03D- तत्पुरुषसमासः - द्विगुः
3) द्विगुसमासः सूत्रसहिता दृष्टिः
द्विगुसमासे पूर्वपदं सङ्ख्यावाचकम् एव भवति। किन्तु सङ्ख्यापूर्वः सर्वे अपि द्विगुः न। यथा- पञ्च गावः यस्य सः, पञ्चगुः इति बहुव्रीहिसमासः अस्ति। द्वौ च दश च , द्वादश इति द्वन्द्वसमासः अस्ति। अष्टाधिका विंशतिः, अष्टाविंशतिः इति कर्मधारयसमासः अस्ति। कर्मधारयसमासे सङ्ख्यावाचकपदं पूर्वपदे भवति संज्ञायां विषये एव, अपि च सः समासः सङ्ख्याविशेषणपूर्वपदकर्मधारयसमासः भवति। यथा सप्त च ऋषयः च, सप्तर्षयः इति विशेषणपूर्वपदकर्मधारयसमासः भवति यतोहि तत्र सप्तर्षयः इति पदं संज्ञापदम् अस्ति।
नदीवाचकशब्देन सह अपि सङ्ख्यावाचकस्य समासः भवति किन्तु अव्ययीभावसमासः भवति नदीभिश्च (२.१.२०) इति सूत्रेण यत् अस्माभिः अव्ययीभावसमासस्य विषये पठितम्। यथा सप्तानां गङ्गानां समाहारः, सप्तगङ्गम् इति भवति। अत्र द्विगुसमासः नास्ति।
नदीभिश्च (२.१.२०) इति सूत्रं वदति यत् नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे च अयम् इष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्।
द्विगुसमासः त्रिधा विभक्तः भवति – १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति। द्विगुसमासः तत्पुरुषसमासस्य एव एकः प्रभेदः अस्ति यतोहि द्विगुसमासः तत्पुरुषसमासस्य अधिकारे वर्तते।
द्विगुश्च (२.१.२३) = द्विगुसमासस्य तत्पुरुषसंज्ञा भवति। द्विगुः प्रथमान्तं, च अव्ययपदम। तत्पुरुषः (२.१.२२) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रम्— द्विगुः तत्पुरुषः च।
द्विगुरेकवचनम् (२.४.१) = द्विगुः समासः एकवचनं भवति। एकस्य वचनम् एकवचनम्। एकस्य अर्थस्य वाचको भवति इत्यर्थः। वक्तीति वचनम्। एकस्य वचनम् एकवचनम्, षष्ठीतत्पुरुषः। द्विगुः प्रथमान्तम्, एकवचनं प्रथमान्तं, द्विपदमिदं सूत्रम्। अस्मिन् सूत्रे समासग्रहणं कर्तव्यम् वार्तिकानुसारेण समाहारे इति स्वीकृतं भवति। अनुवृत्ति-सहित-सूत्रम्— द्विगुः समाहारः एकवचनम्।
अष्टाध्यायां द्विगुरेकवचनम्'(२.४.१) ' इति सूत्रात् आरभ्य विभाषा संमीपे (२.४.१६) ' इति सूत्रपर्यन्तं यत् प्रकरणम् अस्ति तत् एकवद्भावप्रकरणम् इति उच्यते। स नपुंसकम् (२.४.१७) ' इति सूत्रे तद्(सः) शब्दद्वारा पूर्वं षोडशसूत्रेषु यः एकवद्भावः आसीत् तस्य ग्रहणं भवति अस्मिन् सूत्रे अपि।
स नपुंसकम् (२.४.१७) = समाहारे द्विगुः द्वन्द्वश्च नपुंसकं स्यात्। स प्रथामान्तं, नपुंसकं प्रथमान्तम्। अस्मिन् एकवद्भावप्रकरणे समाहारद्विगुः, समासहारद्वन्द्वः च, अनयोः एकवद्भावं कृत्वा नपुंसकलिङ्गे भवति। स प्रथमान्तं, नपुंसकं प्रथमान्तम्। सः पदस्य द्वारा द्विगुरेकवचनम् (२.४.१) इत्यस्मात् सूत्रात् द्विगुः, द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (२.४.२) इत्यस्मात् द्वन्द्वः, इत्यनयोः परामर्शः अस्ति। अनुवृत्ति-सहित-सूत्रं— (द्विगुः द्वन्द्वश्च) स नपुंसकम्।
द्विगुसमासस्य विषये सूत्रद्वयं वर्तते –तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) अपि च संख्यापूर्वो द्विगुः (२.१.५२) इति।
इदानीं द्विगुसमासस्य प्रभेदान् परिशीलयामः । द्विगुसमासः अपि तत्पुरुषसमासस्य एव एकः प्रकारः अस्ति। द्विगुसमासः त्रिधा भवति – i) तद्धितार्थद्विगुः ii) उत्तरपदपरद्विगुः, iii) समाहारद्विगुः चेति।
- तद्धितार्थविषये, उत्तरपदे परे, समाहारे (समूहार्थे) च दिग्वाचिनः शब्दाः, सङ्ख्यावाचकः शब्दः च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति । तद्धिप्रत्ययस्य अनेके अर्थाः सन्ति तेषु यः कोऽपि अर्थः भवतु, तस्मिन् अर्थे तद्धितप्रत्ययः विधीयते चेत् तद्धितार्थः इति उच्यते।
तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) = तद्धितार्थे विषये, उत्तरपदे च परे, समाहारे च, दिग्वाचिनः शब्दाः, सङ्ख्यावाचिनः शब्दाः च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति । तद्धितस्य अर्थः तद्धितार्थः, उत्तरं च तत्पदम् उत्तरपदम्। तद्धितार्थश्च उत्तरपदञ्च समाहारश्च तेषां समाहारद्वन्द्वस्तद्धितार्थोत्तरपदसमाहारम्, तस्मिन् तद्धितार्थोत्तर्पदसमाहारे। तद्धितार्थोत्तर्पदसमाहारे सप्तम्यन्तं च अव्ययपदं, द्विपदमिदं सूत्रम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। दिक्संख्ये संज्ञायाम् (२.१.५०) इत्यस्मात् सूत्रात् दिसंख्ये इत्यस्य अनुवृत्तिः। पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः। समानाधिकरणेन इत्यस्य अधिकारः द्वितीयाध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् अस्ति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । विभाषा (२.१.११) इत्यस्य अधिकारः। अनुवृत्ति-सहित-सूत्रम्— तद्धितार्थोत्तरपदसमाहारे दिक्संख्ये सुपः समानाधिकरणेन सुपा सह विभाषा तत्परुषाः समासाः च ।
अस्मिन् सूत्रे तद्धितार्थे इति पदं विषयसप्तमी अस्ति, उत्तरपदे इति पदं परसप्तमी अस्ति। समाहारे इति पदं गम्यमानार्थे सप्तमी अस्ति।विषयभेदेन सप्तमी विभक्तिः भिन्नान् भिन्नान् अर्थान् गृह्णाति।
इदं सूत्रं- अ) तद्धितप्रत्ययस्य विषये समासं करोति, आ) उत्तरपदे परे पूर्वं विद्यमानयोः पदयोः समासं करोति; इ) समूहार्थे अपि समासं करोति।एतेन सूत्रेण तद्धितार्थतत्पुरुषसमासः, उत्तरपदसमासः एवञ्च समाहारतत्पुरुषसमासः च भवति।
तद्धितार्थविषये द्वौ प्रकरकौ समासौ विधीयेते-
a) तद्धितप्रत्ययस्य अर्थे प्रतियमाने च
b) समासानन्तरं तद्धितप्रत्ययस्य उत्पत्तिः यदा भवति तदा अपि।
दिशावाचिपदं च संख्यावाचिपदं, तयोः पदयोः संख्यावाचकसमासस्य विषये त्रीणि उदाहरणानि प्राप्यन्ते। परन्तु दिग्वाचक-शब्दस्य विषये द्वे उदाहरणे प्राप्येते, यतो हि दिग्वाचकस्य समाहारार्थे समासः न भवति।एतदनुसारेण पञ्च उदाहरणानि सन्ति –
i) तद्धितार्थेविषये दिक्समासः – पौर्वशालः
ii)उत्तरपदस्य परे दिक्समासः – पूर्वशालाप्रियः
iii) तद्धितार्थविषये संख्यातत्पुरुषः – षाण्मातुरः
iv)उत्तरपदस्य परे संख्यातत्पुरुषः – पञ्चगवधनः
v)समाहारार्थे संख्यातत्पुरुषः – पञ्चगवम्।
अस्यां प्रक्रियायां समस्या उत्पद्यते यत् आदौ तद्धितप्रत्ययः क्रियते वा नो चेत् द्विगुसमासः क्रियते वा इति? यदि तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण आदौ समासः क्रियते तदा प्रातिपदिकसंज्ञां कृत्वा तदानन्तरं तद्धितप्रत्ययः विधीयते। एतेन क्रमेण किं भवति चेत् समासः न विधीयते यावत् पर्यन्तं तद्धितप्रत्ययः न योजितः भवति। एतादृशेन क्रमेण इतरेतराश्रयदोषः भवति। एतस्य वारणार्थं वैयाकरणैः किं उक्तम् इति चेत् समासविधायकसूत्रे तद्धितार्थे इति पदस्य विषयसप्तमीं स्वीकृत्य तद्धितार्थविषयस्य उपस्थितौ आदौ समासः क्रियते तदनन्तरं तद्धितप्रत्ययः क्रियते।
i)अधुना तद्धितार्थेविषये दिक्समासस्य प्रक्रियां परिशीलयामः
पौर्वस्यां शालायां भवः = पौर्वशालः (पूर्वस्यां दिशि शाला अस्ति)
अलौकिकविग्रहवाक्यमं → पूर्वा+ ङि + शाला + ङि →समाससंज्ञा भवति प्राककडारात्समासः (२.१.३) इति सूत्रेण। पुनः अत्र तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति। तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण पूर्वा इति दिग्वाचकं सुबन्तं पदं तद्धितार्थस्य विषये समर्थेन शाला इति सुबन्तेन सह समस्यते।
पूर्वा+ ङि+शाला + ङि → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण।
पूर्वा+ ङि+शाला + ङि →' इदानीं ' सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन।
पूर्वा+ ङि+शाला + ङि →इत्यस्मिन् ङि, ङि इत्यनयोः लुक् → पूर्वा + शाला→ सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'पूर्वा' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |
पूर्वा+शाला→ अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण प्रथमया विभाक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति। अत्र समासविधायकसूत्रम् अस्ति तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) । अस्मिन् सूत्रे दिक्संख्ये इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति। अधुना उपसर्जनं पूर्वम् (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति। अत्र पूर्वा इति पदं दिगवाचि पदं अतः तस्य उपसर्जन-संज्ञा भवति, अनन्तरं तस्य पूर्वनिपातः भवति।
पूर्वा+शाला → स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (६.३.३४) इति सूत्रेण पूर्वस्त्रिलिङ्गपदस्य पुंवद्भावः भवति।पूर्वा इति पदं स्त्रिलिङ्गे अस्ति अपि च भाषित्पुंस्कं पदम् अस्ति, अतः तस्य पुंवद्भावं कृत्वा → पूर्व+शाला इति भवति। अत्र एकं वार्तिकम् अपि अस्ति येन पुंवद्भावं कर्तुं शक्नुमः ।सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति वार्तिकेन अपि एत्तदेव सूचयति यत् पूर्वं विद्यमानस्य सर्वनाम-स्त्रीलिङ्गपदस्य पुंवद्भावः भवति इति।। पूर्वशाला + ञ → दिक्पूर्वपदादसंज्ञायां ञः ( ४.२.१०७) इति सूत्रेण दिक्पूर्वपदात् प्रातिपदिकात् असंज्ञाविषयात् ञः पत्ययो भवति । अत्र चुटू ( १.३.७) इति सूत्रेण ञकारस्य इत्संज्ञा भवति। तद्धितेष्वचामादेः (७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति → आदि वृद्धिः भूत्वा पौर्व+शाला + अ इति भवति।
पौर्व+शाला + अ→ यस्येति च (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति → पौर्व+शाल् + अ → पौर्व+शाल → सुप् प्रत्ययस्य योजनान्तरं → पौर्वशालः इति समस्तपदं निष्पन्नं भवति।
तद्धितेष्वचामादेः (७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति। तत्पश्चात् किति च (७.२.११८) इत्यनेन कित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति । आहत्य तद्धितप्रक्रियायां ञित्, णित्, कित् प्रत्ययः परः अस्ति चेत् आदिमस्य अच-वर्णस्य वृद्धिः भवति। तदनन्तरं यस्येति च (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति। ओर्गुणः ( ६.४.१४६) इत्यनेन उवर्णान्तस्य भसंज्ञकस्य अङ्गस्य तद्धितप्रत्यये परे गुणादेशः भवति । समान्यतया एतादृशी प्रक्रिया भवति तद्धितप्रकरणे।
एवमेव
अपरस्यां शालायां भवः = आपरशालः इति समस्तपदमपि भवति। एतस्य प्रक्रिया चिन्तनीया।
सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः इति वार्तिकं वदति यत् सर्वनामसंज्ञकशब्दानां वृत्तिमात्रेण, अर्थात् समासवृत्तिः, तद्धितवृत्तिः इत्यादिषु वृत्तिषु पूर्वपदस्य पुंवद्भावः भवति। यदि द्वे अथवा द्व्यधिकानि स्त्रीलिङ्पदानि अथवा नपुंसकलिङ्गपदानि सन्ति चेत् वृत्तौ तदा पूर्वपदे विद्यमानस्य सर्वनामशब्दस्य पुंवद्भावः भवति।
यचि भम् (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— स्वादिषु असर्वनामस्थाने यचि भम् |
यस्येति च (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति । इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य। यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्। भस्य (६.४.१२९) इत्यस्य अधिकारः । ढे लोपोऽकद्र्वाः ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः ।अङ्गस्य (६.४.१) इत्यस्य अधिकारः । नस्तद्धिते (६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः। अनुवृत्ति-सहितसूत्रम्— भस्य अङ्गस्य यस्यच लोपः ईति तद्धिते ।
ii) अधुना उत्तरपदे परे दिक्समासस्य प्रक्रियां परिशीलयामः -
पूर्वशाला प्रियः यस्य सः = पूर्वशालाप्रियः इति समस्तपदस्य प्रक्रिया प्रदर्श्यते॥ अस्मिन् समस्तपदे त्रीणि पदानि सन्ति – पूर्वा, शाला, प्रिया चेति। आदौ बहुव्रीहिसमासः भवति- पूर्वा शाला प्रिया यस्य सः इति लौकिकविग्रहः भवति। ' आदौ पूर्वा+शाला → अत्र कर्मधारयसमासः भवति पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' (२.१.४९) इत्यनेन । विग्रहः भवति पूर्वा च शाला च → पूर्वशाला इति समस्तपदं निष्पन्नं भवति। तदनन्तरं तृतीयं पदं प्रिय इति पदं योजयामः। इदानीं बहुव्रीहिसमासः भवति। इदानीं तत्पुरुषगर्भ-बहुव्रीहिसमासः भवति।
पूर्वा+ सु+शाला+सु, प्रिया+सु →' अलौकिकविग्रहवाक्ये त्रयाणां पदानां बहुव्रीहिसमासं कृत्वा प्रिया इति शब्दः उत्तरपदे अस्ति। पूर्वस्मिन् द्वे पदे पूर्वा+ शाला इत्यनयोः तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण तत्पुरुषसमासः भवति। इदानीं ' सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन।
पूर्वा+ शाला+ प्रिया → स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु (६.३.३४) इति सूत्रेण पूर्वस्त्रिलिङ्गपदस्य पुंवद्भावः भवति।पूर्वा इति पदं स्त्रिलिङ्गे अस्ति अपि च भाषित्पुंस्कं पदम् अस्ति, अतः तस्य पुंवद्भावं कृत्वा → पूर्व+शाला+ प्रिया इति भवति।।
पूर्वशालाप्रिया → एकविभक्ति चापूर्वनिपाते (१.२.४४) इति सूत्रेण विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति। अत्र प्रिया इति पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति यतोहि अत्र पूर्वनिपातात् भिन्नं कार्यं भवति वति गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण। अर्थात् अत्र उपसर्जनसंज्ञकस्य स्त्रीलिङ्गपदस्य प्रातिपदिकं ह्रस्वं भवति। → इदानीं गोस्त्रियोरुपसर्जनस्य (१.२.४८) इति सूत्रेण उपसर्जनसंज्ञकस्य स्त्रीलिङ्गपदस्य प्रातिपदिकं ह्रस्वं भवति → पूर्वशालाप्रिय इति भवति → सुबुत्पत्तिं कृत्वा →पूर्वशालाप्रियः इति समस्तपदं निष्पन्नं भवति।
स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु ( ६.३.३४) = भाषितपुंस्कशब्दात् यदा ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंशब्दस्यैव रूपं भवति परन्तु समानाधिकरणे पूरणार्थकप्रत्ययान्तः अथवा प्रियादिः स्त्रीलिङ्गशब्दे, उत्तरपदे परे न भवति। अर्थात् यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पुंलिङ्गवत् भवति। परन्तु उत्तरपदे पूरणीसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति। पुंसि इति पुंवत्। भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः। तस्मात् भाषितपुंस्काद्। न ऊङ् ऊङोऽभावः अनूङ्। भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य। निपातनात् पञ्चमी इत्यस्य अलुक् अपि षष्ठी इत्यस्य लुक् भवति। अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम्। स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरने सप्तम्यन्तं, स्त्रियाः सप्तम्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम्। अलुगुत्तरपदे ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति। अनुवृत्ति-सहित-सूत्रम्— स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु ।
एकविभक्ति चापूर्वनिपाते (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति। एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः। पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः । न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः। एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम्। प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रम्— एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् ।
गोस्त्रियोरुपसर्जनस्य (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति। गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः। गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम्। ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति। अनुवृत्ति-सहित-सूत्रम्— गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।
तद्धितेष्वचामादेः (७.२.११७) = णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति।
iii) समाहारार्थे दिशावाचिपदस्य किमपि उदाहरणं नास्ति यतः दिशानां समाहारः न भवति।
iv) संख्यायास्तद्धितार्थे- अधुना संख्यावाचकस्य तद्धितार्थे एकम् उदाहरणं पश्याम: -
षण्णां मातृणां अपत्यं = षाण्मातुरः ।
अलौकिकविग्रहवाक्यमं → षष्+ आम् + मातृ +आम् →समाससंज्ञा भवति प्राककडारात्समासः (२.१.३) इति सूत्रेण। पुनः अत्र तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति। तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण पूर्वा इति दिग्वाचकं सुबन्तं पदं तद्धितार्थस्य विषये समर्थेन शाला इति सुबन्तेन सह समस्यते।
षष्+ आम् + मातृ +आम् → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण।
षष्+ आम् + मातृ +आम् →' इदानीं ' सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन।
षष्+ आम् + मातृ +आम् →इत्यस्मिन् आम्, आम् इत्यनयोः लुक् → षष् +मातृ→ सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'षष्' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव |
षष् +मातृ → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण प्रथमया विभाक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति। अत्र समासविधायकसूत्रम् अस्ति तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) । अस्मिन् सूत्रे दिक्संख्ये इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति। अधुना उपसर्जनं पूर्वम् (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति। अत्र षष् इति पदं संख्यावाचि पदं अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति, अनन्तरं तस्य पूर्वनिपातः भवति। संख्यापूर्वो द्विगुः (२.१.५२) इति सूत्रेण तद्धितार्थौत्तरपदसमाहारे च (२.१.५१) इत्यत्र यः सङ्ख्यापूर्वः समासः सः द्विगुसंज्ञो भवति। संख्यावाचकं पदं षष् इति पदं पूर्वम् अस्ति इति कारणेन षष्+मातृ - द्विगुसमासः अपि भवति।
षष् +मातृ → मातुरुत् संख्यासम्भद्रपूर्वायाः (४.१.१५) इति सूत्रेण अत्र षष् इत्यस्मात् मातृ इति शब्दः आगतः अतः अत्र अण् इति तद्धितप्रत्ययः विधीयते, अपि मातृ इति शब्दस्य उकारादेशः भवति → षष् +मातु+अण्→ अत्र अण् इति तद्धितप्रत्ययः विधीयते, अपि मातृ इति शब्दस्य उकारादेशः। अण् इति प्रत्यये णकारस्य इत्संज्ञा भवति, अकारः अवशिष्यते → षष् +मातु+अ → षष् +मातु+अ→ उरण रपरः (१.१.५१) इति सूत्रेण अण् इति आदेशः सदा रपरः स्यात् → षष् +मातुर्+अ → षष् +मातुर्+अ → तद्धितेष्वचामादेः (७.२.११७) इति सूत्रेण णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति → आदि वृद्धिः भूत्वा षाष्+मातुर् + अ इति भवति।
षाष्मातुर→ झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते जश्त्वम् → षाड्मातुरः → यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) इति सूत्रेण पदान्तस्य यरः अनुनासिको वा स्यात् अनुनासिके परे → षाण्मातुर → सुप् प्रत्ययस्य योजनान्तरं → षाण्मातुरः इति द्विगुसमस्तपदं निष्पन्नं भवति।
एमेव द्वयोः मात्रोः अपत्यम् = द्वैमातुरः इति द्विगुसमस्तपदं निष्पन्नं भवति।
मातुरुत् संख्यासम्भद्रपूर्वायाः (४.१.१५) = मातृशब्दात् सङ्ख्यापूर्वात् संपूर्वात् भद्रपूर्वाच् च अपत्ये अण् प्रत्ययो भवति, उकारश्च अन्तादेशः। अर्थात् यः मातृ-शब्दः संख्यावाचीशब्दात् “सम्" शब्दात् / "भद्र" शब्दात् परः आगच्छति, तस्मात् "तस्य अपत्यम्" अस्मिन् अर्थे अण्-प्रत्ययः भवति, तथा "मातृ" शब्दस्य उकारादेशः अपि भवति ।
v)अधुना समाहारार्थे संख्यातत्पुरुषस्य प्रक्रियां परिशीलयामः -
[[|]] संख्यापूर्वो द्विगुः (२.१.५२) = तद्धितार्थौत्तरपदसमाहारे च (२.१.५१) इत्यत्र यः सङ्ख्यापूर्वः समासः सः द्विगुसंज्ञो भवति। अतः तद्धितार्थे, उत्तरपदे परे, समाहारे च यदि समासः भवति पूर्वपदे सङ्ख्यावचकं पदं भवति तर्हि समासस्य द्विगुसंज्ञा भवति। कर्मधारयसंज्ञायाः एकः भेदः द्विगुदसमासः । सङ्ख्या पूर्वो यस्य सः सङ्ख्यापूर्वः। सङ्ख्यापूर्वः प्रथमान्तं, द्विगुः प्रथमान्तं, द्विपदमिदं सूत्रम्। सुबामन्त्रिते पराङ्गवत् स्वरे (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति। प्राक्कडारात्समासः (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः। सह सुपा (२.१.४) इत्यस्य अधिकारः। तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (२.१.४९) इत्यस्मात् सूत्रात् समानाधिकरणेन इत्यस्य अनुवृत्तिः। समानाधिकरणेन इत्यस्य अधिकारः द्वितीयाध्यायस्य प्रथमपादस्य अन्तपर्यन्तम् अस्ति। विभाषा (२.१.११) इत्यस्य अधिकारः। तद्धितार्थौत्तरपदसमाहारे च (२.१.५१) इत्यस्यमात् सूत्रात् तद्धितार्थोत्तरपदसमाहारे इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहित-सूत्रम्— तद्धितार्थोत्तरपदसमाहारे संख्यापूर्वो सुपः समानाधिकरणेन सुपा सह विभाषा समासः द्विगुः ।
यथा –
पञ्चानां गवां समाहारः = पञ्चगवम्।
अलौकिकविग्रहवाक्यमं → पञ्चन्+ आम् + गो +आम् →समाससंज्ञा भवति प्राककडारात्समासः (२.१.३) इति सूत्रेण। पुनः अत्र तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति। तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण पूर्वा इति दिग्वाचकं सुबन्तं पदं तद्धितार्थस्य विषये समर्थेन शाला इति सुबन्तेन सह समस्यते।
पञ्चन्+ आम् + गो +आम् → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण।
पञ्चन्+ आम् + गो +आम् →' इदानीं ' सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन।
पञ्चन्+ आम् + गो +आम् →इत्यस्मिन् आम्, आम् इत्यनयोः लुक् → पञ्चन् +गो→ सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'पञ्च' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अधुना न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः, अतः पञ्चन् इति प्रातिपदिकान्तस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति → पञ्च+गो इति भवति।
पञ्च +गो → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण प्रथमया विभाक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति। अत्र समासविधायकसूत्रम् अस्ति तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) । अस्मिन् सूत्रे दिक्संख्ये इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति। अधुना उपसर्जनं पूर्वम् (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति। अत्र षष् इति पदं संख्यावाचि पदं अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति, अनन्तरं तस्य पूर्वनिपातः भवति। संख्यापूर्वो द्विगुः (२.१.५२) इति सूत्रेण तद्धितार्थौत्तरपदसमाहारे च (२.१.५१) इत्यत्र यः सङ्ख्यापूर्वः समासः सः द्विगुसंज्ञो भवति। संख्यावाचकं पदं पञ्च इति पदं पूर्वम् अस्ति इति कारणेन पञ्च +गो - द्विगुसमासः अपि भवति।
पञ्च+गो → गोरतद्धितलुकि (५.४.९२) इति सूत्रेण तत्पुरुषसमासः तद्धितलुग्भिन्नः अस्ति चेत् अपि च "गो" इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । अतः टच् इति समासान्तप्रत्ययः विधीयते टच् → पञ्च+गो+टच् → टच् इति प्रत्यये अकारः एव अवशिष्यते → पञ्च+गो+अ ।
पञ्च+गो+अ → एचोऽयवायावः इत्यनेन गो इत्यस्य अन्ते यः ओकारः अस्ति तस्य स्थाने अवादेशः भवति अचि परे → पञ्च+गव्+अ → पञ्च+गव→ पञ्चगव इति प्रातिपदिकं निष्पन्नं भवति।
पञ्चगव→ इदानीं पञ्चगव इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते→ पञ्चगव+सु
पञ्चगव+सु→स नपुंसकम् (२.४.१७) इति सूत्रेण समाहारे द्विगुः नपुंसकं स्यात्। अतः पञ्चगव इति नपुंसकलिङ्गे भवति। तदनन्तरं द्विगुरेकवचनम् (२.४.१) इति सूत्रेण द्विगुः समासः एकवचनं भवति। अतोऽम् (७.१.२४) इत्यनेन अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ/अम्-प्रत्यययोः अम्-आदेशः भवति → पञ्चगव+अम्→ अमि पूर्वः (६.१.१०७) इत्यनेन अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकम् पूर्वरूपम् भवति , अतः अत्र पूर्वरूपादेशः भवति→ पञ्चगवम् इति द्विगुसमस्तपदं निष्पन्नम्।
अधुना पञ्च+गो इत्यस्य अनन्तरम् उत्तरपदे धन इति शब्दः अस्ति चेत् किं भवति इति अग्रे उच्यते।
पञ्चगवधनः
अलौकिकविग्रहवाक्यं → पञ्चन्+ जस् + गो +जस् →समाससंज्ञा भवति प्राककडारात्समासः (२.१.३) इति सूत्रेण। अलौकिकविग्रहवाक्ये अनेकमन्यपदार्थे (२.२.२४) इत्यनेन बहुव्रीहिसमासः भवति। तदनन्तरं पञ्चन्+गो→ अत्र तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण पञ्चन् इति सङ्ख्यावाचकं सुबन्तं पदं उत्तरपदे परे समर्थेन धनम् इति सुबन्तेन सह समस्यते, तत्पुरुषसमासः च भवति। संख्यापूर्वो द्विगुः (२.१.५२) इति सूत्रेण तद्धितार्थौत्तरपदसमाहारे च (२.१.५१) इत्यत्र यः सङ्ख्यापूर्वः समासः सः द्विगुसंज्ञो भवति। अतः अत्र तत्पुरुषसमासः द्विगुसंज्ञकः भवति यतोहि पञ्चन् इति सङ्ख्यावाचकं पदं पूर्वम् अस्ति अपि च समासः तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण जातः।
'तद्धितार्थौत्तरपदसमाहारेच(२.१.५१) इति सूत्रं महाविभाषा इत्यस्य अन्तर्गते अस्ति अतः समासः विकल्पेन भवति स्म विभाषा (२.१.११) इति सूत्रेण। परन्तु द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् इति वार्तिकेन वदति उत्तरपदे परे द्वन्द्वसमासः अपि च तत्पुरुषसमासः नित्यं भवति। अत्र धन+सु इति उत्तरपदे परे अनेन वार्तिकेन समासः नित्यः भवति। ' अग्रे यथासामान्यं समासप्रक्रिया भवति।
पञ्चन्+जस्+गो +जस्+धन +सु → समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण।
पञ्चन्+जस्+गो +जस्+धन +सु →' इदानीं ' सुप्-प्रत्ययस्य लुक् (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन।
पञ्चन्+जस्+गो +जस्+धन +सु →इत्यस्मिन् जस्, जस्, सु इत्येतेषां लुक् → पञ्चन्+गो+सु→ सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'पञ्चन्' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अधुना न लोपः प्रातिपदिकान्तस्य (८.२.७) इत्यनेन प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः, अतः पञ्चन् इति प्रातिपदिकान्तस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति → पञ्च+गो+धन इति भवति।
पञ्च+गो+धन → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रण प्रथमया विभाक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति। अत्र समासविधायकसूत्रम् अस्ति तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) । अस्मिन् सूत्रे दिक्संख्ये इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति। अधुना उपसर्जनं पूर्वम् (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति। अत्र पञ्च इति पदं संख्यावाचि पदं अस्ति, अतः तस्य उपसर्जन-संज्ञा भवति, अनन्तरं तस्य पूर्वनिपातः भवति। संख्यापूर्वो द्विगुः (२.१.५२) इति सूत्रेण तद्धितार्थौत्तरपदसमाहारे च (२.१.५१) इत्यत्र यः सङ्ख्यापूर्वः समासः सः द्विगुसंज्ञो भवति। संख्यावाचकं पदं पञ्च इति पदं पूर्वम् अस्ति इति कारणेन पञ्च+गो - द्विगुसमासः अपि भवति।
पञ्च+गो+धन → गोरतद्धितलुकि (५.४.९२) इति सूत्रेण तत्पुरुषसमासः तद्धितलुग्भिन्नः अस्ति चेत् अपि च "गो" इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । अतः टच् इति समासान्तप्रत्ययः विधीयते टच् → पञ्च+गो+टच्+ धन → टच् इति प्रत्यये अकारः एव अवशिष्यते → पञ्च+गो+अ+ धन ।
पञ्च+गो+अ+ धन → एचोऽयवायावः इत्यनेन गो इत्यस्य अन्ते यः ओकारः अस्ति तस्य स्थाने अवादेशः भवति अचि परे → पञ्च+गव्+अ+ धन → पञ्च+गव+ धन→ पञ्चगवधन इति प्रातिपदिकं निष्पन्नं भवति। यद्यपि धन इति शब्दः नपुंसकलिङ्गे अस्ति तथापि बहुव्रीहिसमासः इति कारणेन अन्यपदार्थस्य प्राधान्यम् अस्ति इति कृत्वा अत्र विग्रहः भवति पञ्चगवधनं यस्य सः, पञ्चगवधनः इति समस्तपदं पुंलिङ्गे निष्पन्नं भवति। पञ्चगवधनः इति समस्तपदं विशेषणं भवति कस्यचित् पुरुषस्य अतः पुंलिङ्गे भवति। पञ्चगवधनः इति समस्तपदं सिद्धं भवति।
न लोपः प्रातिपदिकान्तस्य (८.२.७) = प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तम, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः |
गोरतद्धितलुकि (५.४.९२) = यः तत्पुरुषसमासः तद्धितलुग्भिन्नः अस्ति, यस्मिन् "गो" इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे |
इत्यनेन द्विगुसमासः इति विषयः समाप्तः।
पञ्च गावो धनं यस्य इति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पेन प्राप्ते - अर्थात् पञ्च गावो धनं यस्य इति त्रयाणां पदानां बहुव्रीहिसमासः भूत्वा द्वयोः पदयोः प्रकृतसूत्रेण विकल्पेन तत्पुरुषसमासः पार्प्त्यानन्तरं द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् इत्यनेन वार्तिकेन उत्तरपदे परे द्वन्द्वसमासः अपि च तत्पुरुषसमासः नित्यं भवति। यथा पञ्चगवधनः इति समस्तपदे विद्यमानानि त्रीणि पदानि आदौ अनेकमन्यपदार्थे (२.२.२४) इति सूत्रेण त्रिपद-बहुव्रीहिसमासः भूत्वा अनन्तरं तस्मिन् अन्तर्भूतयोः आदिमयोः द्वयोः पदयोः तद्धितार्थोत्तरपदसमाहारे च (२.१.५१) इति सूत्रेण नित्यरूपेण तत्पुरुषसमासः भवति। सामान्यतया महाविभाषा इत्यनेन तत्पुरुषसमासः विकल्पेन भवति , अर्थात् विभाषा (२.१.११) इति सूत्रेण। परन्तु अनेन वार्तिकेन तत्पुरुषसमासः नित्यं भवति न तु विकल्पेन।सारांशः यत् उत्तरपदे परे द्वन्द्वसमासः अपि च तत्पुरुषसमासः नित्यं भवति। अनेन वार्तिकेन एव पूर्वशालाप्रियः इति समासे यः तत्पुरुषसमासः सः नित्यं भवति। द्वन्द्वसमासस्य उदाहरणं तु वाक्त्वचप्रिय इति, विग्रहः वाक् च त्वक् च प्रिये यस्य। अत्र आदौ बहुव्रीहिः भवति तदनन्तरं द्वन्द्वसमासं कृत्वा द्वन्द्वाच्चुदषहान्तात् समाहारे ( ५.४.१०६) इति सूत्रेण टच् प्रत्ययः विधीयते अनेन वाक्त्वचप्रिय इति भवति।
द्वन्द्वाच्चुदषहान्तात् समाहारे (५.४.१०६) इति सूत्रं वदति समाहारद्वन्द्वसमासस्य अन्ते चवर्गीयवर्णः, दकारः, षकारः, हकारः च विद्यते चेत्, तस्मात् "टच्" इति समासान्तप्रत्ययः भवति ।
इति द्विगुसमासः समाप्तः।
Vidhya March 2020