम् ,दध्ने दुग्धम् |
अर्थः प्रकृतसूत्रे अर्थः इत्युक्ते प्रयोजनम् इति अर्थः |
द्विजाय इदं पयः = द्विजार्थं पयः | तस्मै इदं पुस्तकम् = तदर्थं पुस्तकम् | शिशवे इदं पयः = शिश्वर्थं पयः | भोजनार्थं गच्छामि इति वाक्ये भोजनार्थम् इति पदं क्रियाविशेषणम् अस्ति | भोजनाय इदं = भोजनार्थम् इति चतुर्थीतत्पुरुषसमासः अस्ति परन्तु तस्य लिङ्गं नपुंसकलिङ्गे अस्ति यतोहि क्रियाविशेषणम् अस्ति | क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गञ्च वक्तव्यम् इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीयाविभक्तौ एकवचने भवति | बलिः भूतेभ्यः बलिः = भूतबलिः, भूतेभ्यः बलिः | भूत + भ्यस् + बलि + सु | पशुभ्यः बलिः = पशुबलिः, पशुभ्यः बलिः | हितः हितशब्दस्य योगे तु तादर्थे चतुर्थी वाच्या इति वार्तिकेन चतुर्थी न भवति अपि हितयोगे च इति वार्तिकेन चतुर्थीविभक्तिः भवति | हितयोगे च इति वार्तिकस्य ज्ञापकं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (२.१.३६) इति सूत्रमेव | गोभ्यः हितम् = गोहितम् | गो + भ्यस् + हित + सु | प्रजाभ्यः हितम् = प्रजाहितम् | अश्वेभ्यः हितम् = अश्वहितम् | सुखम् गोभ्यः सुखं =गोसुखम् | रक्षितः गोभ्यः रक्षितं = गोरक्षितम् | अश्वेभ्यः रक्षितम् = अश्वरक्षितम् | |
d) पञ्चमीतत्पुरुषसमासः
पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति | क्रमेण अवलोकयाम |
१) पञ्चमी भयेन (२.१.३७)
पञ्चमी भयेन (२.१.३७) = पञ्चम्यन्तं सुबन्तं भय इति सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति | अनुवृत्ति-सहित-सूत्रं— पञ्चमी सुप् भयेन सुपा सह विभाषा तत्पुरुषः समासः |
भयभीतभीतिभीभिरिति वाच्यम् (भयभीतभीतिभीभि: इति तृतीया, बहुचनम् ) इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने भय-भीत-भीति-भी इति वक्तव्यम् आसीत् | अनेन भय-भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते |
उदाहरणानि |
---|
१) चोराद्भयं = चोरभयम्, चोरभयम् |२) वृकात् भीतः = वृकभीतः, वृकात् भीतः |
३) वृकात् भयम् = वृकभयं, वृकात् भयम् ४) वृकात् भीतिः = वृकभीतिः, वृकात् भीतिः५) वृकात् भीः = वृकभीः, वृकात् भीः ६) भयाद् भीतः = भयभीतः, भयात् भीतः७) सिंहाद् भीतिः = सिंहभीतिः, सिंहात् भीतिः | सूत्रविभागेन अधः दत्तानि पदानि अपि सिध्यन्ति – १) ग्रामात् निर्गतः = ग्रामनिर्गतः, ग्रामात् निर्गतः | २) विषयेभ्यः उपरतः = विषयोपरतः, विषयेभ्यः उपरतः | ३) अधर्मात् जुगुप्सा = अधर्मजुगुप्सा, अधर्मात् जुगुप्सा | |
२) अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (२.१.३८)
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः (२.१.३८) = कुत्रचित् (अल्पशः) पञ्चम्यन्तं सुबन्तम् अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो विकल्पेन भवति | अनुवृत्ति-सहित-सूत्रं— अल्पशः पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्पुरुषः समासः |
अपेत ( अप +इण्+ कर्तरि क्तप्रत्ययः) = departed , अपोढ ( अप+ वह् +क्त) = taken away, removed, carried off , मुक्तः ( मुच् +क्त) = freed , पतितः ( पत् + कर्तरि क्त) = dropped, अपत्रस्तः ( अप+ त्रस् +क्त) = afraid of, fleeing.
उदाहरणानि |
---|
१) सुखाद् अपेतः( विमुक्तः) = सुखापेतः (सुखात् दूरम् इत्यर्थः), सुखाद् अपेतः | २) दुःखात् अपेतः = दुःखापेतः, दुःखाद् अपेतः |
३) कल्पनायाः अपोढः ( अपाकृतः) = कल्पनापोढः (कल्पनायाः बाधितः), कल्पनायाः अपोढः | ४) चक्राद् मुक्तः = चक्रमुक्तः (चक्रात् मुक्तिः इत्यर्थः), चक्राद् मुक्तः, चक्रान्मुक्तः | ५) रोगात् मुक्तः = रोगमुक्तः, रोगाद् मुक्तः | ६) स्वर्गात् पतितः = स्वर्गपतितः, स्वर्गात् पतितः | ७) वृक्षात् पतितः = वृक्षपतितः, वृक्षात् पतितः | ८) तरङ्गाद् अपत्रस्तः (भीतिः) = तरङ्गापत्रस्तः, तरङ्गाद् अपत्रस्तः | |
३) स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९)
स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन (२.१.३९) = स्तोक-अन्तिक-दूर इत्येवम् अर्थाः पञ्चम्यन्तशब्दाः, पञ्चम्यन्तकृच्छ्रशब्दश्च क्तान्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः (कष्टम्), एतेषां पञ्चम्यन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषश्च समासो भवति | अनुवृत्ति-सहित-सूत्रं— स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्याः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
पञ्चम्याः स्तोकादिभ्यः (६.३.२) = इति सूत्रेण स्तोकादिभ्यः प्रातिपदिकेभ्यः या पञ्चमीविभक्तिः अस्ति, तस्याः लुक न भवति उत्तरपदे परे | १) स्तोकाद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति), स्तोकाद् मुक्तः, स्तोकेन मुक्तः | लघुना आयासेन/अनायासेन मुक्तः इत्यर्थः |
सविशेषणानां वृत्तिर्न वृत्तस्य विशेषणयोगो न इति उक्त्या | अतः सर्वस्मात् स्तोकाद् मुक्तः इत्यत्र समासः न भवति |
३) कृच्छ्रान्मुक्तः, कृच्छ्रेण मुक्तः | कष्टेन आयासेन मुक्तः इत्यर्थः | ४) कतिपयान्मुक्तः, कतिपयेन मुक्तः | अकृत्स्नेन साधनेन इत्यर्थः | ५) अन्तिकाद् ( समीपात्) आगतः = समासः → अन्तिकादागतः, व्यस्तप्रयोगाः → अन्तिकाद् आगतः, अन्तिकम् आगतः, अन्तिकेन आगतः, अन्तिके आगतः | ६) अभ्याशाद् (समीपात्) आगतः = अभ्याशादागतः, अभ्याशाद् आगतः, अभ्याशम् आगतः, अभ्याशेन आगतः, अभ्याशे आगतः | अभि + अश् (अशू व्याप्तौ) + घञ् = अभ्याशः ( समीपम् इत्यर्थः) | ७) दूराद् आगतः = दूरादागतः, दूराद् आगतः, दूरम् आगतः, दूरेण आगतः, दूरे आगतः | ८) कृच्छ्राद् ( कष्टात्) आगतः = कृच्छ्रादागतः, कृच्छ्राद् आगतः, कृच्छ्रेण आगतः | ९) विप्रकृष्टाद् ( दूरात्) आगतः = विप्रकृष्टादागतः, विप्रकृष्टाद् आगतः, विप्रकृष्टम् आगतः, विप्रकृष्टेन आगतः, विप्रकृष्टे आगतः | १०) अल्पात् मुक्तः = अलपान्मुक्तः, अल्पाद् मुक्तः, अल्पेन मुक्तः | ११) कृच्छ्राद् ( कष्टात्) मुक्तः = कृच्छ्रान्मुक्तः, कृच्छ्राद् मुक्तः, कृच्छ्रेण मुक्तः | १२) कृच्छ्राद् लब्धः = कृच्छ्राल्लब्धः, कृच्छ्राद् लब्धः , कृच्छ्रेण लब्धः| १३) समीपाद् आगतः = समीपादागतः, समीपाद् आगतः, समीपम् आगतः, समीपेन आगतः, समीपे आगतः | |
e) सप्तमीत्पुरुषसमासः
१) सप्तमी शौण्डैः (२.१.४०)
सप्तमी शौण्डैः (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासश्च विकल्पेन भवति | शौण्डादिगणे एते शब्दाः सन्ति – शौण्ड, धूर्त, कितव, व्याड, प्रवीण, संवीत, अन्तर् (सामान्यतया अधिकरणार्थे एव पठ्यते ) , अधि, पटु, पण्डित, कुशल, चपल, निपुण | अन्तः शब्दः तु अधिकरणप्रधानः एव पठ्यते | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) अक्षेषु शौण्डः (skilled) = अक्षशौण्डः, अक्षेषु शौण्डः |
२) अक्षेषु धूर्तः ( cunning) = अक्षधूर्तः, अक्षेषु धूर्तः | ३)काव्ये निपुणः = काव्यनिपुणः, काव्ये निपुणः | ४) शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः | ५) कार्ये कुशलः = कार्यकुशलः, कार्ये कुशलः | ६) तर्के कुशलः = तर्ककुशलः, तर्के कुशलः | ७) गुहायां संवीतः ( covered) = गुहासंवीतः, गुहायां संवीतः | ८) ईश्वरे अधीनः = ईश्वराधीनः, ईश्वरे अधीनः | अस्य प्रक्रिया अग्रे प्रदर्शिता | ९॒)स्त्रीषु धूर्तः = स्त्रीधूर्तः, स्त्रीषु धूर्तः | १०) अक्षेषु कितवः ( dishonest) = अक्षकितवः, अक्षेषु कितवः | ११) अक्षेषु व्याडः ( malicious, mischievous) = अक्षव्याडः, अक्षेषु व्याडः | १२) कर्मणि प्रवीणः = कर्मप्रवीणः, कर्मणि प्रवीणः | १३) पठने पटुः ( clever) = पठनपटुः, पठने पटुः | १४) सभायां पण्डितः = सभापण्डितः, सभायां पण्डितः | १५) वाचि चपलः = वाक्चपलः वाचि चपलः | १६) तर्के कुशलः = तर्ककुशलः , तर्के कुशलः | १७) शास्त्रे निपुणः = शास्त्रनिपुणः, शास्त्रे निपुणः | शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति | १८) अधि ईश्वरे भूः = ईश्वाराधीना भूः, अधि ईश्वरे भूः | अत्र सप्तमी शौण्डैः (२.१.४०) इति सूत्रेण अधि इत्यस्य ईश्वरे इति सप्तम्यन्तेन सह समासः भवति | भूः नाम भूमिः इत्यर्थः | ईश्वरे अधीना भूः इति वाक्ये स्वस्वामिभावसम्बन्धः ज्ञायते | ईश्वरः स्वामी, भूः स्वा इति कारणतः स्वस्वामिभावसम्बन्धः ज्ञायते, अतः अधि इति पदस्य कर्मप्रवचनीयसंज्ञा भवति अधिरीश्वरे ( १.४.९७) इति सूत्रेण | तत्पश्चात् यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ( २.३.९) इति सूत्रेण अधि इति कर्मप्रवचनीययुक्ते ईश्वर इति शब्दात् सप्तमीविभक्तिः भवितुम् अर्हति नो चेत् भू इति शब्दात् अपि सप्तमी भवितुम् अर्हति, परन्तु ईश्वर इति शब्दात् सप्तमीविभक्तिः जायते चेदेव समासः शक्यते | भू इति शब्दात् सप्तमी जायते चेत् समासः न शक्यते | भ्वाधीनः ईश्वरः इति समासः न जायते |
२०) अधि राजनि प्रजाः = राजाधीनाः प्रजाः, अधि राजनि प्रजाः | २१) वने अन्तः (अन्तर्) = वनान्तः ( वनप्रदेशः) , वने अन्तः | यदि अन्तर् इति शब्दस्य योगे अवयविनः आधारत्वविवक्षायां सप्तमी भवति, यथा वृक्षे शाखा इति | वने अन्तः (अन्तर्) = वनान्तः ( वनप्रदेशः) इति सप्तमीतत्पुरुषसमासः, विकल्पेन वने अन्तः इत्यपि भवति | वन्तान्तः इत्युक्ते वनप्रदेशः इति अर्थः अधिकरणार्थे नास्ति | यत्र अन्तर् इति आधेयप्रधानः तत्र तत्पुरुषसमासः, यत्र अन्तर् इति अधिकरणप्रधानः तत्र अव्ययीभावसमासः भवति | |
२) सिद्धशुष्कपक्वबन्धैश्च (२.१.४१)
सिद्धशुष्कपक्वबन्धैश्च (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव इदं सूत्रं कृतं पाणिनिना | सिद्धः इत्युक्ते उत्पन्नो ज्ञातो वेत्यर्थः | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) साङ्काश्ये( city) सिद्धः ( accomplished, attained) = साङ्काश्यसिद्धः (साङ्काश्ये उत्पन्नः) , साङ्काश्ये सिद्धः | साङ्काशय + ङि + सिद्ध +सु |
२)काम्पिल्ये (देशविशेषः) सिद्धः = काम्पिल्यसिद्धः, काम्पिल्ये सिद्धः | ३) आतपे शुष्कः (dry) = आतपशुष्कः, आतपे शुष्कः | ४) छायायां शुष्कः = छायाशुष्कः, छायायां शुष्कः | ५) स्थाल्यां पक्वः ( matured, cooked) = स्थालीपक्वः , स्थाल्यां पक्वः | ६) कुम्भ्यां पक्वः = कुम्भीपक्वः, कुम्भ्यां पक्वः | ७॒) घटे पक्वः = घटपक्वः, घटे पक्वः | ८) चक्रे बन्धः (bond) = चक्रबन्धः, चक्रेबन्धः, चक्रे बन्धः | अस्मिन् समासे बन्धे च विभाषा ( ६.३.१३) इति सूत्रेण बन्धे उत्तरपदे परे पूर्वपदं हलन्तः अथवा अदन्तः चेत् तदा पूर्वपदस्य सप्तम्याः अलुग्भवति विकल्पेन | अतः चक्रेबन्धः, चक्रबन्धः इति रूपद्वयं सिद्धयति समासपक्षे | व्यस्तप्रयोगे तु चक्रे बन्धः इति | ९) हस्ते बन्धः = हस्तेबन्धः, हस्तबन्धः, हस्ते बन्धः |
|
३) ध्वाङ्क्षेण क्षेपे (२.१.४२)
ध्वाङ्क्षेण क्षेपे (२.१.४२) = निन्दार्थे वर्तमाने सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते | सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) | ध्वाङ्क्षः नाम काकः इति | व्याख्यानात् ज्ञायते यत् सूत्रे अर्थग्रहणं क्रियते इत्यतः काकस्य पर्यायपदानाम् अपि ग्रहणं भवति | अयं समासः नित्यः नास्ति यतोहि व्यस्तप्रयोगे अपि निन्दा गम्यते, तदर्थं विग्रहे इव इति शब्दप्रयोगः क्रियते | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) तीर्थे ( गुरुकुले) ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः | ध्वाङ्क्षः = काकः; काकः इव यः गुरुकुले चिरं न तिष्ठति सः तीर्थध्वाङ्क्षः इत्युच्यते | तीर्थध्वाङ्क्षः नाम अनवस्थितः इत्यर्थः | यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः ब्रह्मचारी / छात्रः एकस्मिन् गुरुकुले वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् | तादृशः चञ्चलतां प्रदर्शयति इत्यतः तस्य तुलना काकेन सह क्रियते |
२) तीर्थे काकः इव = तीर्थकाकः, तीर्थे काकः इव (लोलुपत्वात् ) | ३) तीर्थे वायसः इव = तीर्थवायसः, तीर्थे वायसः इव | वायसः = काकः | अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इत्यर्थः | अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते | |
४) कृत्यैर्ऋणे (२.१.४३)
कृत्यैर्ऋणे (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने | अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते | तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, केलिमर् इत्येते प्रत्ययाः कृत्यप्रत्ययाः सन्ति | अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणम् इष्यते न तु अन्येषाम् इति उक्तं भाष्ये | ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः | अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः भवति | यत् अवश्यदातव्यं, अवश्यकर्तव्यं भवति तत् ऋणम् इत्युच्यते | ऋणम् इति शब्दस्य ग्रहणं नियोगस्य ( निश्चितकालस्य) उपलक्षणार्थम् | नियोगः नाम निश्चितकालस्य बोधः | यत्र निश्चितकालस्य बोधः भवति तत्र ऋणम् अवश्यकर्तव्यं अवश्यदातव्यं वा भवति, तत्रैव इदं सूत्रं कार्यं करोति | यत्र अवश्यकर्तव्यम् अवश्यदातव्यम् इत्यस्मिन् अर्थे भवति तत्रैव यत्प्रत्ययान्तेन सह सप्तम्यन्तस्य पदस्य समासः भवति | `कृत्यैः` इति बहुवचनमत्र विवक्षितं, तच्च ऋणग्रहणस्य नियोगोपलक्षणार्थत्वे प्रकृतिभेदेन | अनुवृत्ति-सहित-सूत्रं— सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
यत्प्रत्ययेनैव समास इष्यते इति वार्तिकेन प्रकृतसूत्रं यत्प्रत्ययान्तेन सुबन्तेन सहैव भवति न तु अन्येषां कृत्यप्रत्ययानां योगे |
२) पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः), पूर्वाह्णे गेयं सामम् | दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः | अधिकारिणि अवश्यकर्तव्यता अस्ति | अधिकारिणा अवश्यं पूर्वाह्णे सामवेदः गातव्यः वेदानुरोधेन | इदम् अवश्यकर्तव्यम् इत्यस्य उदाहरणम् | पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व +सु +अहन्+ सु | अत्र पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ( २.२.१) इति सूत्रेण एकदेशिसमासः भवति | ३) संवत्सरे देयम् ॠणम् = संवत्सरदेयम् ऋणं, संवत्सरे देयम् ऋणम् | मासे देया भिक्षा इत्यत्र अयं समासः न भवति यद्यपि देया इति यत्प्रत्ययान्तः शब्दः यतोहि भिक्षा दातव्या इति अनिवार्यता नास्ति | अतः यत्र अवश्यंभावः भवति तत्रैव अयं समासः विधीयते न अन्यत्र | |
५) संज्ञायाम् (२.१.४४)
संज्ञायाम् (२.१.४४) = संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | संज्ञा नाम समुदायस्य उपाधिः (नामकरणं) भवति | सज्ञायाम् इति सप्तम्यन्तमेकपदम् इदं सूत्रम् | यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः तथापि अयं समासः नित्यः यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते; समासानन्तरमेव संज्ञायाः प्रतीतिः उत्पद्यते | संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते इत्यतः समासाभावपक्षः न भवति | अनुवृत्ति-सहित-सूत्रं— संज्ञायां सप्तमी सुप् सुपा सह तत्पुरुषः समासः |
उदाहरणानि |
---|
१) अरण्येतिलकाः (Wild sesame growing in a forest) | अरण्येतिकलाः इति संज्ञापदम् | संज्ञार्थस्य विवक्षायां संज्ञायाम् (२.१.४४) इति सूत्रेण नित्यसमासः भवति |
२) वनेकिंशुकाः ( anything found unexpectedly) | वन + ङि + किंशुक + जस् | किंशुकः नाम पलाशवृक्षः इति | ३) अरण्येमाषाः ( black gram found in the forest) | ४) वनेबिल्वकाः (anything found unexpectedly) | बिल्वकः नाम crab, snake इत्यर्थः | ५) कूपेपिशाचकाः ६) वनेहरिद्रकाः ( a kind of yellow sandal tree in the forest) | ७) वनेकशेरुकाः ( a kind of grass in the forest) | कशेरुकः नाम तृणकन्दः | ८) युधिष्ठिरः | युधि स्थिरः ( युधि संग्रामे स्थिरः) | समासः नित्यः इति स्मर्तव्यम् | अत्र सप्तमीतत्पुरुषसमासः भवति संज्ञायाम् (२.१.४४) इति सूत्रेण | हलदन्तात् सप्तम्याः संज्ञायाम् (६.३.९) इति सूत्रेण हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | अनेन सूत्रेण युध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति | अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति | उत्तरपदस्य तु विभक्तेः लोपः भवत्येव | ९) गविष्ठिरः | गवि स्थिरः- आकाशे स्थिररूपेण वसन् अत्रिकुलः इति एकः ऋषिः आसीत्, तस्य नाम गविष्ठिरः | अत्र सप्तमीतत्पुरुषसमासः भवति संज्ञायाम् (२.१.४४) इति सूत्रेण | यः पुरुषः गवां निरन्तरं सेवां करोति सः गविष्ठिरः | गविष्ठिरः इति पदं संज्ञापदम् अस्ति | गवियुधिभ्यां स्थिरः (८.३.९५) इति सूत्रेण षत्वं भवति | १०) त्वचिसारः | |
६) क्तेनाहोरात्रावयवाः (२.१.४५)
क्तेनाहोरात्रावयवाः (२.१.४५) = अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो च विकल्पेन भवति | दिनस्य, रात्रेः च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते | अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाचिशब्दाः तथा च रात्रेः अवयववाचिशब्दाः इति | अनुवृत्ति-सहित-सूत्रं— अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) पूर्वाह्णे कृतं = पूर्वाह्णकृतं, पूर्वाह्णे कृतम् | पूर्वाह्णं नाम दिनस्य पूर्वभागः इत्यर्थः | दिनस्य पूर्वभागे सम्पादितं तत् पूर्वाह्णकृतम् इत्युच्यते | पूर्वाह्ण + ङि + कृत + सु | पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्, अतः तादृशस्य दिनावयववाचिपदस्य कृत इति क्तप्रत्ययान्तेन सह समासः भवति क्तेनाहोरात्रावयवाः (२.१.४५) इति सूत्रेण |
पूर्वम् अह्नः = पूर्वाह्णः | दिनस्य आदिमः भागः | अलौकिकविग्रहः = पूर्व + सु + अहन् + ङस् | २) अपररात्रे कृतं = अपररात्रकृतम्, अपररात्रे कृतम् | अपररात्रिः - second half of the night | अपररात्र + ङि + कृत + सु | अपररात्रः इति पदं रात्रिः इति पदस्य अवयववाचिपदम् | अतः समासः सिद्ध्यति | अपररात्रः इति पदं पुंलिङ्गे अस्ति | ३) पूर्वरात्रे कृतम् = पूर्वरात्रकृतं, पूर्वरात्रे कृतम् | ४) मध्याह्ने कृतम् = मध्याह्नकृतं, मध्याह्ने कृतम् | ५) मध्यरात्रे कृतम् = मध्यरात्रकृतम्, मध्यरात्रे कृतम् |
|
७) तत्र (२.१.४६)
तत्र (२.१.४६) = तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | तत्र इति सप्तम्यन्तं सुबन्तम् अव्ययं क्तेन सुबन्तेन सह समस्यते | तत्र इति अव्ययमेकपदं सूत्रम् | सप्तम्यास्त्रल् (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति | तद्धितश्चासर्वविभक्तिः ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति | अनुवृत्ति-सहित-सूत्रं— तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्पुरुषः समासः |
उदाहरणानि |
---|
१) तत्र भुक्तं = तत्रभुक्तं, तत्र भुक्तम् | तत्र +भुक्त+सु | भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते |
२) तत्र पीतम् = तत्रपीतम् , तत्र पीतम् | ३) तत्र खादितम् = तत्रखादितम्, तत्र खादितम् | ४) तत्र कृतम् = तत्रकृतम्, तत्र कृतम् |
|
८) क्षेपे (२.१.४७)
क्षेपे (२.१.४७) = क्षेपे (निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासः च भवति | निन्दायाम् अयं समासः नित्यः भवति | क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् | अनुवृत्ति-सहित-सूत्रं— क्षेपे सप्तमी सुप् क्तेन सुपा सह तत्पुरुषः समासः |
उदाहरणानि |
---|
१) अवतप्ते-नकुलस्थितं तवैतत् ( an Ichneumon/Mongoose standing on hot ground, metaphorically said for an inconsistent person) = अवतप्तेनकुलस्थितं तवैतत् | चापलम् एतत्, अनवस्थितत्वं तवैततित्यर्थः |
एका परिभाषा ज्ञातव्या – कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् | परिभाषायाः अर्थः अस्ति यत् यत्र कृदन्तपदस्य ग्रहणं भवति तत्र कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति इति | अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य अपि सुबन्तेन सह समासः क्रियते | अर्थात् यत्र समासविधायकसूत्रेषु कृदन्तपदस्य उल्लेखः क्रियते तत्र न केवलं कृदन्तपदस्य ग्रहणम् अपि तु गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्यापि ग्रहणं भवति | २) प्रवाहेमूत्रितम् | नद्यां मूत्रत्यागः इति निन्दार्थे अस्ति | ३) भस्मनिहुतम् | भस्मनि हवनं करोति इति निन्दार्थे अस्ति | ४) उदकेविशीर्णं तवैतत् ( Dried in water; figuratively used for anything unheard of or impossible) | उदकेविशीर्णम् इत्यस्मिन् अपि आरम्भस्य निष्फलता क्षेपः | |
९) पात्रेसमितादयश्च ( २.१. ४८)
पात्रेसमितादयश्च ( २.१. ४८) = निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः निपात्यन्ते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते | यद्यपि विभाषा (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे तस्य सम्बन्धः नास्ति यतोहि व्यस्तप्रयोगेण निन्दा न गम्यते | सप्तमीविभक्तेः अलुक् अपि निपात्यते | पात्रेसमितः आदिर्येषां ते, पात्रेसमितादयः, बहुव्रीहिः | अनुवृत्ति-सहित-सूत्रं— क्षेपे पात्रेसमितादयश्च सप्तम्यः सुपः सुपा सह तत्पुरुषः समासः |
उदाहरणानि |
---|
१) पात्रेसमिताः ( frequently present at meals) | समितः नाम समागतः इत्यर्थः | भोजनसमसे एव सङ्गताः, न तु कार्ये | यः भोजनसमये एव उपस्थितः, कार्यसमये कुत्रापि न प्रकटितः भवति | पात्रेसमितादयश्च ( २.१. ४८) इति सूत्रेण नित्यसमासः भवति |
२) गेहेशूरः | यः गृहे एव वीरः, बहिः भीतः | ३) गेहेनर्दी (roaring) | गृहे एव यः गर्जति | |
पात्रेसमितादिगणे बहवः शब्दाः सन्ति, तेषु केचन अत्र दीयन्ते –
पात्रेसमितादिगणीयशब्दाः |
---|