6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH

From Samskrita Vyakaranam
Revision as of 19:50, 15 May 2021 by Bina Radia (talk | contribs)

6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH
Jump to navigation Jump to search

ध्वनिमुद्रणानि -

2019-वर्गः

१) juhotyAdigaNe-halantadhAtavaH---paricayaH_+_भस_2019-08-13

२) juhotyAdigaNe-halantadhAtavaH---भस_+_धन_+_जन_+_धिष_+_णिजिर्_2019-08-20

३) juhotyAdigaNe-halantadhAtavaH---णिजिर्_+_धन_+_विजिर्_+_विष्‌ऌ_+_तुर_2019-08-27

2016-वर्गः

१) juhotyAdigaNe-halantadhAtavaH-1---paricayaH_+_भस्‌_2016-09-25 

२) juhotyAdigaNe-halantadhAtavaH-2---भस्‌_+_धन्‌_+_जन्‌_2016-10-02 

३) juhotyAdigaNe-halantadhAtavaH-3---जन्‌_+_धिष्‌_+_निजिर्‍_2016-10-09

४) juhotyAdigaNe-halantadhAtavaH-4---निज्‌_+_विज्‌_+_विष्‌_+_तुर्‍_2016-10-16


जुहोत्यादिगणे २४ धातवः सन्ति | तेषु १६ धातवः अजन्ताः, ८ धातवः हलन्ताश्च | १६ अजन्तधातवः अस्माभिः पूर्वमेव परिशीलिताः; अधुना अष्ट हलन्तधातवः द्रष्टव्याः | अस्माभिः ज्ञातं यत्‌, यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ इत्यनेन शप्‌ विहितः अस्ति | तदा जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः) भवति | अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते |


जुहोत्यादिभ्यः श्लुः (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य श्लु (लोपः) भवति | जुहोत्यादिः येषां ते जुहोत्यादयः, तेभ्यः जुहोत्यादिभ्यः | जुहोत्यादिभ्यः पञ्चम्यन्तं, श्लुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यस्मात्‌ शपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—जुहोत्यादिभ्यः शपः श्लुः |


अत्र प्रश्नः उदेति यत्‌ लुप्‌-श्लु‌ इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अदर्शनम्‌ इति तु अस्ति | लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति | एतदर्थं सूत्रम्‌ अस्ति प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) |


प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |


तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | श्लु‌ न तथा; प्रत्ययस्य श्लु‌ भवति चेत्‌ न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात्‌ | तद्विधायकं सूत्रम्‌ अस्ति न लुमताऽङ्गस्य (१.१.६३) |


न लुमताऽङ्गस्य (१.१.६३) = यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | लुः अस्य अस्ति इति लुमान्‌, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्‌, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |


अस्मिन्‌ सूत्रे लुमता‌, लुमत्‌ इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्‌ | इदं मतुप्‌-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान्‌ | मतुप्‌-प्रत्ययस्य अर्थः अस्य अस्मिन्‌ वा; यथा बुद्धिमान्‌ इत्युक्ते बुद्धिः अस्य अस्मिन्‌ वा, सः बुद्धिमान्‌ | तर्हि 'लु' अस्य अस्मिन्‌ वा, सः लुमान्‌ | व्याकरणे त्रयः लुमन्तः सन्ति‌— लुक्‌, श्लु, लुप्‌ चेति | इदं सूत्रं वक्ति यत्‌ येन अदर्शनं भवति, सः लुमान्‌ अस्ति चेत्‌, प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम्‌ | तर्हि अत्र सारांशः एवं यत्‌ श्लु‌ इत्यनेन कस्यचित्‌ प्रत्ययस्य अदर्शनं भवति चेत्‌, यस्मात्‌ अङ्गात्‌ सः प्रत्ययः लुप्तः जातः, तस्मिन्‌ अङ्गे सः लुप्तप्रत्ययः तदानीम्‌ अङ्गकार्यस्य निमित्तं न भवितुम्‌ अर्हति |


आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—


अदर्शनं लोपः (१.१.६०) = लोप-संज्ञया अदर्शनं विहितम्‌ |

प्रत्ययस्य लुक्श्लुलुपः (१.१.६१) = लुक्‌, श्लु, लुप्‌ इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम्‌ |

प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्‌ |

न लुमताऽङ्गस्य (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्‌ |


जुहोत्यादिगणे विकरणप्रत्ययः शप्‌ आसीत्‌, अनन्तरं तस्य श्लु‌ अभवत्‌ | लुमता शपः अदर्शनं जातम्‌, अतः धात्वङ्गे शप्‌-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ |


अत्र प्रश्नः आयाति यत्‌ 'श्लु' एकः प्रत्ययः अस्ति किम्‌ ? बोध्यं यत्‌ श्लु-निमित्तीकृत्य द्वित्वं भवति; अनेन प्रमाणितं यत्‌ प्रत्ययः अस्त्येव | श्लु इति अभावः नस्ति, अपि तु भावः एव | न दृश्यते, किन्तु भावः | एवमेव लोपः, लुक्‌लुप्‌ इत्येते सर्वे भावाः |