05A- अदादिगणे अजन्तधातवः
6---sArvadhAtukaprakaraNam-anadantam-aGgam/05A---adAdigaNe-ajantadhAtavaH
अदादिगणे ७२ धातवः सन्ति | यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः अस्ति | तदा अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन शपः लुक् (लोपः) भवति | स्थितस्य शप्-प्रत्ययस्य लुक्, अतः व्यावहारिकत्वेन अदादिगणे कोऽपि विकरणप्रत्ययः नास्ति |
अदिप्रभृतिभ्यः शपः (२.४.७२) = अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्-प्रत्ययस्य लुक् (लोपः) भवति | अदिः प्रभृतिः (आदिः) येषां ते अदिप्रभृतयः बहुव्रीहिः, तेभ्यः अदिप्रभृतिभ्यः | अदिप्रभृतिभ्यः पञ्चम्यन्तं, शपः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (२.४.५८) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अदिप्रभृतिभ्यः शपः लुक् |
१. अत्र प्रश्नः उदेति यत् लोप-लुक् इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अपगमनम् | लोपः इत्युक्ते प्रत्ययः गतः, परन्तु अनुपस्थितौ अपि कार्यं कर्तुम् अर्हति | एतदर्थं सूत्रम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२); अनेन प्रत्ययस्य लोपे सत्यपि लुप्तप्रत्ययस्य लक्षणम् अस्त्येव | "लक्षणम् अस्ति" इत्युक्ते लुप्त-प्रत्ययः यद्यपि न दृश्यते, परन्तु तस्य प्रभावम् अनुसृत्य यत् किमपि कार्यं प्रसक्तम् अस्ति, तत् कार्यं भवति |
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात् | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन् प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम्, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम् |
तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | लुक् न तथा; प्रत्ययस्य लुक् भवति चेत् न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात् | तद्विधायकं सूत्रम् अस्ति न लुमताऽङ्गस्य (१.१.६३) |
न लुमताऽङ्गस्य (१.१.६३) = यस्मिन् शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात् | लुः अस्य अस्ति इति लुमान्, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |
अस्मिन् सूत्रे लुमता, लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् | इदं मतुप्-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान् | मतुप्-प्रत्ययस्य अर्थः अस्य अस्मिन् वा; यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा, सः बुद्धिमान् | तर्हि 'लु' अस्य अस्मिन् वा, सः लुमान् | व्याकरणे त्रयः लुमन्तः सन्ति— लुक्, श्लु, लुप् चेति | इदं सूत्रं वक्ति यत् येन अदर्शनं भवति, सः लुमान् अस्ति चेत्, तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम् | तर्हि अत्र सारांशः एवं यत् लुक् इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत्, यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः, तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति |
आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—
अदर्शनं लोपः (१.१.६०) = लोप-संज्ञया अदर्शनं विहितम् |
प्रत्ययस्य लुक्श्लुलुपः (१.१.६१) = लुक्, श्लु, लुप् इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम् |
प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) = प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् |
न लुमताऽङ्गस्य (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् |
अदादिगणे विकरणप्रत्ययः शप् आसीत्, अनन्तरं तस्य लुक् अभवत् | लुमता शपः अदर्शनं जातम्, अतः धात्वङ्गे शप्-निमित्तकम् अङ्गकार्यं नार्हम् |
अधुना नूतनबिन्दुः—यद्यपि शपः लुक् जातम् अतः शप्-निमित्तकम् अङ्गकार्यं निषिद्धं, परन्तु कुत्रचित् लुक्-निमित्तं विशिष्टकार्यं सञ्जायते | यत्र लुकः सङ्केतः सूत्रेषु भवति तत्र एतादृशं कार्यम् "अदादिगणे" भवति इति बोध्यम् | यथा— उतो वृद्धिर्लुकि हलि (७.३.८९) इति सूत्रं द्रक्ष्यामः | लुकः विषये, हलादि पिति उदन्ताङ्गस्य वृद्धिः (पित् परे अस्ति अतः गुणः भवति स्म, परन्तु गुणं प्रबाध्य वृद्धिः) | अस्मिन् सूत्रे 'लुक्' अस्ति, अतः अदादिगणे तस्य प्रसक्तिः | यथा, यु + ति → य् + औ + ति → यौति | अन्यत्र—यत्र शपः लोपः जातः किन्तु लुक् इत्यनेन न—तत्र अस्य सूत्रस्य प्रसक्तिः न भवति | तर्हि सारांशः अत्र यत् अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते, परन्तु विकरणप्रत्ययस्य यया रीत्या अदर्शनं कृतं, तया विशिष्टकार्यम् अपि भवति—यथा अत्र वृद्धिः |
२. अदादिगणे विकरणप्रत्ययः न दृश्यते अतः धातोः साक्षात् परे तिङ्प्रत्ययाः विहिताः भवन्ति | यथा पा + ति → पाति | प्रथमवारम् अस्माभिः एतादृशी गतिः अवलोकिता | एतावता धातुः कुत्रापि तिङ्प्रत्ययेन न प्रभावितः | भ्वादिगणे, दिवादिगणे, तुदादिगणे, स्वादिगणे, तनादिगणे, क्र्यादिगणे च धात्वङ्गे अङ्गकार्यस्य निमित्तं विकरणप्रत्ययः एव | परन्तु अदादौ न तथा | यथा इण्-धातुः, इ + ति → एति; इ + तः → इतः | सारांशः एवं यत् अदादौ धातोः अङ्गकार्यं साक्षात् तिङ्प्रत्ययेन | तिङ्प्रत्ययाः परिवर्तन्ते, अतः अङ्गकार्यमपि परिवर्तते |
३. वयं जानीमः यत् दश धातुगणाः विभक्ताः तिङ्प्रत्यय-निमित्तकस्य अङ्गस्य अन्तिमवर्णस्य अनुसारम् | येषु धातुगणेषु अङ्गम् अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम् अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते | तर्हि अत्र प्रश्नः उदेति यत् अदादिगणः कस्मिन् गणसमूहे अस्ति अपि च किमर्थम् ? सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति; तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः | यथा भ्वादौ शप् इति विकरणप्रत्ययः; भू-धातोः भव इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः ह्रस्व-अकारः (शपः एव अन्तिमवर्णः) | अतः अङ्गम् अदन्तम् | स्वादौ श्नु इति विकरणप्रत्ययः; चि-धातोः चिनु इत्यङ्गम्; अङ्गस्य अन्तिमवर्णः उकारः (श्नोः एव अन्तिमवर्णः) | अतः अङ्गम् अनदन्तम् | अधुना अदादौ कथं भवति ? विकरणप्रत्ययस्तु नास्त्येव; तर्हि केन आधारेण अङ्गं ज्ञायते ? अङ्गम् अदन्तं वा अनदन्तं वा इत्यत्र कथं निर्णीयते ? उत्तरं तु अस्माभिः प्रायः बुद्धमेव | अदादौ धातुरेव अङ्गम् अतः धातोः यः अन्तिमवर्णः, स एव अङ्गस्यापि | अदादौ अस्-धातुः सकारान्तः (अतः अङ्गमपि सकारान्तं), पा-धातुः आकारान्तः (अतः अङ्गमपि आकारान्तं), यु-धातुः उकारान्तः (अतः अङ्गमपि उकारान्तम्) | अदादौ यथा धातुः तथा अङ्गम् | अपि च अदादौ अकारान्तधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि | अत एव अदादिगणः द्वितीयगणसमूहे वर्तते |
४. तिङन्तपदानां सिद्ध्यर्थम् अदादिगणः वर्गद्वये विभक्तः—अजन्तधातवः हलन्तधातवः च | अधुना अजन्तधातूनां तिङन्तरूपाणि साधयाम | अदादिगणे हलन्तधातूनां कृते प्रथमतया हल्-सन्धिः पठनीयः | साधारणभाषाज्ञानार्थं यः हल्-सन्धिः, सः तु न; पदस्य व्युत्पत्त्यर्थं हल्-सन्धिः | अस्माकं पाठे अपरेषु गणेषु हलन्तधातवः आसन्, परन्तु एतावता धातु-तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः भवति स्म, अपि च विकरणप्रत्ययाः सर्वे अजन्ताः सन्ति अतः अङ्ग-तिङ्प्रत्यययोः संयोजने हल्-हल् इत्यनयोः मेलनं न जातम् | हल्-सन्धेः च अवसरः न जातः | दिवादिगणे (य), स्वादिगणे (नु), क्र्यादिगणे (ना) च विकरणप्रत्ययः स्वयं हलादिः अतः हलन्तधातु-हलादिविकरणयोः संयोजनं तु भवति, परन्तु तत्र केवलं मेलनं भवति | इत्युक्ते तत्र हल्-हल् इत्यनयोः संयोजने विकारः न भवति अतः केवलं मेलनं न तु सन्धिः |
अदादिगणे यथा वच्-धातुः अस्ति, तत्र साक्षात् परे ति आयाति वच् + ति → वक्ति | अत्र चकारः ककारः जातः, विषयः च हल्-सन्धिः इति | जुहोत्यादिगणे रुधादिगणे चापि तादृशः हल्-सन्धेः विषयः आयाति, अतः प्रथमम् अदादिगणस्य अजन्तधातवः अस्माभिः करिष्यन्ते, तदा जुहोत्यादिगणस्य अजन्तधातवः | परं हल्-सन्धिः इति विषयः परिशीलनीयः | अनन्तरम् अदादिगणस्य, जुहोत्यादिगणस्य, रुधादिगणस्य च हलन्तधातवः अवलोकनीयाः | (रुधादिगणे अजन्तधातवः न सन्त्येव |)
पूर्वमेव अस्माभिः ज्ञातं यत् सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
कुत्रापि किमपि कार्यं नास्ति यतः शप्-विकरणप्रत्ययस्य लुक् भवति अतः शप् न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति |
२. तिङ्प्रत्यय-सिद्धिः
अदादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्प्रत्ययाः भवन्ति | धातुद्वयस्य (दरिद्रा, जागृ) कृते विशेषकार्यं वर्तते | अस्मिन् पाठे यत्र तयोः विवरणम् अस्ति, तत्रैव इदं कार्यं प्रदर्शयिष्यते | तौ द्वौ विहाय यत्र अङ्गम् अनदन्तं, तत्र यथा सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः तथा अत्रापि | अतः अदादिगणे सिद्ध-तिङ्प्रत्ययाः एते एव—
परस्मैपदम् आत्मनेपदम्
लट्-लकारः
ति तः अन्ति ते आते अते
सि थः थ से आथे ध्वे
मि वः मः ए वहे महे
लोट्-लकारः
तु, तात् ताम् अन्तु ताम् आताम् अताम्
हि, तात् तम् त स्व आथाम् ध्वम्
आनि आव आम ऐ आवहै आमहै
लङ्-लकारः
त् ताम् अन् त आताम् अत
स् तम् त थाः आथाम् ध्वम्
अम् व म इ वहि महि
विधिलिङ्-लकारः
यात् याताम् युः ईत ईयाताम् ईरन्
याः यातम् यात ईथाः ईयाथाम् ईध्वम्
याम् याव याम ईय ईवहि ईमहि
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
अत्र कार्यं वर्तते, यत्र प्राप्तिः अस्ति | अष्टप्रकारकाः अजन्तधातवः सन्ति (अदादिगणे षट्, यतः अकारान्तधातवः, ॠकारान्तधातवः च न सन्ति) |
1. आकारान्तधातवः (15 = या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा, दरिद्रा)
A. सामान्य-आकारान्तधातवः (14 = या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा, ला, दा, ख्या, प्रा, मा)
लङः शाकटायनस्यैव (३.४.१११) = आकारान्तात् धातोः लङि झेः जुस् आदेशः भवति शाकटायनस्य मतेन | शाकटायनः कश्चन वैयाकरणः आसीत्, पाणिनेः पूर्वम् | अनेन परस्मैपदे लङि प्रथमपुरुषबहुवचने विकल्पेन अन्, उः, इत्येतौ तिङ्-प्रत्ययौ भवतः | लङः षष्ठ्यन्तं, शाकटायनस्य षष्ठ्यन्तम्, एव अव्ययपदं, त्रिपदमिदं सूत्रम् | आतः (३.४.११०) इति सूत्रस्य अनुवृत्तिः, झेर्जुस् (३.४.१०८) इत्यस्मात् झेः, जुस् इत्यनयोः अनुवृत्तिः | धातोः (३.१.९१) इत्यस्य अधिकारः, पञ्चम्यन्तम् एकपदमिदं सूत्रम्; अत्र “आतः धातोः" अस्मिन् सूत्रे आयाति | अनुवृत्ति-सहितसूत्रम्— शाकटायनस्य एव (मते) लङः आतः धातोः झेः जुस् |
लङः शाकटायनस्यैव (३.४.१११) इत्यनेन जुस्-आदेशः कथं न भवति लोटि इत्यस्मिन् विषये महती चर्चा | केचन वदन्ति यत् विदो लटो वा (३.४.८३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः अनयोः सूत्रयोः येन लोटि अप्रसक्तेः अनुमतिः स्यात्; अन्ये वदन्ति यत् लङ्वत् इत्यस्मिन् वति-प्रत्ययः 'न नित्यः'; 'वतिपदघटितम् अनित्यम्' इति प्रसिद्धवाक्यम् | अत्र 'न नित्यः' इत्यस्य सारांशः एवं यत् लोटि लङः स्वभावः अध्यारोप्यते, किन्तु लक्ष्यम् अधिकृत्य— यत्र फलं नापेक्षते, तत्र प्रसक्तिः न भवति | अतः लङः शाकटायनस्यैव (३.४.१११) इति सूत्रेण कार्यं भवति लङि किन्तु लोटि न अपेक्षते, अतः 'लङ्वत्' इति तत्र न गच्छति |
उस्यपदान्तात् (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८७) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | इको यणचि (६.१.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम् |
अन्यत्र सन्धिः एव भवति |
यथा वा धातुः—
वा + अन्ति अकः सवर्णे दीर्घः → वान्ति | अवा + अन् → अवान् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
या, वा, भा, ष्णा, श्रा, द्रा, प्सा, पा, रा ला, दा, ख्या, प्रा, मा एतेषां धातूनां सार्वधातुलकारेषु तिङन्तरूपाणि अपि तथैव भवन्ति |
B. आत्मनेपदे गा धातुः भ्वादिगणे, परन्तु रूपाणि अदादिगणीयानि सन्ति |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
C. दरिद्रा धातुः
जक्षित्यादयः षट् (६.१.६) = जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | इति-शब्देन जक्ष्-धातोः परामर्शः | इति आदिः येषां ते इत्यादयः बहुव्रीहिः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तं, षट् प्रथमान्तं, त्रिपदमिदं सूत्रम् | उभे अभ्यस्तम् (६.१.५) इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जक्षित्यादयः षट् अभ्यस्तम् |
उभे अभ्यस्तम् (६.१.५) इति सूत्रेण यदा धातोः द्वित्वं भवति, तदा मिलित्वा द्वयोः भागयोः नाम 'अभ्यस्तं' भवति | जक्षित्यादयः षट् (६.१.६) इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभस्त-संज्ञा भवति |
एषां सप्तानां धातूनां तिङन्तसिद्ध्यर्थं चत्वारि कार्याणि—
१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखच्छगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
धेयं यत् अत्-आदेशस्य तकारः हलन्त्यम् (१.३.३) इति सूत्रेण इत्-संज्ञकः न, यतोहि अत् तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम् (१.३.३) बाधितम् |
अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |
२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
अनेन लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि आहत्य अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |
३) इद् दरिद्रस्य (६.४.११४) = दरिद्रा-धातोः आकारस्य स्थाने इ-आदेशो भवति, हलादौ किति ङिति सार्वधातुकप्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन दरिद्रा-धातोः अन्तिमवर्णस्य आकारस्य स्थाने इकारः | इत् प्रथमान्तं, दरिद्रस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | ई हल्यघोः (६.४.११३) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दरिद्रस्य अङ्गस्य इत् हलि क्ङिति सार्वधातुके |
यथा दरिद्रा + तः → दरिद्रि + तः → दरिद्रितः | दरिद्रा + वः → दरिद्रि + वः → दरिद्रिवः |
४) श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययस्य अभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | श्नसोरल्लोपः (६.४.१११) इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः लोपः क्ङिति सार्वधातुके |
श्नाभ्यस्तयोरातः (६.४.११२) इति सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलाद्यपित्सु परेषु ई हल्यघोः (६.४.११३) इत्यनेन आकारस्य लोपकार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशः विधीयते | तदा हलाद्यपित्सु ई हल्यघोः इत्यस्य बाधकं सूत्रम् इद् दरिद्रस्य (६.४.११४), येन आ-स्थाने इकारादिष्टः | आहत्य श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकारस्य लोपः केवलम् अजाद्यपित्सु भवति | अजाद्यपित्सु कार्यं भवति यथा दरिद्रा + अति → दरिद्र् + अति → दरिद्रति | दरिद्रा + अतु → दरिद्र् + अतु → दरिद्रतु |
अवशिष्ट-स्थलेषु दरिद्रा-धातोः तिङन्तरूपाणि वा-धातुवत् भवन्ति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
2. इकारान्तधातवः ईकारान्तधातवः च (7 धातवः— इण्, इक्, इङ्, वी, शीङ्, दीधीङ्, वेवीङ्)
A. इण् गतौ इति धातुः
१) हलादि पित्सु = गुणः | इ + ति → एति
२) अजादि पित्सु = गुणः, अयादेशः | इ + आनि → ए + आनि → अय् + आनि → अयानि
३) हलाद्यपित्सु = क्क्ङिति च, गुणनिषेधः | इ + तः → इतः
४) अजाद्यपित्सु = क्क्ङिति च, गुणनिषेधः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः अस्ति; अनेन इयङ्-आदेशः भवति स्म | परन्तु इदं सूत्रं प्रबाध्य इणो यण् इत्यनेन यण्-आदेशः | इ + अन्ति → यन्ति
अजादिषु पित्सु अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्य प्रसक्तिः, तत् प्रबाध्य इणो यण् (६.४.८१), पुनः तत् प्रबाध्य परत्वात् सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्राप्तिः |
अजाद्यपित्सु सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु अपित्वात् सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत्वं; तदा क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः | तदा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ्-आदेशः, तत् प्रबाध्य इणो यण् (६.४.८१) इत्यनेन यणः प्राप्तिः |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
इणो यण् (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इणः अङ्गस्य यण् अचि |
लङि—
आडजादीनाम् (६.४.७२) = लङि अजादिधातुरूपि-अङ्गस्य आट्-आगमो भवति | प्रथमम् अङ्गकार्यं, तदा एव आगमः, सन्धिकार्यं च |
आटश्च (६.१.८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति |
अत्र अवधेयं यत् कार्यस्य एकः क्रमः वर्तते | तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया— १) (लङि) अडागमः आडागमः च | २) तिङ्-निमित्तम् अङ्गकार्यम् | ३) (लङि) आडागमे सति वृद्धि-कार्यम् | ४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
आडजादीनाम् (६.४.७२) = लुङ् लङ् लृङ् च परे चेत्, अजादिधातुरूपि-अङ्गस्य आट्-आगमो भवति; स च आडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात् प्राक् आयाति | अच् आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम् अजादीनाम् | आट् प्रथमान्तम्, अजादीनाम् षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यस्मात् लुङ्लङ्लृङ्क्षु, उदात्तः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजादीनाम् अङ्गस्य आट् उदात्तः लुङ्लङ्लृङ्क्षु |
आटश्च (६.१.८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८७) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
अत्र प्रश्नः उदेति— लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१), आडजादीनाम् (६.४.७२) अपि अङ्गकार्यम्; इणो यण् (६.४.८१) अपि अङ्गकार्यम् | इणो यण् (६.४.८१) परसूत्रम् अतः किमर्थं न विप्रतिषेधे परं कार्यम् (१.४.२) इत्यनेन इणो यण् (६.४.८१) परत्वात् प्रथमं स्यात् ? इ + अन् → इणो यण् (६.४.८१) इत्यनेन यणादेशः → य् + अन् → अधुना धातुः हलादिः अतः लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यनेन अडागमो न तु आडागमः | तदा रूपम् 'अयन्' स्यात् न तु आयन् | किमर्थम् एवं न भवति ?
अत्र वार्ता एवं यत् लावस्थायाम् एव अट्/आट् भवति, अतः आगमः प्रथमं कार्यम् | लकारस्य एव आगमः अयम् | लुङ्लङ्लृङ्क्षु अडागमः आडागमः च भवतः, अतः निमित्तं लकारः एव इति कारणतः इदं कार्यं प्रथमम् | अनन्तरं लकारस्य स्थाने तिङ्-प्रत्ययादेशो भवति, तिङ्-निमित्तकं कार्यं च | इणो यण् (६.४.८१) इत्यनेन इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे— इदं कार्यं प्रत्ययनिमित्तं किन्तु लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१), आडजादीनाम् (६.४.७२) चेत्यनयोः कार्यं लकारनिमित्तम् | अतः सर्वप्रथमं लकारनिमित्तकः आगमः |
एतत् दृष्ट्वापि पुनः शङ्का आगच्छेत् यत् "अस्तु, आगमः लावस्थायां भवतु नाम किन्तु आडजादीनाम् (६.४.७२) इत्यस्य अपेक्षया इणो यण् (६.४.८१) परसूत्रम् अतः तस्य कार्यं प्रथमं स्यात्" | अत्र कश्चन अतीव महत्त्वपूर्णः सिद्धान्तः आयाति— अनयोः द्वयोः मध्ये कोऽपि बाध्यबाधकभावो नास्ति | विप्रतिषेधे परं कार्यम् (१.४.२) कदा कार्यं करोति ? समानकाले समानस्थले यदा द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः भवति, तदानीं विप्रतिषेधे परं कार्यम् (१.४.२) इति सूत्रस्य प्रसङ्गः | एकस्मिन् स्थले एकस्मिन् समये द्वयोः सूत्रयोः विरोधः | आडजादीनाम् (६.४.७२), इणो यण् (६.४.८१) इत्यनयोः कार्यकालः समानो न, कार्यस्थलमपि समानं न; अतः द्वयोः विरोधो नास्ति एव | अनेन कारणेन किं पूर्वसूत्रं किं परसूत्रम् इति वार्ता न आयाति एव | आडजादीनाम् इति लावस्थायाम्; इणो यण् (६.४.८१) इति तिङ्-अवस्थायां; कालः भिन्नः, आडजादीनाम् च प्रथमम् |
अपि च एकवारं यदा आगमः आगतः, तदा धेयं यत् तस्य आगमस्य अनन्तरम् आगमनिमित्तं कार्यं (यथा आटश्च) साक्षात् भवेत् इति नास्ति | केवलम् आगमः भवति; तदा सूत्रबलात् अग्रे कार्यस्य क्रमो भवतु | तर्हि अधुना स्थितिरस्ति एवम्—
इ + लङ-लकारः → आडजादीनाम् (६.४.७२) इत्यनेन आडागमः → आ + इ + लङ् → प्रथमपुरुषस्य बहुवचने तिङ्-आदेशः झि → आ + इ + झि → झोऽन्तः (७.१.३) इत्यनेन अन्त्-आदेशः, अन्ति; इतश्च (३.४.१००) इत्यनेन ङित्-लकारस्य स्थाने यः परस्मैपद-ह्रस्व-इकारान्त-तिङ्प्रत्ययः, तस्य अन्त्य-इकारस्य लोपः, अन्त्; संयोगान्तस्य लोपः (८.२.२३) इत्यनेन पदान्ते संयोगस्य अन्तिमवर्णलोपः → आ + इ + अन्
अत्र आटश्च (६.१.८९), इणो यण् (६.४.८१) च द्वयोः प्रसक्तिः | आटश्च (६.१.८९) इत्यनेन आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | इणो यण् (६.४.८१) इत्यनेन इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे |
यथापूर्वम् अत्रापि तुल्यबलविरोधः नास्ति यतोहि कार्यस्थलं भिन्नम् | आटश्च (६.१.८९) इत्यस्य आ + इ इति स्थलम्; इणो यण् (६.४.८१) इत्यस्य इ + अन् इति स्थलम् | धेयं यत् समानस्थले कार्यं न जायमानम् | समानकाले, किन्तु समानस्थले न | अतः अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः इत्यनेन तुल्यबलविरोधो न भवति | अपि च समानस्थलाभावात् अपवादस्य प्रश्नः नोदेति | कार्यस्थलं समानं नास्ति चेत् अपवादस्य अवकाशो नास्ति | तदर्थं न तुल्यबलविरोधः, न वा अपवादभूतत्वम् | तर्हि अत्र पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया साक्षात् निर्णयः कर्तुं न शक्यते |
किन्तु इह कश्चन नूतनसिद्धान्तः आनेतव्यः | इण्-धातु-विषयकतया प्रतिपदोक्तत्वम् | व्याकरणशास्त्रे प्रतिपदम् इत्युच्यते यत्र साक्षात् नाम्ना आह्वानं भवति; प्रतिपदम् इत्यनेन नामग्रहणम् | अस्मिन् सिद्धान्ते शीघ्रावस्थितिकत्वमेव बीजम् | यथा 'एकः छात्रः आगच्छतु' इत्यनेन कञ्चन छात्रम् आह्वातुं शक्नुमः; 'चैत्र आगच्छ' इत्यपि रीत्या आह्वातुं शक्नुमः | उभयत्र छात्रस्य आह्वानम् | 'कश्चन छात्रः आगच्छातु' इत्यस्य अपेक्षया 'चैत्र आगच्छ' इत्यनेन शीघ्रं प्रवृत्तिर्भवति | कुतः इति चेत्, तस्य वाचकपदम् | प्रतिपदेन उक्तं → प्रतिपदोक्तम् | छात्रत्वावच्छिनः यः कोऽपि छात्रः भवितुम् अर्हति; किन्तु 'चैत्रत्वम् आगच्छ' इत्यनेन विशेषतया तस्य वाचकं यत् पदं, तस्य विशिष्टोच्चारणात् प्रतिपदोक्तं भवति | 'कश्चन छात्रः आगच्छातु' इत्यस्य कथनेन 'अहं न, अन्यः कश्चन छात्रः स्यात्' इति शङ्कातः शीघ्रम् उपस्थितिर्न भवति | किन्तु 'चैत्र आगच्छ' इत्यस्य कथनेन विलम्बः न भवति अपि तु शीघ्रोपस्थितिः |
प्रतिपदम् | पदं पदं प्रतिपदम् | तन्मात्रवृत्तिधर्मविशिष्टं पदम् | वीप्सया तत्पदमात्रवृत्तिधर्मपुरस्कारवैशिष्ट्यम् | तत्पदमात्रवृत्तिधर्मपुरस्कारेण ग्रहणं यत्र, तत् प्रतिपदम् इत्युच्यते | तदनुकूलव्यवच्छिन्नतया नाम इति अर्थः गृह्यते | यथा इणो यण् (६.४.८१) इत्यनेन यण्-आदेशः प्रतिपदोक्तः | इको यणचि (६.१.७७) इत्यनेन यण्-आदेशः लाक्षणिकः | एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यनेनापि यण्-आदेशः लाक्षणिकः |
इतिवत् अत्र प्रकृतौ इणो यण् (६.४.८१) इत्यनेन इण्-धातोरेव यण्-आदेशो विधीयते; यस्य कस्यापि यण्-आदेशः इति न | किन्तु आटश्च (६.१.८९) इत्यनेन आडागमात् यस्मिन् कस्मिन्नपि अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | अतः प्रतिपदोक्तस्य ग्रहणेन आटश्च (६.१.८९) इत्यस्य अपेक्षया इणो यण् (६.४.८१) इत्यस्य शीघ्रोपस्थितिः |
लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषायाः आधारेण प्रतिपदोक्तस्य बलवत्वम् इत्युच्यते | इयं परिभाषा सम्पूर्णरीत्या स्वीक्रियते चेत् तस्याः कार्यम् प्रसङ्गश्च अन्यत्र | अतः अत्र तस्य समग्रप्रतिपादनं न दीयते; किन्तु सारांशः अस्ति यत् लक्षणस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम् | आटश्च (६.१.८९) इयि सूत्रे निमित्तं लक्षणरूपेण एव दीयते; इणो यण् (६.४.८१) इति सूत्रे प्रतिपदोक्तम् अस्ति |
कुतः बलवत्वम् इति चेत्, तस्य बुद्धौ शीघ्रम् उपस्थितिर्भवति | अनेन प्रतिपदोक्तं सर्वतो बलवत् | यत्र 'अपवादः' इति साक्षात् वक्तुं न शक्यते, तत्र विशिष्टत्वात् प्रतिपदोक्तत्वात् बलवत्वम् इति वदने सामर्थम् | ततः उच्यते यत् प्रतिपदोक्तम् अपवादसदृशम् | अपवादः बाधते, तद्वत् प्रतिपदोक्तम् अपि बाधते | कुतः इति चेत् तस्य नामग्रहणपूर्वक-विधिरस्ति, अनेन शीघ्रं प्रवृत्तिर्भवति |
अतः अत्र यद्यपि इणो यण् (६.४.८१) इत्यस्य कार्यस्थलम् आटश्च (६.१.८९) इति कर्यस्थलात् भिन्नम् इति कारणतः तस्य अपवादभूतत्वम् इति वक्तुं न शक्येत, तथापि प्रतिपदोक्तत्वस्य बलेन बाधकत्वम् | तुल्यबलविरोधस्याभावात् प्रतिपदोक्तत्वात् बाधकत्वम् इत्युच्यते | तर्हि प्रतिपदोक्तत्वस्य बलवत्वे इणो यण् (६.४.८१) | इणो यण् (६.४.८१) इत्यस्य प्रतिपदोक्तत्वात् इण्-धातुं ग्रहीत्वा यण्-आदेशः विधीयते—
आहत्य इ + लङ-लकारः → आडजादीनाम् (६.४.७२) इत्यनेन आडागमः → आ + इ + लङ् → तिङ्-आदेशः च प्रथमपुरुषस्य बहुवचने सिद्धतिङ्-प्रत्ययः अन् → आ + इ + अन् → इणो यण् (६.४.८१) इत्यनेन यणादेशः → आ + य् + अन् → (आटश्च (६.१.८९) इत्यस्य अधुना प्रसङ्गो नास्ति →) आयन्
द्वयोः सूत्रयोर्मध्ये इणो यण् (६.४.८१) प्रथमं; तदा आटश्च (६.१.८९) इत्यभविष्यत् किन्तु तावता प्रसङ्गो नास्त्येव आगमोत्तरस्य अचः अभावात् |
आ + इ + अन् | अत्र आटश्च (६.१.८९), इणो यण् (६.४.८१) च द्वयोः प्रसक्तिः | अत्र प्रतिपदोक्तत्वात् इणो यण् (६.४.८१) इत्युक्तम् | परन्तु अत्र वार्णादाङ्गं बलीयः इत्यपि कार्यं करोति अत्र | द्वयोः परस्परसमर्थनं; द्वयोः कारणकथने न काऽपि समस्या |
वार्णादाङ्गं बलीयः | [परिभाषा ५५] – वर्णस्य इदं वार्णम्; वर्णं निमित्तीकृत्य जायमानं कार्यम् | वर्णसम्बद्धं वार्णम् | अङ्गस्य इदम् आङ्गम् | अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम् आङ्गम् | अङ्गसम्बद्धम् आङ्गम् | वर्णनिमित्तिक-कार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम् |
इति सामान्यचिन्तनम् | वस्तुतः अत्र पक्षद्वयं वर्तते | एकस्मिन् पक्षे इ + लङ → लावस्थायाम् आडजादीनाम् (६.४.७२) इत्यनेन आडागमः → ततः अग्रे यथोक्तम् | अपरस्मिन् पक्षे इ + लङ् → इ + झि, अन्ति, अन्त्, अन् → इणो यण् (६.४.८१) इत्यनेन अजादौ प्रत्यये परे यणादेशः → य् + अन् → असिद्धवदत्राभात् (६.४.२२) इत्यनेन यणादेशस्य असिद्धत्वात् अजादित्वम् आश्रित्य आडजादीनाम् (६.४.७२) इत्यनेन आडागमः → आ + य् + अन् → (आटश्च (६.१.८९) इत्यस्य अधुना प्रसङ्गो नास्ति →) आयन्
आडजादीनाम् (६.४.७२), इणो यण् (६.४.८१) इत्यनयोः कार्यम् आभीयकार्यम्—
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
अन्-प्रत्ययम् आश्रित्य आडजादीनाम् (६.४.७२), इणो यण् (६.४.८१) इत्यनयोः कार्यं भवति | अत्र इण्-धातोः 'इ' इत्यपि द्वयोः आश्रयः | आडजादीनाम् (६.४.७२) इति सूत्रमपि, इणो यण् (६.४.८१) इति सूत्रमपि षष्ठाध्यायस्य चतुर्थपादस्य द्वाविंशसूत्रमारभ्य षष्ठाध्यायस्य अन्तः इति यावत्, अस्मिन् गोचरे अस्ति इति कृत्वा आडागमः अपि यणादेशः अपि आभीयकार्यम् |
आडजादीनाम् (६.४.७२) = लुङ् लङ् लृङ् च परे चेत्, अजादिधातुरूपि-अङ्गस्य आट्-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | अनुवृत्ति-सहितसूत्रम्— अजादीनाम् अङ्गस्य आट् उदात्तः लुङ्लङ्लृङ्क्षु |
इणो यण् (६.४.८१) = इण्-धातोः यण्-आदेशः भवति अजादिप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— इणः अङ्गस्य यण् अचि |
तर्हि अस्मिन् पक्षे लकार-प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तकादेशाः च आदौ भवन्ति, ततः परम् अजादिप्रत्ययत्वम् आदाय इणो यण् (६.४.८१) इत्यनेन यणादेशः, तस्य च असिद्धत्वात् आडजादीनाम् (६.४.७२) इत्यनेन आडागमः |
अत्र प्रश्नः उदेति, एकवारम् आरम्भे इणो यण् (६.४.८१) इति शास्त्रम् उपस्थितं भवति चेत्, तस्य असिद्धत्वात् आडजादीनाम् (६.४.७२) इत्यनेन आडागमः भवेत् | किन्तु कस्य बलेन आडागमात् प्राक् यण्-आदेशो विधीयेत ? आडजादीनाम् (६.४.७२) इति लावस्थायाम् | इणो यण् (६.४.८१) इति सिद्धतिङ्प्रत्ययसाधनानन्तरमेव | अपि च लावस्थायाम् आडागमः इति पक्षे असिद्धवदत्राभात् (६.४.२२) इति शास्त्रम् नापेक्षते | साक्षात् आडजादीनाम् (६.४.७२) इत्यनेन आडागमः, तदा प्रतिपदोक्तत्वात् इणो यण् (६.४.८१), फलतः आयन् इति रूपम् | अतः अत्र लाघवम् | असिद्धवदत्राभात् (६.४.२२) इत्यस्य अपेक्षा एव नास्ति |
तर्हि द्वितीये पक्षे कस्य बलेन आडागमात् प्राक् यण्-आदेशो विधीयेत ? लावस्थायाम् आडागमः इति पक्षे लाघवम् इति सत्यं; किन्तु तथा सति असिद्धवदत्राभात् (६.४.२२) इत्यस्य पाठः कुतः इति प्रश्नः | आभीयपाठस्य का गतिः ? इणो यण् (६.४.८१) आडजादीनाम् (६.४.७२) इति सूत्रद्वयम् आभीयशास्त्रे अन्तर्गतं, तस्य च कारणं स्यात् | इणो यण् (६.४.८१) सर्वप्रथमं न भवति चेत्, किमर्थम् आभीयकार्यम् इदम् | इदमेव आभीयपाठस्य सार्थक्यम् | अत्र भाष्यकारस्य कथनमिदं यत् तेन ज्ञायते आदौ लकारनिमित्तकार्याणि, ततः परमेव आडागमः |
प्रथमपक्षस्य परित्यजने, अन्यत् कारणमपि उक्तम् महाभाष्ये | किमिति चेत्, धातुः नाम क्रियावाचकः | क्रियायाः स्वाश्रयाकाङ्क्षा भवति; नो चेत् क्रिया न प्रतीयते | धातुरेव क्रियां न बोधयति | क्रियायाः स्वाश्रयसमवधाने एव धातुः क्रियां बोधयेत् | कर्तृबोधकप्रत्ययः परः यदा भवति, तदानीम् अयं धातुः परिपूर्णतया क्रियां बोधयितुं समर्थः भवति | क्रियायाः आश्रयबोधकप्रत्ययः नास्ति चेत् धातुः क्रियां कथं वा बोधयेत् ? लकारः आश्रयबोधकप्रत्ययः | तं विना 'अयं धातुः' इति व्यवहारः एव वस्तुतः न कर्तव्यः | कुतः इति चेत्, क्रियां न बोधयति | तर्हि कदा बोधयति ? स्वबोध्यक्रियायाः आश्रयः अस्ति चेदेव धातुः क्रियां बोधयति | भू-धातोः लट् इति प्रयोगे 'भू-धातुः' अर्थविज्ञानपदम् | इतः परं यदा लट्-प्रत्ययः करिष्यते, तदानीं परिपूर्णधातुः अयम् | प्रत्ययस्य उत्पत्तेः पूर्वम् 'अयं धातुः' इति व्यवहारः गौणः | अनेन लकार-प्रत्ययस्य उपस्थितिः आदौ भवति, तन्निमित्तककार्याणि च आदौ भवन्ति इति वक्तव्यम् | अस्मात् कारणादपि लावस्थायाम् अट् इति पक्षः परित्यक्तः |
आहत्य कारणत्रयेण इणो यण् (६.४.८१) सर्वप्रथमम् आयाति— १) आभीयपाठस्य सार्थक्यार्थम्; २) प्रतिपदोक्तत्वात्; ३) विशिष्टधातोः क्रियाबोधकत्वात् |
द्वौ प्रश्नौ अवशिष्टौ—
1) किमर्थं सामान्यक्रमः एतादृशः दत्तः— १) (लङि) अडागमः आडागमः च | २) तिङ्-निमित्तम् अङ्गकार्यम् | ३) (लङि) आडागमे सति वृद्धि-कार्यम् | ४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् |
चिन्तयामः चेत्, अयं क्रमः स्वाभाविकः |
१) (लङि) अडागमः आडागमः च | आडजादीनाम् (६.४.७२) इति सूत्रं लावस्थायां विधीयते, अतः इदं सूत्रं सामान्यरूपेण सर्वप्रथमं भवेत् |
२) तिङ्-निमित्तम् अङ्गकार्यम् | अङ्गकार्यम् इदम्, अतः बलवत् |
३) (लङि) आडागमे सति वृद्धि-कार्यम् | आटश्च (६.१.८९) वर्णनिमित्तकं कार्यम्, अतः अनन्तरं स्यात् | किन्तु अन्तरङ्गत्वात् तिङ्प्रत्यय-योजनात् प्राक् |
४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् | परम्परया अपि अन्तिमं कार्यम् | किन्तु आधिक्येन तृतीयचतुर्थयोर्मध्ये किं प्रथमम् इत्यस्मिन् महत्त्वं नास्ति | अवदत् | ऐच्छत् | ऐधत् |
भिन्नरीत्या चिन्त्यते केवलं इण्-धातोः अस्-धातोः प्रसङ्गे च | इणो यण् (६.४.८१) इत्यनेन इ-धातुः → आयन् | श्नसोरल्लोपः (६.४.१११) इत्यनेन अस्-धातुः → आसीत् |
2) इ + लङ् → इ + त् → आडजादीनाम् (६.४.७२) → आ + इ + त्
अत्र प्रथमं आटश्च (६.१.८९) इति क्रियते चेत्, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य आवश्यकता एव नास्ति | प्रथमं सार्वधातुकार्धधातुकयोः (७.३.८४) इति क्रियते चेत्, अनन्तरं आटश्च (६.१.८९) इति भवति | द्वाभ्यां मार्गाभ्यां ऐत् इति रूपं सिध्यति | तर्हि किं साधु ?
आटश्च (६.१.८९) = आडागमात् अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | अनुवृत्ति-सहितसूत्रम्— आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
अत्र कृताकृतप्रसङ्गः आटश्च (६.१.८९) इत्यस्य, तस्मात् सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रं प्रति नित्यं, तस्माच्च बलवत् |
पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् | यस्य कार्यस्य निमित्तं पूर्वम् उपस्थितं, तदन्तरङ्गम् |
आटश्च (६.१.८९) इत्यस्य इ-धातोः इ-कारः इति निमित्तं पूर्वम् उपस्थितः | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य यः त्-प्रत्ययः इति निमित्तम् अनन्तरम् | अतः पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्यनेन आटश्च (६.१.८९) इत्यस्य अन्तरङ्गत्वम् |
पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया नित्यापेक्षया अन्तरङ्गत्वं बलवत् | अतः 'नित्यम्' इत्यस्य बलेन आटश्च (६.१.८९) इति न, अपि तु अन्तरङ्गत्वम् इत्यस्य बलेन आटश्च (६.१.८९) प्रथमं भवतु |
किन्तु अन्ततो गत्वा वार्णादाङ्गं बलीयः इत्यनेन सार्वधातुकार्धधातुकयोः (७.३.८४) प्रथमं भवति | पूर्वोपस्थितनिमित्तकम् अन्तरङ्गम् इत्यस्मात् वार्णादाङ्गं बलीयः इति परिभाषा बलवती | तदर्थं प्रथमं सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य प्राप्तिः, तदा एव आटश्च (६.१.८९) |
3) चिन्तनार्थं भाष्यकारः प्रतिपादयति यत् आडजादीनाम् (६.४.७२), आटश्च (६.१.८९) इत्यनयोः अष्टाध्याय्याम् आवश्यकता एव नास्ति | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) च 'अटश्च' च इत्येव पर्याप्तम्; आभ्यां सर्वाणि रूपाणि सिध्येरन् | ऐच्छत्, ऐधत् | चिन्तनस्य विषयः !
B. इक् स्मरणे इति धातुः
इक् स्मरणे नित्यम् अधि-उपसर्गपूर्वकः धातुः, परस्मैपदी च |
अत्र अवधेयं यत् यथापूर्वं, कार्यस्य एकः क्रमः वर्तते | तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया— १) (लङि) अडागमः आडागमः च | २) तिङ्-निमित्तम् अङ्गकार्यम् | ३) (लङि) आडागमे सति वृद्धि-कार्यम् | ४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् | यथासामान्यम्, अङ्गकार्यं सन्धिकार्यम् इत्यनयोः मध्ये प्रथमम् अङ्गकार्यं, तदा एव सन्धिकार्यम् |
इक् स्मरणे इति धातौ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्य प्रसक्तिः न तु इणो यण् (६.४.८१), नाम इयङ्-आदेशः प्रसक्तः न तु यण्-आदेशः | तर्हि अजाद्यपित्सु इयङ् कृत्वा अधि + इ + अन्ति → अधि + इय् + अन्ति → अधीयन्ति इति भवेत् | किन्तु तथा न भवति, अधियन्ति इत्येव भवति | अत्र धेयं यत् एकं गणसूत्रं वर्तते इण्वदिक इति वक्तव्यम् | अनेन इक्-धातुः इण-धातुवदेव भवति | अतः अत्र अधि + इक्, इण्वत् भवति | प्रथमम् इण्-धातोः रूपं निर्मातु, तदा अधि योजयतु, अपि च यथा आवश्यकता सन्धिकार्यं करोतु | आहत्य इक्-धातोः अजाद्यपित्सु इयङ्-आदेशो न भवति अपि तु इण्-वत् यण्-आदेश एव भवति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
C. इङ् अध्ययने इति धातुः
इङ्-धातुः ङित् अतः आत्मनेपदिधातुः, नित्यम् अधि-पूर्वः च |
१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |
२) अजादि पित्सु = गुणः, अयादेशः | अधि + इ + ऐ → गुणे अधि + ए + ऐ → अय्-आदेशः अधि + अय् + ऐ → सन्धिकार्यम् इको यणचि → अध्यय् + ऐ → अध्ययै
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | अधि + इ + ते → अकः सवर्णे दीर्घः → अधीते
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः | अधि + इ + आते → अधि + इय् + आते → अधि + इयाते → अकः सवर्णे दीर्घः → अधीयाते
अत्र अवधेयं यत् यथापूर्वं, कार्यस्य एकः क्रमः वर्तते | तं क्रमम् आधारीकृत्य प्रक्रिया प्रवर्तनीया— १) (लङि) अडागमः आडागमः च | २) तिङ्-निमित्तम् अङ्गकार्यम् | ३) (लङि) आडागमे सति वृद्धि-कार्यम् | ४) तिङ्प्रत्यय-योजनं, तत्सम्बद्ध-सन्धिकार्यम् | ५) उपसर्ग-योजनं, तत्सम्बद्ध-सन्धिकार्यम् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
D. वी-धातुः गतिव्याप्ति-प्रजनकान्त्यसन-खादनेषु
१) हलादि पित्सु = गुणः | वी + ति → वेति
२) अजादि पित्सु = गुणः, अयादेशः | वी + आनि → वे + आनि → व् + अय् + आनि → वयानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | वी + तः → वीतः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन इयङ् आदेशः | वी + अन्ति → व् + इय् + अन्ति → वियन्ति
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
E. शीङ् स्वप्ने इति धातुः
शीङः सार्वधातुके गुणः (७.४.२१) = शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | अनेन सूत्रेण शीङ्-धातोः गुणः भवति न केवलं पित्सु अपि तु अपित्सु अपि | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्, अतः अत्र ईकारः स्थानी भवति | शीङः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, गुणः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शीङः अङ्गस्य गुणः सार्वधातुके |
अपित्सु प्रत्ययेषु सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः आदिश्यते, तदा क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः | तदा शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन पुनः गुणः | अत्र क्क्ङिति च (१.१.५), शीङः सार्वधातुके गुणः (७.४.२१) इत्यनयोः कः सम्बन्धः ? क्क्ङिति च (१.१.५) इति प्रबाध्य शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन गुणो वा ? इति चेत् शीङः सार्वधातुके गुणः (७.४.२१), क्क्ङिति च (१.१.५) इत्यस्य अपवादः इति वा ?
१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |
२) अजादि पित्सु = गुणः, अयादेशः | शी + ऐ → श् + ए + ऐ → श् + अय् + ऐ → शयै
३) हलाद्यपित्सु = गुणः | शी + ते → शे + ते → शेते
४) अजाद्यपित्सु = गुणः, अयादेशः | शी + आते → शे + आते → श् + अय् + आते → शयाते
शीङो रुट् (७.१.६) = शीङ्-धातुतः झ्-प्रत्ययावयवस्य स्थाने यः अत्, तस्य रुट्-आगमो भवति | आद्यन्तौ टकितौ इत्यनेन अत् इत्यस्य आद्यवयवः | शीङः पञ्चम्यन्तं, रुट् प्रथमान्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः इत्यस्य अनुवृत्तिः; अदभ्यस्तात् (७.१.४) इत्यस्मात् षष्ठ्यन्तस्य विभक्तिपरिणामेन अतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शीङः अङ्गात् झः अतः रुट् |
अनुबन्धलोपे र् इति आगमः | अते → रते | अताम् → रताम् | अत → रत |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
तर्हि प्रश्नः आगतः आसीत् यत् क्क्ङिति च (१.१.५) इति प्रबाध्य शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन गुणो वा ? इति चेत् शीङः सार्वधातुके गुणः (७.४.२१), क्क्ङिति च (१.१.५) इत्यस्य अपवादः इति वा ? अत्र त्रयाणां सूत्राणां निमित्तं किमिति ज्ञातव्यम् | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकमपित् (१.२.४) इत्यनेन अपित् सार्वधातुकं ङिद्वत् अस्ति | क्क्ङिति च (१.१.५) इत्यनेन यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन शीङ्-धातोः गुणः भवति सार्वधातुकप्रत्यये परे | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इग्लक्षणगुणः क्रियते; क्क्ङिति च (१.१.५) इत्यनेन इग्लक्षणगुणः निषेध्यते; पुनः शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन इग्लक्षणगुणः क्रियते | त्रिषु अपि इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् |
वस्तुतः शीङः सार्वधातुके गुणः (७.४.२१) कुत्रापि स्वतन्त्रतया कार्यं न करोति; कुत्रचित् गुणं प्रबाध्य, कुत्रचित् गुणनिषेधं प्रबाध्य च स्वकार्यं करोति |
शी + लट् → शी + ते → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः → शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन गुणः |
शी + लोट् → शी + ऐ → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः → शीङः सार्वधातुके गुणः (७.४.२१) इत्यनेन गुणः |
अत्र अपवादस्य विषयः वा इति प्रश्नः | क्क्ङिति च (१.१.५), शीङः सार्वधातुके गुणः (७.४.२१) इत्यनयोः एकत्रप्राप्तिः नास्ति | तर्हि अपवादः कथं वा स्यात् ?
निरवकाशो विधिरपवादः इति अपवादस्य लक्षणम् | विप्रतिषेधे परं कार्यम् (१.४.२) इत्यस्य कृते द्वयोः सूत्रयोः तुल्यबलविरोधः अपेक्षते; तुल्यबलविरोधः इत्यर्थम् एकत्रप्राप्तिः अपेक्षते | अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः | एकत्रप्राप्तिः अपेक्षते परशास्त्रे, नित्यशास्त्रे च; अन्तरङ्गशास्त्रे क्वचित् भवति, क्वचित् न भवति | किन्तु अपवादशास्त्रे निरवकाशो विधिरपवादः इति लक्षणम्; अत्र साक्षात् एकत्रप्राप्तिः भवेत् इति नोक्तम् | सामान्यतया द्वयोः सूत्रयोः एकत्रप्राप्तिः अस्ति, द्वयोः मध्ये च एकस्य अन्यत्रलब्धावकाशो नास्ति इति स्थितौ 'अपवादः' इति वदामः | अत्र केचन वैयाकरणाः वदन्ति यत् एकत्रप्राप्तिभिन्नविषयेऽपि कुत्रचित् अपवादः स्वीक्रियते | मातृभिरुच्यते किन्तु यत् वस्तुतः अपवादविषये कुत्रापि एकत्रप्राप्तिर्नास्त्येव |
यथा आद्गुणः (६.१.८७), वृद्धिरेचि (६.१.८८) | कृष्ण + एकत्रम् | अत्र आद्गुणः (६.१.८७) भवति अचि परे; वृद्धिरेचि (६.१.८८) भवति एचि परे | एकत्रप्राप्तिः अस्ति किम् ? मातृभिः उच्यते यत् 'अचि परे' इत्यनेन सर्वक्षेत्रं स्वीकृतम् | अतः आद्गुणः (६.१.८७) इत्यस्य एव प्राप्तिः | तदनन्तरमेव आद्गुणः (६.१.८७) इत्यस्य प्राप्तेः कारणतः वृद्धिरेचि (६.१.८८) इत्यस्य निरवकाशत्वम् | अस्य निरवकाशत्वस्य बलेन आद्गुणः (६.१.८७) इति शास्त्रं प्रबाध्य वृद्धिरेचि (६.१.८८) प्राप्नोति |
आद्गुणः (६.१.८७) = अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात् | अनुवृत्ति-सहितसूत्रम्— आत् अचि पूर्वपरयोः एकः गुणः संहितायाम् |
वृद्धिरेचि (६.१.८८) = अवर्णात् एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात् | अनुवृत्ति-सहितसूत्रम्— आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायाम् |
महाभाष्यवाक्यम् - अन्यत्रान्यत्रलब्धावकाशयोरेकत्रप्राप्तिस्तुल्यबलविरोधः | लब्धः अवकाशः यस्य तत्, लब्धावकाशं सूत्रम् | यदि द्वे सूत्रे स्तः ययोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशोऽस्ति, अपि च यदि इमे द्वे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः, तर्हि इमे द्वे सूत्रे तुल्यबले इत्युच्यते | अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परः सङ्घर्षः, सः तुल्यबलविरोधः इत्युच्यते |
विप्रतिषेधे परं कार्यम् (१.४.२) = समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत्, परसूत्रस्य कार्यं पूर्वं भवति | विप्रतिषेधे सप्तम्यन्तं, परं प्रथमान्तं, कार्यं प्रथमान्तं, त्रिपदमिदं सूत्रम् | विप्रतिषेध इत्युक्ते समानबलयोः सूत्रयोः सङ्घर्षः |
प्रकृतौ शी + लोट् → शी + ऐ इति स्थितौ सार्वधातुकार्धधातुकयोः (७.३.८४), शीङः सार्वधातुके गुणः (७.४.२१) इत्यनयोः प्रसक्तिः एकत्र भवति— इत्युक्तौ एकत्रपाप्तिः | सार्वधातुकार्धधातुकयोः (७.३.८४) इति औसर्गिकशास्त्रम् अतः प्रथमतया 'आयाति'; नाम प्रक्रियायाः प्रतिपादनर्थं प्रथमतया प्रदर्श्यते | तदा शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्रतिपदोक्तत्वात् बलवत्वम् | शीङः सार्वधातुके गुणः (७.४.२१) इति सूत्रम् अस्य कृते एव निर्मितम् इति कृत्वा अस्य अधिकारः | शी + ऐ → शीङः सार्वधातुके गुणः (७.४.२१) → शे + ऐ | प्रतिपदोक्तत्वम् अन्तरङ्गस्य क्षेत्रे पठितम्; अपवादस्य प्रसङ्गः नास्ति |
शी + लट् → शी + ते | अत्रापि सार्वधातुकार्धधातुकयोः (७.३.८४), शीङः सार्वधातुके गुणः (७.४.२१) इत्यनयोः एकत्रप्राप्तिः | अत्रापि च सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य औसर्गिकत्वात् प्रथमं प्रदर्श्यते | शी + ते → सार्वधातुकार्धधातुकयोः (७.३.८४) | अत्र अपित्त्वात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः | यदा गुणः निषिद्धः, तदा शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्रसक्तिः | कस्य बलेन तस्य कार्यं भवति ? अन्यत्रलब्धावकाशत्वं नास्ति, नाम निरवकाशत्वं सिद्धम्, इति वक्तुं न शक्यते यतोहि लोटि प्राप्तिः जाता इति अधुनैव प्रदर्शितम् | निरवकाशत्वस्याभावात् अत्रापि अपवादस्य प्रसङ्गो न | प्रतिपदोक्तत्वात् एव, विशिष्टत्वात् एव, शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्राप्तिः | धेयं यत् क्क्ङिति च (१.१.५) प्रति शीङः सार्वधातुके गुणः (७.४.२१) परशास्त्रं; किन्तु द्वयोः एकत्रपाप्तिः नास्ति इत्यस्मात् तुल्यबलविरोधो नास्ति | तदर्थं विप्रतिषेधे परं कार्यम् (१.४.२) इत्यस्य प्रसक्तिः नास्ति | प्रतिपदोक्तत्वादेव शी + ते → शीङः सार्वधातुके गुणः (७.४.२१) → शे + ते |
यत्र विधिः भवति, तदा निषेधो भवति, तदा पुनः विधिः, अस्य नामकरणं प्रतिप्रसवः इति उच्यते | अनेन क्क्ङिति च (१.१.५) इति सूत्रस्य अर्थसङ्कोचः अपि वक्तुं शक्यते— गिति किति ङिति प्रत्यये परे तत्पूर्वस्य इकः गुणः वृद्धिः च निषिद्धः, शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य स्थलं वर्जयित्वा | अयं सिद्धान्तः अत्र प्रतिपदोक्तत्वस्य समर्थनं करोति |
धेयं यत् शीङः सार्वधातुके गुणः (७.४.२१) इत्यस्य प्रसक्तिः सार्वधातुकप्रत्यये परे एव, अतः णिचि ण्वुलि च अस्य कार्यं नास्ति | तत्र उभयत्र अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः | शाययति, शायकः इति |
F. दीधीङ् दीप्तिदेवनयोः इति धातुः |
दीप्तिः इति प्रकाशः; देवनम् इति दुःखम् | छान्दसि (वेदे) | आत्मनेपदिधातुः |
अदादिगणस्य जक्षित्यादयः इति अन्तर्गणे सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् च | जक्षित्यादयः षट् (६.१.६) इति सूत्रेण जक्षित्यादीनां धातूनाम् अभ्यस्त-संज्ञा भवति | जक्षित्यादिषु धातुषु दीधीङ्, वेवीङ् च स्तः; किन्तु द्वयोः आत्मनेपदित्वात्, सार्वधातुकलकारेषु किमपि विशिष्टम् अभ्यस्तसंज्ञा-निमित्तं कार्यं नास्ति | (परस्मैपदेषु लटि, लोटि, लङि च तिङ्-प्रत्ययादेशाः सन्ति; ते तु आत्मनेपदे न भवन्ति |)
दीधीवेवीटाम् (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः |
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङस्य यण्-आदेशो भवति अचि परे |
१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |
२) अजादि पित्सु = गुणनिषेधः, यणादेशः | दीधी + ऐ → दीध्य् + ऐ → = दीध्यै
३) हलाद्यपित्सु = गुणनिषेधः | दीधी + ते → दीधीते
४) अजाद्यपित्सु = गुणनिषेधः, यणादेशः | दीधी + आते → दीध्य् + आते → दीध्याते
अजादिषु पित्सु अपि, अजाद्यपित्सु अपि चिन्तनं समानम्— इको यणचि (६.१.७७) इत्यनेन यण्-आदेशः; तत्कार्यं प्रबाध्य सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु दीधीवेवीटाम् (१.१.६) इत्यनेन गुण-निषेधः | तदा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ्-प्रसक्तिः, तत् प्रबाध्य एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यनेन यणः प्राप्तिः |
इकारादिप्रत्ययेषु यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन दिधी-धातोः अन्त्यवर्ण-इकारस्य लोपः भवति |
दीधी + ईत → दीध् + ईत → दीधीत
दीधीवेवीटाम् (१.१.६) = दीधी, वेवी इति धातू, इडागमः चेत्येषां गुणः वृद्धिश्च न भवतः | अनेन इडागमस्य गुणः न कदापि भवति— यथा भू + तास् + लुट् → भू + इत् + आ → भविता ( भू-धातोः लुट्लकारस्य रूपं, सम्पूर्णा प्रक्रिया न प्रदर्शिता); तस्य वृद्धिकार्यं न कुत्रापि विहितम् | दीधीश्च वेवीश्च इट् च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम् | दीधीवेवीटां षष्ट्यन्तं पदम्, एकपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्मात् गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— दीधीवेवीटाम् न गुणवृद्धी |
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङस्य यण्-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलं इकाररूप्यङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्, अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्, अनेकाचः षष्ठ्यन्तम्, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्तिसहित-सूत्रम्—अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि |
यीवर्णयोर्दीधीवेव्योः (७.४.५३) = दीधी, वेवी इति धात्वोः अन्त्यवर्ण-इकारस्य लोपो भवति यकारादौ इवर्णादौ च परे | यकारे तु इकारः उच्चारणार्थः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य लोपः | यिश्च इवर्णश्च यीवर्णौ इतरेतरद्वन्द्वः, तयोः यीवर्णयोः | दीधीश्च वेवीश्च दीधीवेव्यौ इतरेतरद्वन्द्वः, तयोः दीधीवेव्योः | यीवर्णयोः सप्तम्यन्तं, दीधीवेव्योः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | तासस्त्योर्लोपः (७.४.५०) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दीधीवेव्योः अङ्गस्य लोपः यीवर्णयोः |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
G. वेवीङ् वेतिना तुल्ये |
छान्दसि (वेदे) | आत्मनेपदिधातुः |
सर्वाणी सूत्राणि कार्याणि च दीधीङ्-धातोरिव |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
3. उकारान्तधातवः ऊकारान्तधातवः च (14 धातवः—कु, टुक्षु, क्ष्णु, णु, द्यु, यु, षु, ष्णु, ऊर्णु, रु, ह्नुङ्, ष्टुञ्, ब्रूञ्, षूड़्)
A. सामान्याः उकारान्तधातवः (9 धातवः—कु, टुक्षु, क्ष्णु, णु, द्यु, यु, षु, ष्णु, ह्नुङ्)
१) हलादि पित्सु = उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यनेन वृद्धिः | यु + ति → य् + औ + ति → यौति
२) अजादि पित्सु = गुणः, अवादेशः (एचोऽयवायावः) | यु + आनि → यो + आनि → य् + अव् + आनि → यवानि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | यु + तः → युतः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः | यु + अन्ति → युवन्ति
उतो वृद्धिर्लुकि हलि (७.३.८९) = लुकः विषये अनभ्यस्तस्य उदन्ताङ्गस्य वृद्धिः हलादि-पित्-सार्वधातुकप्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः (न तु केवलं उकाररूप्यङ्गम्); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य उकारस्य स्थाने वृद्धि-आदेशः | उतः षष्ठ्यन्तं, वृद्धिः प्रथमन्तं, लुकि सप्तम्यन्तं, हलि सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् न, अभ्यस्तस्य, पिति, सार्वधातुके इत्येषाम् अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— उतः अङ्गस्य वृद्धिः लुकि हलि पिति सार्वधातुके न अभ्यस्तस्य |
यथा— यु + ति → कर्त्रर्थे सार्वधातुकप्रत्यये परे कर्तरि शप् → यु + शप् + ति → शपः लुक् अदिप्रभृतिभ्यः शपः → यु + ति → उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः → य् + औ + ति → यौति
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
एवमेव अवशिष्टाः अष्टौ सामान्य-धातवः—
कु शब्दे → कौति, क्षु शब्दे → क्षौति, क्ष्णु तेजने → क्ष्णौति, णु स्तुतौ → नौति, द्यु अभिगमने → द्यौति, षु प्रसवैश्वर्योः → सौति, ष्णु प्रस्रवणे → स्नौति | ह्नु अपनयने, ङिद्वात् आत्मनेपदे → ह्नुते |
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्, भ्रू प्रातिपदिकम् च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकर-उकरः स्यात् इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि |
B. ऊर्णुञ् आच्छादने इति धातुः
१) ऊर्णोतेर्विभाषा (७.३.९०) = ऊर्णु-धातोः उकारस्य विकल्पेन वृद्धिः हलादि-पिति प्रत्यये परे | ऊर्णु + ति → ऊर्णौति / ऊर्णोति |
अस्य अपवादः—
२) गुणोऽपृक्ते (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्-सार्वधातुकप्रत्यये परे |
अपृक्त एकाल् प्रत्ययः (१.२.४१) इत्यनेन यस्मिन् प्रत्यये एक एव वर्णः (अल्), तस्य अपृक्त-संज्ञा भवति | हलादिपित्सु लङि त्, स् इति द्वौ प्रत्ययौ स्तः | अतः तयोः परयोः, केवलं गुणः भवति न तु वृद्धिः |
३) अन्यत् सर्वं यु-धातुरिव |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
ऊर्णोतेर्विभाषा (७.३.९०) = ऊर्णु-धातोः उकारस्य विकल्पेन वृद्धिः हलादि-पित्-सार्वधातुकप्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने वृद्धि-आदेशः | ऊर्णोतेः षष्ठ्यन्तं, विभाषा प्रथमान्तं, द्विपदमिदं सूत्रम् | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् वृद्धिः, हलि इत्यनयोः अनुवृत्तिः | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऊर्णोतेः अङ्गस्य विभाषा वृद्धिः हलि पिति सार्वधातुके |
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्ययस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
गुणोऽपृक्ते (७.३.९१) = ऊर्णु-धातोः उकारस्य गुणः एव भवति (न तु वृद्धिः) अपृक्ते हलादि-पित्-सार्वधातुकप्रत्यये परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने गुणादेशः | गुणः प्रथमान्तम्, अपृक्ते सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | ऊर्णोतेर्विभाषा (७.३.९०) इत्यस्मात् ऊर्णोतेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ऊर्णोतेः अङ्गस्य गुणः हलि पिति अपृक्ते सार्वधातुके |
ञिद्वात् ऊर्णुञ्-धातुः उभयपदी; आत्मनेपदे ऊर्णुते, ऊर्णुवाते, ऊर्णुवते इत्यादीनि रूपाणि |
C. रु शब्दे इति धातुः
तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) = तु, रु, स्तु, शम्, अम् एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्प्रत्ययस्य विकल्पेन ईट्-आगमः भवति | प्रत्ययः पित् वा अपित् वा, हलादिः अस्ति चेत् ईडागमस्य विकल्पः |
१) ईडागमः नास्ति चेत् तर्हि यु-धातुरिव रूपाणि भवन्ति | रु + ति → रौति; रु + तः → रुतः; रु + अन्ति → रुवन्ति |
२) ईडागमः भवति चेत्—
रु + ति → रु + ईट् + ति → रु + ईति → ति हलादिः पित् आसीत् अतः उतो वृद्धिर्लुकि हलि इत्यनेन वृद्धिः भवति स्म | अधुना प्रत्ययः "ईति" जातः | अस्मिन् तिपः पित्त्वं तु अस्ति एव, परन्तु अजादिः जातः अतः ईति अजादि-पित् अस्ति | तर्हि अजादि-पितः सामान्यकार्यं भवति अत्र | रु + ईति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → रो + ईति → एचोऽयवायावः इत्यनेन अव्-आदेशः → र् + अव् + ईति → रवीति
रु + तः → रु + ईट् + तः → रु + ईतः → तः हलाद्यपित् आसीत्; किन्तु अधुना ईतः अजाद्यपित् अस्ति | अजाद्यपित् अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः → र् + उव् + ईतः → रुवीतः
प्रत्ययः अजादिः अस्ति चेत् ईडागमः न भवति | यथा अजाद्यपित् 'अन्ति', अथवा अजादि-पित् 'आनि' इति |
रु + अन्ति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः | र् + उव् + अन्ति → रुवन्ति
रु + आनि → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → रो + आनि → एचोऽयवायावः इत्यनेन अव्-आदेशः → र् + अव् + आनि → रवाणि
तर्हि सारांशः अत्र यत् तु, रु, स्तु, शम्, अम् इत्येषां धातूनां रूपाणि द्विविधा भवन्ति—ईडागमः अस्ति चेत्, अपि च ईडागमः नास्ति चेत् |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
ष्टुञ्-धातुः स्तुतौ अपि अदादौ; कार्यं तथैव—ईट्-अपक्षे यु-धातुवत् स्तौति, ईट्-पक्षे स्तवीति इत्यादीनि रूपाणि |
तु-धातुः सौत्रो धातुर्गतिवृद्धिहिंसासु इति धातुपाठे नास्ति, किन्तु अदादिगणीयः इति मन्यन्ते | रूपाणि रु-धातुवत्, तौति, तवीति इत्यादिकम् |
तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) = तु, रु, स्तु, शम्, अम् एभ्यः धातुभ्यः हलादि-सार्वधातुक-तिङ्प्रत्ययस्य विकल्पेन ईट्-आगमो भवति | तु गतिवृद्धिहिंसासु इति धातुः सौत्रः अस्ति | अर्थात् उल्लेखः धातुपाठे नास्ति, केवलं सूत्रेषु एव उच्यते | शमुँ उपशमे अयम् दिवादिगणस्य धातुः अस्ति, अमँ इति भ्वादिगणस्य धातुः अस्ति | अनयोः धात्वोः विषये ईडागमः केवलं छन्दसि एव भवति न तु लोके यतोहि लोके मध्ये विकरणप्रत्ययः आयाति | किन्तु वेदे तु विकरणस्य लोपः भवितुम् अर्हति बहुलं छन्दसि (२.४.७३) इत्यनेन सूत्रेण | तुश्च रुश्च स्तुश्च शमिश्च अम् च तेषां समाहारद्वन्द्वः तुरुस्तुशम्यम्, तस्मात् तुरुस्तुशम्यमः | तुरुस्तुशम्यमः पञ्चम्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम् | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | भूस्तुवोस्तिङि (७.३.८८) इत्यस्मात् तिङि इत्यस्य अनुवृत्तिः; ब्रुव ईट् (७.३.९३) इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः; यङो वा (७.३.९४) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— तुरुस्तुशम्यमः अङ्गात् ईट् वा हलि सार्वधातुके तिङि |
D. ह्नुङ् अपनयने इति धातुः
ङित् अस्ति अतः आत्मनेपदिधातुः | अन्यत् सर्वं सामान्यमेव |
१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |
२) अजादि पित्सु = गुणः, अवादेशः | ह्नु + ऐ → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → ह्नो + ऐ → एचोऽयवायावः इत्यनेन अव्-आदेशः → ह्न् + अव् + ऐ → ह्नवै
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | ह्नु + ते → ह्नुते
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः | ह्नु + आते → ह्न् + उव् + आते → ह्नुवाते
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
E. ब्रूञ्-व्यक्तायां वाचि इति धातुः
ञित् अस्ति अतः उभयपदिधातुः |
ब्रुव ईट् (७.३.९३) = हलादि-पिति एव ईट्-आगमः भवति | ब्रू + ति → ब्रू + ईट् + ति → ब्रू + ईति → सार्वधातुकार्धधातुकयोः इत्यनेन गुणः → ब्रो + ईति → एचोऽयवायावः इत्यनेन अव्-आदेशः → ब्र् + अव् + ईति → ब्रवीति
हलादि-पितः एते—ति, सि, मि, तु, त्, स् | अतः ब्रवीति, ब्रवीषि, ब्रवीमि, ब्रवीतु, अब्रवीत्, अब्रवीः |
ब्रुवः पञ्चानामादित आहो ब्रुवः (३.४.८४) = परस्मैपदस्य लट्-लकारे, ब्रू-धातुतः प्रथम-पञ्चानां तिङ्प्रत्ययानां, क्रमेण तिप्, तस्, झि, सिप्, थस् इत्येषां स्थाने णल्, अतुस्, उस्, थल्, अथुस् इति आदेशाः विकल्पेन भवन्ति अपि च अस्मिन् पक्षे सति, ब्रू-धातोः स्थाने आह् इति धात्वादेशो भवति |
ब्रू + ति → आह् + णल् → आह् + अ → आह
ब्रू + तः → आह् + अतुस् → आह् + अतुः → आहतुः
ब्रू + अन्ति → आह् + उस् → आह् + उः → आहुः
ब्रू + थः → आह् + अथुस् → आह् + अथुः → आहथुः
ब्रू + सि → आह् + थल् → आह् + थ → आहस्थः (८.२.३५) इत्यनेन आह् इत्यस्य हकारस्य स्थाने थकारादेशः भवति झलि परे; थकारः झल्-प्रत्याहारे अस्ति अतः ह्-स्थाने थकारादेशः → आथ् + थ → खरि च (८.४.५५) इति चर्त्वसन्धिविधायकसूत्रेण खरि परे झलां चरः स्युः, थ्-स्थाने तकारः → आत् + थ → आत्थ
अवशिष्टेषु रूपेषु न धात्वादेशः, न वा तिङ्प्रत्ययादेशः | अतः यथासामान्यम्—
१) हलादि पित्सु = ब्रुव ईट् (७.३.९३) इत्यनेन ईट्-आगमः भवति | ब्रू + ति → ब्रू + ईट् + ति → ब्रू + ईति → ब्रो + ईति → ब्र् + अव् + ईति → ब्रवीति
२) अजादि पित्सु = गुणः, अवादेशः (एचोऽयवायावः) | ब्रू + आनि → ब्रो + आनि → ब्र् + अव् + आनि → ब्रवाणि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेधः | ब्रू + तः → ब्रूतः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः | ब्रू + अन्ति → ब्र् + उव् + अन्ति → ब्रुवन्ति
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
आत्मनेपदे पूर्णतया ह्नु-धातुवत्
ब्रुव ईट् (७.३.९३) = ब्रू-धातुतः हलादि-पित्-प्रत्ययस्य ईट्-आगमो भवति | ब्रुवः पञ्चम्यन्तम्, ईट् प्रथमान्तं, द्विपदमिदं सूत्रम् | उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यस्मात् हलि इत्यस्य अनुवृत्तिः | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् पिति, सार्वधातुके इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः अङ्गात् ईट् हलि पिति सार्वधातुके |
ब्रुवः पञ्चानामादित आहो ब्रुवः (३.४.८४) = परस्मैपदस्य लट्-लकारे, ब्रू-धातुतः प्रथम-पञ्चानां तिङ्प्रत्ययानां, क्रमेण तिप्, तस्, झि, सिप्, थस् इत्येषां स्थाने णल्, अतुस्, उस्, थल्, अथुस् इति आदेशाः विकल्पेन भवन्ति अपि च अस्मिन् पक्षे सति, ब्रू-धातोः स्थाने आह् इति धात्वादेशो भवति | ब्रुवः पञ्चम्यन्तं, पञ्चानां षष्ठ्यन्तम्, आदितः अव्ययपदम्, आहः प्रथमान्तं, ब्रुवः षष्ठ्यन्तम्, अनेकपदमिदं सूत्रम् | विदो लटो वा (३.४.८३) इत्यस्मात् लटः, वा इत्यनयोः अनुवृत्तिः | परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (३.४.८२) इत्यस्मात् परस्मैपदानां, णलतुसुस्थलथुसः इत्यनयोः अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः (३.१.९१), लस्य (३.४.७७ ) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः धातोः लस्य लटः परस्मैपदानां पञ्चानाम् आदितः णलतुसुस्थलथुसः प्रत्ययः परश्च वा ब्रुवः आहः |
आहस्थः (८.२.३५) = आह् इत्यस्य हकारस्य स्थाने थकारादेशो भवति झलि परे | अलोऽन्त्यस्य (१.१.५२) इत्यनेन आह्-धातोः अन्तिमवर्णस्य हकारस्य स्थाने थकारः | आहः षष्ठ्यन्तं, थः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— आहः थः झलि |
F. षूङ् प्राणि-गर्भविमोचने (सू-धातुः)
भूसुवोस्तिङि (७.३.८८) = भू सू इति धातुभ्यां सार्वधातुके तिङ्प्रत्यये परे गुणनिषेधः भवति | भू-धातुः भ्वादिगणे, यथा लुङ्-लकारे भू-धातोः परे तिङ् साक्षात् आयाति | तत्र इकः गुणः भवति स्म, परन्तु अनेन सूत्रेण गुणनिषेधः, अभूत् इति रूपम् | सू-धातुः अदादिगणे; अनेन सूत्रेण पिति परे अपि गुणः न | भूश्च सूश्च भूसुवौ इतरेतरद्वन्द्वः, तयोः भूसुवोः | भूसुवोः षष्ठ्यन्तं, तिङि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यस्मात् न, सार्वधातुके इत्यनयोः अनुवृत्तिः | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— भूसुवोः न गुणः सार्वधातुके तिङि |
षूङ्-धातुः ङित् अतः आत्मनेपदी—
१) हलादि पित्सु = आत्मनेपदिधातुषु नास्ति एव |
२) अजादि पित्सु = भूसुवोस्तिङि (७.३.८८) इत्यनेन गुणनिषेधः | अतः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः | सू + ऐ → स् + उव् + ऐ → सुवै
३) हलाद्यपित्सु = भूसुवोस्तिङि (७.३.८८) इत्यनेन गुणनिषेधः | सू + ते → सूते
४) अजाद्यपित्सु = भूसुवोस्तिङि (७.३.८८) इत्यनेन गुणनिषेधः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशः | सू + आते → स् + उव् + आते → सुवाते
अपित्सु प्रत्ययेषु सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इति सूत्राभ्यां गुणनिषेधः भवति स्म, किन्तु विशेषत्वात् प्रतिपदोक्तत्वात् भूसुवोस्तिङि (७.३.८८) इत्यनेन एव गुणनिषेधः भवति |
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
4. ऋकारान्तधातवः (1 धातुः—जागृ निद्राक्षये)
जागृ धातुः
जक्षित्यादयः षट् (६.१.६) = जागृ-आदयः षट् धातवः, सप्तमश्च जक्ष् इत्येषाम् अभ्यस्त-संज्ञा भवति | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्त धातवः सन्ति— जक्ष्, जागृ, दरिद्रा, चकास्, शास्, दीधीङ्, वेवीङ् | धातोः द्वित्वं यदा भवति, तदा मिलित्वा द्वयोः नाम अभ्यस्तम् | किन्तु अनेन सूत्रेण एषां धातूनाम् अभ्यस्तसंज्ञा भवति, द्वित्वं विना | षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः | इति आदिः येषां ते इत्यादयः | इतिशब्देन जक्ष्-परामर्शः | जक्ष् प्रथमान्तम्, इत्यादयः प्रथमान्तम्, षट् प्रथमान्तम्, त्रिपदमिदं सूत्रम् | उभे अभ्यस्तम् (६.१.५) इत्यस्मात् अभ्यस्तम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जक्षित्यादयः षट् अभ्यस्तम् |
तिङ्प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयम्—
१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | झोऽन्तः (७.१.३) इत्यस्मात् झः (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम् (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत् |
२) सिजभ्यस्तविदिभ्यश्च (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | नित्यं ङितः (३.४.९९) इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः | झेर्जुस् (३.४.१०८) इत्यस्मात् झेः जुस् इत्यनयोः अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस् |
तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्—
१) हलादि पित्सु = गुणः | ऋ → अर् | जागृ + ति → जागर् + ति → जागर्ति
२) अजादि पित्सु = गुणः | जागृ + आनि → जागर् + आनि → जागराणि
३) हलाद्यपित्सु = क्ङिति च, गुणनिषेदः | जागृ + तः → जागृतः
४) अजाद्यपित्सु = क्ङिति च, गुणनिषेधः | इको यणचि इत्यनेन यणादेशः | जागृ + अति → जाग्र् + अति → जाग्रति
लङि विशिष्टं कार्यद्वयम्—
१) अजागृ + त् → गुणः → अजागर् + त् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन त्-लोपः → अजागर् → खरवासयोर्विसर्जनीयः इत्यनेन र्-स्थाने विसर्गः → अजागः
अजागृ + स् → हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इत्यनेन स्-लोपः → अजागर् → खरवासयोर्विसर्जनीयः इत्यनेन र्-स्थाने विसर्गः → अजागः
२) अजागृ + जुस् → अजागृ + उः → जुसि च इत्यनेन गुणः → अजागर् + उः → अजागरुः
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) इत्यनेन लङ्-लकारे प्रथमपुरुषे अपृक्तसंज्ञकस्य त्-प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे स्-प्रत्ययस्य लोपः |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्ते स्थितस्य रेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन रेफान्तस्य पदस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गादेशः | खर् च अवसानं च तयोरितरेतरयोगद्वन्द्वः खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम् |
अजागृ + स् → अजागः
जुसि च (७.३.८३) = अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति | जुसि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन इगन्तस्य अङ्गस्य; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य इकः स्थाने गुणादेशः | क्सस्याचि (७.३.७२) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | मिदेर्गुणः (७.३.८२) त्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इति परिभाषासूत्रेण इकः स्थानी भवति | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः अचि जुसि च |
गुणकार्ये विशेषः—
जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्, णल्, ङित् इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण् इति लुङ्-लकारस्य, णल् इति लिट्-लकारस्य, ङित् इत्यनेन इत्-संज्ञकः ङकारः यस्य | वि, ङित् इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्, णल् इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | अचो ञ्णिति (७.२.११५), क्क्ङिति च (१.१.५) इत्यनयोः अपवादः | विश्च चिण् च णल् च ङित् च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्, अविचिण्णल्ङित्सु सप्तम्यन्तम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— जाग्रः गुणः अविचिण्णल्ङित्सु |
यत्र वृद्धिः भवति स्म, तत्र गुणः भवति—
जागृ + णिच् → अचो ञ्णिति (७.२.११५) इति प्रबाध्य जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन गुणः → जागर् + इ → जागरि इति णिजन्तधातुः → जागरयति
यत्र कित्त्वात् गुणनिषेधः भवति स्म, तत्र गुणः भवति—
जागृ + क्त → क्क्ङिति च (१.१.५) इति प्रबाध्य जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन गुणः → जागर् + क्त → आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन आर्धधतुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति → जागर् + इ + त → जागरितः
यत्र सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः भवति स्म, तत्र जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन एव गुणः भवति प्रतिपदोक्तत्वात्—
जागृ + ति → सार्वधातुकार्धधातुकयोः (७.२.११५) इति प्रबाध्य जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन गुणः → जागर् + ति → जागर्ति
अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम् आधारेण रूप-चिन्तनं करोतु |
रूपाणि
लटि —
लोटि—
लङि—
विधिलिङि—
अनेन अदादिगणस्य अजन्तधातवः समाप्ताः |
५ - अदादिगणे अजन्तधातवः (c).pdf (168k) Swarup Bhai, Sep 4, 2019, 1:54 AM v.1
Swarup – August 2013 (Updated March 2016)