6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH

From Samskrita Vyakaranam
Revision as of 18:43, 12 May 2021 by Bina Radia (talk | contribs) (text copied)

6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH
Jump to navigation Jump to search

ध्वनिमुद्रणानि -

2019 वर्गः

१) adAdigaNe-halantadhAtavaH---paricayaH_+_वच्‌_+_पृच्‌_2019-04-30

२) adAdigaNe-halantadhAtavaH---णिजि_+_मृजू_+_ईड_2019-05-07

३) adAdigaNe-halantadhAtavaH---ईड_+_षस्ति_2019-05-14 

४) adAdigaNe-halantadhAtavaH---षस्ति_+_अद_+_विद_2019-05-21

५) adAdigaNe-halantadhAtavaH---हन_+_ईर_+_वश_2019-05-28

६) adAdigaNe-halantadhAtavaH---ईश_+_द्विष_+_चक्षिङ्‌_2019-06-04

७) adAdigaNe-halantadhAtavaH---वस_+_आस_+_आशासु_+_कसि_+_णिसि_+_षस_+_अस_2019-06-11 

८) adAdigaNe-halantadhAtavaH---अस_+_दुह_2019-06-18

९) adAdigaNe-halantadhAtavaH---अस्‌-हि-प्रसङ्गे-बाध्यबाधकभावः_+_दुह_2019-06-25

१०) adAdigaNe-halantadhAtavaH---tulyabalavirodhaH_+_अस्‌-हि_+_दिह_+_लिह्‌_2019-07-02

११) adAdigaNe-halantadhAtavaH---nityatvaM_+_sthAnivadbhAvaH_+_शास्‌-हि_+_लिह्‌_+_रुद_2019-07-09

१२) adAdigaNe-halantadhAtavaH---rudAdyantargaNaH--रुद्‌, स्वप्‌, श्वस्‌, जक्ष्‌_+_jakShAdyantargaNaH--जक्ष्‌_+_चकास्‌_2019-07-16

१३) adAdigaNe-halantadhAtavaH---चकास्‌_+_शास्‌_+_sthAnivadbhAvaH_2019-07-23

१४) शास्‌-धातु-रूपाणि_2019-08-06


2016 वर्गः

१) adAdigaNe-halantadhAtavaH-1_वच्‌_+_पृच्‌_+_मृज्‌_2016-07-10

२) adAdigaNe-halantadhAtavaH-2_ईड्‌_+_षस्ति-सन्स्त्‌_+_अद्‌_2016-07-17

३) adAdigaNe-halantadhAtavaH-3_ईड्‍ [पुनः]_+_विद्‌_+_हन्‌_2016-07-24 

४) adAdigaNe-halantadhAtavaH-4_विद्‌_+_हन्‌_2016-07-31

५) adAdigaNe-halantadhAtavaH-5_ईर्‍_+_वश्‌_+_ईश्‌_+_द्विष्‌_2016-08-07

६) adAdigaNe-halantadhAtavaH-6_द्विषन्ति-पूर्वत्रासिद्धम्‌_+_चक्ष्‌_+_वस्‌_+_कसि_+_णिसि_2016-08-14 

७) adAdigaNe-halantadhAtavaH-7_षस_+_अस्‌_+_दुह्‌_2016-08-21

८) adAdigaNe-halantadhAtavaH-8---hakArAntAnAM-samagracintanam_+_दुह्‌_+_लिह्‌_2016-08-28

९) adAdigaNe-halantadhAtavaH-9---rudAdyantargaNaH_2016-09-11

१०) adAdigaNe-halantadhAtavaH-10---rudAdyantargaNaH-jakShAdyantargaNaH-ca_2016-09-18


अदादिगणे ७२ धातवः सन्ति | तेषु ४५ धातवः अजन्ताः, २७ धातवः हलन्ताः च | ४५ अजन्तधातवः अस्माभिः परिशीलिताः पूर्वतने पाठे; अधुना २७ हलन्तधातवः अवलोकयिष्यन्ते |


यथा सर्वेषु गणेषु, अदादिगणेऽपि कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ इत्यनेन शप्‌ विहितः अस्ति | तदा अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन शपः लुक्‌ (लोपः) भवति | अनुवृत्ति-सहितसूत्रम्‌—अदिप्रभृतिभ्यः शपः लुक्‌ | शपः लुक्‌ भवति अतः अदादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते | शपः लुक्‌ इत्यस्मिन्‌ प्रसङ्गे स्मर्यतां यत्‌ लुक्‌ इत्युक्ते लोपः एव, नाम शप्‌-विकरणप्रत्ययः अपगच्छति | परञ्च लोप-लुक्‌ इत्यनयोः कश्चन भेदः अस्ति; भेदः अयं यत्‌ कस्यचित्‌ प्रत्ययस्य लोपः यदा भवति, तदा लुप्तप्रत्ययः यद्यपि न दृश्यते, तथापि कार्यं करोति | परन्तु प्रत्ययस्य लुक्‌ भवति चेत्‌, प्रत्ययलोपे प्रत्ययलक्षणं नास्ति इत्यस्मात्‌ किमपि कार्यं तेन न भवति | लुकि सति, यस्मात्‌ अङ्गात्‌ प्रत्ययः लुप्तः जातः, तस्मिन्‌ अङ्गे सः लुप्तप्रत्ययः तदानीम्‌ अङ्गकार्यस्य निमित्तं न भवितुम्‌ अर्हति |


अदादिगणे विकरणप्रत्ययस्य लुक्‌ भवति अतः धातोः साक्षात्‌ परे तिङ्प्रत्ययाः विहिताः भवन्ति | यथा पा + ति → पाति | पूर्वम्‌ अदादिगणस्य अजन्तधातवः अवलोकिताः; तत्र अच्‌-वर्णः अन्ते आसीत्‌ अतः एकं मुख्यं कार्यं गुणकार्यं, यथा इ + ति → एति | अस्मिन्‌ पाठे अदादिगणस्य हलन्तधातवः परिशीलयिष्यन्ते | अत्र धात्वन्ते हल्-वर्णः अस्ति अतः एकं मुख्यं कार्यं सन्धिकार्यम्‌ |


स्मर्यते यत्‌ हलन्तधातुरूपाणि भिन्नरीत्या सिध्यन्ति अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च यतः तत्र धातोः तिङ्‌-प्रत्ययस्य च साक्षात्‌ सम्पर्कः | अदादिगणे, जुहोत्यादिगणे, रुधादिगणे च हलन्तधातुभ्यः यदा हलादि-प्रत्ययः विहितः, तदा हल्‌-सन्धिः सम्भवति इति ज्ञायते | स्मरन्तु यत्‌ प्रत्ययः अजादि-वर्णैः आरभ्यते, तदा धातुः हलन्तः चेदपि हल्‌-सन्धिः न भवति (केवलं वर्ण-सम्मेलनं भवति) | प्रत्ययः य्‌, र्‌, व्‌, म्‌, न् इत्येभिः हल्‌-वर्णैः आरभ्यते चेत्‌ आधिक्येन हल्‌-सन्धिः न भवति | प्रत्ययः त्‌, थ्‌, ध्‌, स् इत्येभिः वर्णैः आरभ्यते, तस्यामेव दशायां हल्‌-सन्धिः भवति | हल्‌-सन्धयः कीदृशाः, अपि च कार्यं कीदृशम्‌ इति पूर्वतनेषु हल्‌सन्धिपाठेषु विस्तरेण अवलोकितम्‌ | अतः अधुना एतत्‌ हल्‌-सन्धि-विज्ञानं मनसि निधाय अग्रे सरेम, सर्वान्‌ अदादौ स्थितान्‌‌ हलन्तधातून्‌ परिशीलयाम |


वयं जानीमः यत्‌ सार्वधातुकप्रकरणे दश धातुगणाः गणसमूहद्वये विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्‌ | येषु धातुगणेषु अङ्गम्‌ अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम्‌ अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते इति | सामान्यतया धातुगणेषु विकरणप्रत्ययाः सन्ति; तत्र विकरणप्रत्ययस्य अन्तिमवर्णः एव अङ्गस्य अन्तिमवर्णः | यथा भ्वादौ शप्‌ इति विकरणप्रत्ययः; भू-धातोः भव इत्यङ्गम्‌; अङ्गस्य अन्तिमवर्णः ह्रस्व-अकारः (शपः एव अन्तिमवर्णः) | अतः अङ्गम्‌ अदन्तम्‌ इति | स्वादौ श्नु इति विकरणप्रत्ययः; चि-धातोः चिनु इत्यङ्गम्‌; अङ्गस्य अन्तिमवर्णः उकारः (श्नोः एव अन्तिमवर्णः) | अतः अङ्गम्‌ अनदन्तम्‌ इति | अदादौ विकरणप्रत्ययस्तु नास्त्येव; अदादौ धातुः एव अङ्गम्‌ अतः धातोः यः अन्तिमवर्णः, स एव अङ्गस्यापि | अदादौ अस्‌-धातुः सकारान्तम्‌ (अतः अङ्गमपि सकारान्तं), पा-धातुः आकारान्तम्‌ (अतः अङ्गमपि आकारान्तं), यु-धातुः उ-कारान्तम्‌ (अतः अङ्गमपि उकारान्तम्‌) | अदादौ यथा धातुः तथा अङ्गम्‌ | अपि च अदादौ अकारान्तधातवः न सन्त्येव, अतः सर्वाणि अङ्गानि अनदन्तानि | अत एव अदादिगणः द्वितीयगणसमूहे वर्तते | अदादिगणः द्वितीयगणसमूहे अस्ति, अतः तिङ्‌-प्रत्ययाः तत्रत्याः एव | अस्मिन्‌ पाठे पुनः द्वितीयगणसमूहस्य तिङ्‌-प्रत्ययाः दत्ताः |


पूर्वमेव अस्माभिः ज्ञातं यत्‌ सार्वधातुकलकारेषु क्रियापदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. तिङ्‌प्रत्यय-सिद्धिः

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

कुत्रापि किमपि कार्यं नास्ति यतः शप्‌-विकरणप्रत्ययस्य लुक् भवति अतः शप्‌ न दृश्यते न वा अङ्गकार्यस्य निमित्तं भवति |


२. तिङ्‌प्रत्यय-सिद्धिः


अदादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति |

परस्मैपदम्‌ आत्मनेपदम्‌
लट्‌-लकारः
ति  तः अन्ति ते आते अते
सि थः थ  से  आथे   ध्वे
  वः मः वहे महे
लोट्‌-लकारः
तु, तात्‌ ताम्‌ अन्तु ताम्‌ आताम्‌ अताम्‌
हि, तात्‌ तम्‌ स्व आथाम्‌ ध्वम्‌
आनि आव आम  आवहै आमहै
लङ्‌-लकारः
त्‌ ताम्‌ अन्‌ आताम्‌ अत
स्‌ तम्‌ थाः आथाम्‌ ध्वम्‌
अम्‌ वहि महि
विधिलिङ्‌-लकारः
यात्‌ याताम्‌ युः ईत ईयाताम्‌ ईरन्‌
याः यातम्‌ यात ईथाः ईयाथाम्‌ ईध्वम्‌
याम्‌ याव याम ईय ईवहि ईमहि

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


अस्मिन सोपाने सर्वप्रथमं तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यंम्‌ | तदा एव सन्धिकार्यम्‌ |


a) अङ्गकार्यम्

अङ्गकार्ये किं किं सम्भवति इति एकवारं चिन्तनीयम्‌ | अस्मिन्‌ पाठे सर्वे धातवः हलन्ताः, अतः सार्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः नास्त्येव | स्मर्यतां, सूत्रार्थः एवम्‌—इगन्त-धातोः अनन्तरं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः अस्ति चेत्‌, इगन्तस्य अङ्गस्य गुणः भवति | यथा भू + शप्‌ → भो + अ | तादृशकार्यम्‌ अस्मिन्‌ पाठे न कुत्रापि भविष्यति यतोहि धातुः हलन्तः; इगन्तधातुः अत्र नैव भवति | परन्तु अस्मिन्‌ पाठे कुत्रचित्‌ उपधायां लघु इक्‌ वर्तते, अतः तादृशेषु स्थलेषु पुगन्तलघूपधस्य च इत्यनेन उपधायां गुणकार्यम्‌ | यथा विद्‌-धातुः + ति → वेद्‌ + ति | अन्यच्च कुत्रचित्‌ विशिष्टसूत्रेण उपधायाः वृद्धिरादेशो भवति | यथा मृज्‌ + ति → मार्ज्‌ + ति |


b) सन्धिकार्यम्‌

यदा तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं समाप्तं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनं क्रियते | यदा मेलनं भवति, तदा कस्यचित्‌ सन्धिकार्यस्य प्राप्तिरस्ति चेत्‌, अस्मिन्‌ समये क्रियताम्‌ | अधुनैव पूर्वतनेषु हल्‌-सन्धि-पाठेषु यत्‌ हल्‌-सन्धिकार्यम्‌ अधीतं, तत्‌ साधनीयम्‌ | कानिचन प्रसिद्धसूत्राणि मनसि स्युः—


परस्मैपदस्य लोटि—

हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हुझल्भ्यः अङ्गेभ्यः हेः धिः |


परस्मैपदस्य लङि—

अपृक्त एकाल्‌ प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्‌, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल्‌ एकाल्‌, कर्मधारयः | अपृक्तः प्रथमान्तम्‌, एकाल्‌ प्रथमान्तं‌, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— एकाल्‌ प्रत्ययः अपृक्तः |


हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌ (६.१.६७) = हलन्तात्‌, दीर्घङ्यन्तात्‌, दीर्घाबन्तात्‌ च सु-ति-सि इत्येषाम्‌ अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्‌-लोपः, लङि प्रथमपुरुषे त्‌-लोपः, मध्यमपुरुषे स्‌-लोपश्च | हल्‌ च ङी च आप्‌ च तेषाम्‌ इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम्‌ | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात्‌ पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | लोपो व्योर्वलि (६.१.६५) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्‌— दीर्घात्‌ हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल्‌ लुप्यते |

सर्वेषु लकारेषु इमानि अधःस्थानि सूत्राणि प्रवर्तन्ते | धेयं यत्‌ इमानि सर्वाणि त्रिपाद्यं सन्ति, अतः पूर्वत्रासिद्धम्‌ इत्यनेन पूर्वसूत्रं चेत्‌ पूर्वकार्यम्‌, अपि च परसूत्रं चेत्‌ परकार्यम्‌ | नाम यत्‌ सूत्रं सङ्ख्या-क्रमेण प्रथमं आयाति, तस्य कार्यं पूर्वं भवति | अतः सूत्र-क्रमेण सर्वाणि दर्शितानि अत्र—


- संयोगान्तस्य लोपः (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगान्तस्य पदस्य लोपः |


धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | रात्सस्य (८.२.२४) इत्यस्मात्‌ सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धि च सस्य लोपः |

- स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्‌, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स्‌ च क्‌ च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |

- चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— चोः कुः झलि पदस्य अन्ते च |

- व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्‌, भ्रस्ज्‌, सृज्‌, मृज्‌, यज्‌, राज्‌, भ्राज्‌, छकारान्ताः शकारान्ताः चैषां धातूनाम्‌ अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श्‌ च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम्‌ | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्‌-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |

- झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः || तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | अनुवृत्ति-सहितसूत्रम्‌— पदस्य अन्ते झलां जशः |

षढोः कः सि (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— षढोः कः सि |

- नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |

- आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः एषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | अस्य कार्यस्य नाम षत्वविधिः | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |

- रषाभ्यां नो णः समानपदे (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः |

- अट्कुप्वाङ्‌नुम्व्यवायेऽपि (८.४.२) = अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌ इत्येतैः यथासम्भवं मिलितैः व्यवधानेऽपि नस्य णः स्यात्‌ समानपे | रषाभ्यां नो णः समानपदे (८.४.१) इति सूत्रस्य पूर्णतया अनुवृत्तिः |

- ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |

- झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— झलां जश्‌ झशि संहितायाम् |

- खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— झलां चर्‍‌ खरि च संहितायाम् ‌|

- अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |

- वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‍ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |

- झरो झरि सवर्णे (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात्‌ हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ अन्यतरस्याम्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |


एषां प्रसक्तिर्यत्र यत्र भवति, तत्र तत्र अस्माभिः तत्तत्‌ सन्धिकार्यं करणीयमेव | अनेन हलन्तधातवः द्रष्टव्याः | धेयं यत्‌ पूर्वतनेषु हल्‌-सन्धि-पाठेषु, हल्‌-सन्धयः परिशीलिताः केन क्रमेण ? प्रत्ययस्य प्रथमवर्णम्‌ अनुसृत्य | अधुना अस्माकं कार्यं प्रवर्तते धातोः अन्तिमवर्णम्‌ अनुसृत्य | कार्यं तदेव, परन्तु धातुक्रमेण अग्रे सरेम—