7---ArdhadhAtukaprakaraNam/16---luT-lakAraH
16 - लुट्-लकारः
गतरात्रेः अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन् अनद्यतनम् | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम् अन्तर्भूतं, तदा लृट्-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |
अनद्यतने लुट् (३.३.१५) = अनद्यतन-भविष्यत्कालार्थे धातोः लुट्-लकारो भवति | अनद्यतने सप्तम्यन्तं, लुट् प्रथमान्तं, द्विपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात् भविष्यति इत्यस्य अनुवृत्तिः; भविष्यत्-शब्दस्य 'भविष्यति' इति सप्तम्यन्तं रूपम् | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनद्यतने भविष्यति धातोः लुट् प्रत्ययः परश्च |
परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या (वार्तिकम्) = दुःखार्थे लुट्-लकारः अद्यतनकाले अपि भवति | 'इयं नु कदा गन्ता, या एवं पादौ निदधाति' (एषा कदा गमिष्यति या अनया रीत्या गच्छन्ती अस्ति) | 'अयं नु कदाऽध्येता, य एवम् अनभियुक्तः' (एषः कदा पठिष्यति, यः एवं प्रकारेण अलसः) |
पञ्च उपाङ्गानि
यदा आर्धधातुकप्रत्ययः धातुभ्यः विधीयते तदा अङ्गकार्यात् प्राक् पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति | इमानि पञ्च उपाङ्गनि सन्ति—
१) प्रत्ययादेशः २) धात्वादेशः ३) इडागमः ४) अतिदेशः ५) द्वित्वम् अभ्यासकार्यञ्च
संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति— लिटि, सनि, चङि, यङि, श्लौ | लुट्-लकारे न भवति, अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि |
१) प्रत्ययादेशः
अत्र लुट्-लकारस्य सिद्धतिङ्प्रत्ययानां प्रक्रिया प्रदर्श्यते | मनसि भवेत् यत् पूर्वं कश्चन धातुः अस्ति, ततश्च विवक्षामनुसृत्य लुट्-लकारो विधीयते |
धातुः → अनद्यतने लुट् (३.३.१५) इत्यनेन अनद्यतन-भविष्यत्कालार्थे धातोः लुट्-लकारो भवति
लुट् → उपदेशेऽजनुनासिक इत् (१.३.२) इत्यनेन उपदेशे उकारः अनुनासिकः अतः तस्य इत्-संज्ञा; हलन्त्यम् (१.३.३) इत्यनेन टकारस्य इत्-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन द्वयोः लोपः → ल् → स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तास्-प्रत्ययः → लस्य (३.४.७७), तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ (३.४.७८) इति द्वाभ्यां सूत्राभ्याम् अष्टादश मूलतिङ्प्रत्ययाः विधीयन्ते |
स्यतासी लृ-लुटोः (३.१.३३) = लृटि लृङि च परे धातुतः स्य; लुटि परे धातुतः तासि भवति | तासेरिकारः उच्चारणार्थः | स्यश्च तासिश्च तयोरितरेतरद्वन्द्वः स्यतासी | लृ च लुट् च तयोरितरेतरद्वन्द्वः लृलुटौ, तयोः लृलुटोः | स्यतासी प्रथमान्तं, लृलुटोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | धातोः (३.१.९१), प्रत्ययः (३.१.१), परश्च (३.१.२) इत्येषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्— धातोः परश्च स्यतासी प्रत्ययौ लृलुटोः | प्रथमपुरुषे लुटः प्रथमस्य डारौरसः (२.४.८५) इत्यनेन परस्मैपदे तिप् → डा, आताम् → रौ, झि → रस्; आत्मनेपदे त → डा, आताम् → रौ, झ → रस् |
लुटः प्रथमस्य डारौरसः (२.४.८५) = लुट्-लकारस्य प्रथमपुरुषस्थाने क्रमेण डा, रौ, रस् इत्यादेशाः भवन्ति | परस्मैपदे तिपः स्थाने डा, तसः स्थाने रौ, झि इत्यस्य स्थाने रस् | आत्मनेपदे त-स्थाने डा, आताम्-स्थाने रौ, झ-स्थाने रस् | डश्च रौश्च रश्च तेषामितरेतरद्वन्द्वः, डारौरसः | लुटः षष्ठ्यन्तं, प्रथमस्य षष्ठ्यन्तं, डारौरसः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— लुटः प्रथमस्य डारौरसः |
अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन डा-प्रत्ययः अनेकाल् अतः सर्वस्य स्थाने आदेशः भवति | अत्र प्रश्नः उदेति यत् डकारः इत्संज्ञकः इत्यतः "डा' इति कथम् अनेकाल् उच्येत | परिभाषेन्दुशेखरग्रन्थे परिभाषा अस्ति नानुबन्धकृतमनेकाल्त्वम् (परिभाषा ६) | अनेन यस्य वर्णस्य इत्संज्ञा अस्ति, तेन वर्णेन अनेकाल्त्वं न सिध्यति | अतः एतस्मात् डा इति अनेकाल् न स्यात् | परन्तु ततः अग्रे तस्मिन्नेव ग्रन्थे दत्तमस्ति यत् डादिविषये तु विनानुबन्धत्वस्यैवाभावेनानुपूर्व्यात्सिद्धम् | डादिविषये तु विनानुबन्धत्वस्यैव—तात्पर्यम् एवं यत् यावत् तिपः स्थाने डा नागच्छेत् तावत् तिपि विद्यमानप्रत्ययत्वं डा-आदेशे न भवति | प्रत्ययत्वं डा-आदेशे नास्ति चेत्, चुटू (१.३.७) इत्यस्य प्रसक्तिर्नास्त्येव | अतः इत्संज्ञा नास्ति, अनुबन्धत्वं च नास्ति | अतः 'परस्मैपदे तिप् → लुटः प्रथमस्य डारौरसः (२.४.८५)' इति स्थले डा-आदेशस्य प्रत्ययत्वाभावात् अनुबन्धत्वं नास्ति, तस्माच्च नानुबन्धकृतमनेकाल्त्वम् (परिभाषा ६) इति परिभाषायाः प्रसक्तिर्नास्ति | अनेन अलोऽन्त्यस्य (१.१.५२) इत्यनेन तिपः इकारस्यैव स्थाने डा इति निवार्यते |
चुटू (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्, छ्, ज्, झ्, ञ्), अथवा टवर्गीयः (ट्, ठ्, ड्, ढ्, ण्) वर्णः भवति चेत्, तस्य वर्णस्य इत्-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्, एकपदमिदं सूत्रम् | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— उपदेशे प्रत्ययस्य आदी चुटू इतौ |
ततः अग्रे च उच्यते यत् यदि इत्संज्ञायोग्यत्वेन अनुबन्धत्वं, तर्हि अनेकाल्त्वाभावे कथं वा सर्वादेशत्वं स्यात् | उत्तरत्वेन उक्तं यत् अभावेनानुपूर्व्यात्सिद्धम् | डा इत्यस्य आनुपूर्वी कृत्वा 'डा + आ'; आनुपूर्वी इत्युक्ते वर्णानां क्रमः | अत्र क्रमः अस्ति डकारः + आकारः | अयं च आकारः दीर्घः अतः अ + अ → आ इति भवितुम् अर्हति; आ + आ → आ इत्यपि भवितुमर्हति | इष्टमस्ति यत् अस्मिन् आदेशे अनेकालः स्युः; तस्य साधनार्थं डकारः गणयितुं न शक्यते चेत्, आकारे वस्तुतस्तु आकारद्वयं वर्तते (तथा कल्पितं, तथा सम्भवति च) इति परिभाषेन्दुशेखरकारः प्रतिपादयति | नाम आकारस्य प्रश्लेषः | (क्क्ङिति च १.१.५ इति सूत्रेऽपि तादृशप्रश्लेषः कृतः गित् इत्यस्य अन्तर्भावार्थम् |) अनेन च डकारं विनापि अनेकाल्त्वं तस्माच्च सर्वादेशत्वं सिद्धम् |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
परस्मैपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः
तास् + ति → लुटः प्रथमस्य डारौरसः (२.४.८५), ति-स्थाने डा-आदेशः → तास् + डा → चुटू (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास् + आ → टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम् इति कृत्वा डित्त्वसामर्थ्यात् टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य टि-भागलोपः → त् + आ → ता
टेः (६.४.१४३) = भसंज्ञकस्य अङ्गस्य टि-भागस्य डित्-प्रत्यये परे लोपः भवति ।
यचि भम् (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान् अतिरिच्य सु-प्रत्ययात् आरभ्य कप्-प्रत्ययपर्यन्तम् ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत् पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य् च, अच् च यच् समाहारद्वन्द्वः, तस्मिन् यचि | यचि सप्तम्यन्तं, भम् प्रथमान्तम्, द्विपदमिदं सूत्रम् | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्— स्वादिषु असर्वनामस्थाने यचि भम् |
तास् + तस् → लुटः प्रथमस्य डारौरसः (२.४.८५) → तास् + रौ → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → तारौ
रि च (७.४.५१) = तास्-प्रत्ययस्य सकारास्य लोपो भवति रेफादौ प्रत्यये परे | रि सप्तम्यन्तं, च अव्ययदं, द्विपदमिदं सूत्रम् | तासस्त्योर्लोपः (७.४.५०) इत्यस्मात् तासः, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— तासः अङ्गस्य रि लोपः |
तास् + झि → लुटः प्रथमस्य डारौरसः (२.४.८५), झि-स्थाने रस्-आदेशः → तास् + रस् → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → ता + रस् → तारस् → ससजुषो रुः (८.२.६६), करवसानयोर्विसर्जनीयः (८.३.१५) → तारः
तास् + सि → तासस्त्योर्लोपः (७.४.५०) इत्यनेन सकारलोपः → तासि
'तासस्त्योर्लोपः' (७.४.५०) = तास्-प्रत्ययस्य च अस्-धातोः सकारलोपो भवति सकारे परे । तासस्त्योः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | सः स्यार्द्धधातुके (७.४.४९) इत्यस्मात् सि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— तास्-अस्त्योः अङ्गस्य लोपः सि |
अवशिष्टानां किमपि कार्यं नास्ति, केवलं प्रत्यययोः मेलनम् |
तास् + थः → तास्थः तास् + थ → तास्थ तास् + मि → तास्मि तास् + वः → तास्वः तास् + मः → तास्मः
आत्मनेपदिसंज्ञकतिङ्प्रत्यय-सिद्धिः
तास् + त → लुटः प्रथमस्य डारौरसः (२.४.८५), त-स्थाने डा-आदेशः → तास् + डा → चुटू (१.३.७) इत्यनेन डकारस्य इत्संज्ञा लोपश्च → तास् + आ → टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये टि-भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति → अत्र टिभागलोपो न भवति चेत्, डा-प्रत्ययस्य डित्त्वं निष्प्रयोजनम् इति कृत्वा डित्त्वसामर्थ्यात् टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य टि-भागलोपः → त् + आ → ता
तास् + आताम् → लुटः प्रथमस्य डारौरसः (२.४.८५) → तास् + रौ → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → तारौ
तास् + झ → लुटः प्रथमस्य डारौरसः (२.४.८५), झ-स्थाने रस्-आदेशः → तास् + रस् → रि च (७.४.५१) इत्यनेन तास्-प्रत्ययस्य सकारलोपः → ता + रस् → तारस् → ससजुषो रुः (८.२.६६), करवसानयोर्विसर्जनीयः (८.३.१५) → तारः
तास् + थास् → थासः से (३.४.८०) इत्यनेन टित्-लकारस्य थास्-स्थाने से-आदेशः → तास् + से → सस्त्योर्लोपः (७.४.५०) इत्यनेन तास्-प्रत्ययस्य सकारलोपः सकारे परे → तासे थासः से (३.४.८०) = टित्-लकारस्य थास्-स्थाने से-आदेशो भवति | थासः षष्ठ्यन्तं, से लुप्तप्रथमान्तं, द्विपदमिदं सूत्रम् | टित आत्मनेपदानां टेरे (३.४.७९) इत्यस्मात् टितः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य थासः से |
तास् + आथाम् → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तासाथे
टित आत्मनेपदानां टेरे (३.४.७९) = टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो भवति | टितः षष्ठ्यन्तम्, आत्मनेपदानां षष्ठ्यन्तं, टेः षष्ठ्यन्तम्, ए लुप्तप्रथमान्तम्, अनेकपदमिदं सूत्रम् | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— टितः लस्य आत्मनेपदानां टेः ए |
तास् + ध्वम् → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशः → तास् + ध्वे → धि च (८.२.२५) इत्यनेन सकारलोपः → ताध्वे
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः |
तास् + इ → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास् + ए → ह एति (७.४.५२) इत्यनेन सकारस्थाने हकारादेशः → ताहे
ह एति (७.४.५२) = तासस्त्योः सकारस्य हकारादशो भवति एति परे | हः प्रथमान्तम्, एति सप्तमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः |
तास् + वहि → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास्वहे
तास् + महि → टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन 'टि'-भागस्य एत्वम् → तास्महे
प्रश्नः भवति यत् स्यतासी लृ-लुटोः (३.१.३३) इति सूत्रे, 'तासि' इति प्रत्यये इकारः उच्चारणार्थः इति चेत्, हलन्त्यम् (१.३.३) इत्यनेन तास् इत्यस्य सकार लोपो भविष्यति | अत्र काशिकाकारः प्रतिपादयति यत्—
आत्मनेपदे प्रथमपुरुषैकवचने मन्-धातुः +तास् + त → लुटः प्रथमस्य डारौरसः (२.४.८५) → मन् + तास् +डा → टेः (६.४.१४३) इत्यनेन तास्-प्रत्ययस्य डित्-प्रत्यये, डित्त्वसामर्थ्यात् टि-भागलोपः → मन् + त् +डा → मन्त् + आ → अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे → उपधायां स्थितस्य नकारस्य लोपः भविष्यति यः अनिष्टः (धेयं यत् अत्र मन्त् इत्यस्य धातुसंज्ञा नास्ति, परन्तु अनिदितां हल उपधाया क्ङिति (६.४.२४) इति सूत्रे धातुसंज्ञा नापेक्षिता; केवलम् अनिदित् हलन्तम् अङ्गम्) | अस्य नकारलोपस्य निवारणार्थं काशिकायामस्ति—इदित्करणमनुनासिकलोपप्रतिषेधार्थम् | मन्ता | एतदर्थं तासि इदित् इत्युक्तम् |
अत्र च पक्षद्वयं वर्तते | एकस्मिन् पक्षे आभीयशास्त्रं नित्यं स्वीक्रियते, अपरस्मिन् च आभीयशास्त्रम् अनित्यं स्वीक्रियते | टेः (६.४.१४३), अनिदितां हल उपधाया क्ङिति (६.४.२४)—द्वयमपि आभीयशास्त्रम् | जयादित्यः आभीयशास्त्रम् अनित्यमिति न मन्यते, अतः टेः (६.४.१४३) इत्यनेन यः टि-भागः लोपः सः असिद्धः न भवति इति कारणतः नकारस्य लोपः जायमानः इत्यस्मात् तस्य निवारणार्थं तासि इदित् इति मत्वा एव निवारणं सिध्यति | वामनः तु आभीयशास्त्रम् अनित्यमिति मन्यते | अतः टेः (६.४.१४३) इत्यनेन यः टि-भागः लोपः सः असिद्धः इति कारणतः तासि इत्यस्य इकारः उच्चारणार्थः इति प्रतिपादयति |
अनिदितां हल उपधाया क्ङिति (६.४.२४) = अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधाया न लोपः क्ङिति |
अन्यः प्रश्नः उदेति यत् प्रथमपुरुषैकवचने तास् + त → लुटः प्रथमस्य डारौरसः (२.४.८५), त-स्थाने डा-आदेशः → तास् + डा
अस्मिन् प्रसङ्गे किमर्थं न टित आत्मनेपदानां टेरे (३.४.७९) इत्यनेन टित्-लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां 'टि'-भागस्य स्थाने एकार-आदेशो न स्यात् ? डा → डे | उत्तरमस्ति यत् अष्टाध्याय्यां बहुत्र सामान्यं भवति, तदा एव विशेषः | यथा लिङः सीयुट् (३.४.१०२) इत्यनेन लिङ्-लकारस्य प्रत्ययानां सीयुट्-आगमो भवति, इति सामान्यम् | अनेन परस्मैपदे अपि आत्मनेपदे अपि सीयुट्-आगम-विधानम् | तदा यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इत्यनेन लिङ्-लकारस्य परस्मैपदि-प्रत्ययानां यासुट्-आगमो भवति | इति विशेषः | अत्र लिङः सीयुट् (३.४.१०२) इति केवलं लिङ्लकारे भवति | तदा पुनः इतोऽपि विशिष्य यासुट् परस्मैपदेषूदात्तो ङिच्च (३.४.१०३) इति केवलं लिङ्लकारे, तत्र पुनः इतोऽपि विशिष्य केवलं परस्मैपदे | परन्तु— अत्र लुटः प्रथमस्य डारौरसः (२.४.८५) इति विशिष्टसूत्रं, केवलं लुट्-लकारे, तत्र पुनः केवलं प्रथमपुरुषे | अधुना टित आत्मनेपदानां टेरे (३.४.७९) इति आगच्छति, सामान्यसूत्रम् | तथा न भवति; अष्टाध्याय्यां प्रथमं सामान्यं, तदा विशेषः | अन्यच्च टिदादेशानां टेः एत्वं न भवति इति नियमः | सर्वत्र— लटि, लिटि, लुटि, लृटि, लेटि इत्येषां स्थाने ये आदेशाः भवन्ति, तेषां पुनः तेरेत्वं न भवति |
आत्मनेपदे सिद्धतिङ्प्रत्ययाः
परस्मैपदे सिद्धतिङ्प्रत्ययाः
आत्मनेपदे सिद्धतिङ्प्रत्ययाः
परस्मैपदे
आत्मनेपदे
अग्रे गत्वा अस्मिन् पाठे प्रत्येकं धातोः कृते केवलं प्रथमपुरुषैकेवचनान्तरूपं निर्मीयते यतोहि तद्ज्ञायते चेत् अवशिष्टरूपाणि अपि ज्ञायन्ते |
२) धात्वादेशः
अस्तेर्भूः (२.४.५२) | भविता | अस्तेर्भूः (२.४.५२) = आर्धधातुकविवक्षायाम् अस्-धातोः स्थाने भू-आदेशो भवति | अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन आदेशः सर्वस्य स्थाने न तु अन्त्यस्य | अस्तेः षष्ठ्यन्तं, भूः प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्तेः भूः आर्धधातुके |
ब्रुवो वचिः (२.४.५३) | वक्ता |
चक्षिङ्-धातुः— चक्षिङः ख्याञ् (२.४.५४) | ख्याता | क्शाता |
अजेर्व्यघञपोः (२.४.५६) | अज् → वेता |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
आदेच उपदेशेऽशिति (६.१.४५) | ध्यै → ध्याता
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा— ग्लै → ग्ला, म्लै → म्ला, ध्यै → ध्या, शो → शा, सो → सा, वे - वा, छो → छा |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) | भ्रस्ज् → भर्ष्टा, भ्रष्टा |
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + ता → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + ता → ष्टुना ष्टुः (८.४.४१) → भर्ष्टा
तदभावे— भ्रस्ज् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + ता → ष्टुना ष्टुः (८.४.४१) → भ्रष्टा
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) | मीञ् → मा → प्रमाता | मिञ् → मा → माता | दीङ् → दा → उपदाता |
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति । ली → ला → विलाता | आत्वाभावे विलेता |
ऊदुपधाया गोहः (६.४.८९) = गुहू (संवरणे) इति गुह्-धातोः उपधा-गुणादेशं प्रबाध्य ऊत्-आदेशो भवति अजादि-प्रत्यये परे | गुह उपधाया ऊत्स्यात् गुणहेतौ अजादौ प्रत्यये | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोहः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
धेयं यत् अत्र आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव; केवलम् गुणनिमित्तक-अजादि प्रत्यये परे | अतः लटि अपि भवति— गुह् + शप् + ति → गुह् + अ + ति → उपधागुणस्य प्रसङ्गत्वात् ऊत्-आदेशः → गूह् + अ + ति → गूहति |
आर्धधातुकप्रसङ्गे गुहू-धातुः वेट्; इडागमपक्षे ता-प्रत्ययः अजादिः | अतः गुह् → गूहिता | अजादिप्रत्ययाभावे न ऊत्वम् → गोढा |
अतो लोपः (६.४.४८) | चिकीर्ष → चिकीर्षिता |
अतो लोपः (६.४.४८) = अदन्ताङ्गस्य ह्रस्व-अकारलोपो भवति आर्धधातुके प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अतः अङ्गस्य नाम न केवलम् ह्रस्व-अकारः इत्यङ्गस्य, अपि तु ह्रस्व-अकारान्तस्य अङ्गस्य | अलोऽन्तस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः (न तु अङ्गस्य) | उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्* | अतः षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अनुदात्तोपदेश-वनति-तनोत्यादीना-मनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१), आर्धधातुके (६.४.४६) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूर्त्रम्— अतः अङ्गस्य लोपः आर्धधातुके उपदेशे |
यस्य हलः (६.४.४९) = हलुत्तरयशब्दलोपो भवति आर्धधातुकप्रत्यये परे | बेभिद्य → बेभिदिता |
क्यस्य विभाषा (६.४.५०) = हलः परयोः क्यच्-क्यङोः प्रत्यययोः लोपो वा स्यादार्धधातुके | समिध्य → समिधिता, समिध्यिता |
कृपेश्च अवकल्कने (विचारं करोति, चिन्तनं करोति) | कृपेश्च अवकल्कने |
कृपो रो लः (८.२.१८) | कृप् → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् → कल्प् → कल्पिता आत्मनेपदे / परस्मैपदे तासि च क्लृपः (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
कृपो रो लः (८.२.१८) इति सूत्रेण, आहत्य कृप्-धातोः रेफस्य लकारादेशः; कृप्-धातोः ऋकारस्य अंशः यः रेफसदृशः, तस्य स्थाने लकारसदृशादेशो भवति | यत्र कृप्-धातोः उपधायाः गुणः भवति कर्प्, तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलं; यत्र उपधागुणो न भवति, तत्र कृप् इत्यस्य ऋकारस्य स्थाने ऌकारदेशः अतः कॢप् इति फलम् | दृष्टान्तत्वेन अपरेषु स्थलेषु कथं अनेन सूत्रेण रूपं सिध्यति इत्यत्र प्रदर्श्यते—
लटि कल्पयति/ते | कृप् + णिच् → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः → कर्प् + इ → कृपो रो लः (८.२.१८) इत्यनेन रेफस्य स्थाने लकारादेशः → कल्प् + इ → कल्पि इति धातुः → कल्पि + शप् → कल्पय इति अङ्गम् → कल्पय + ति → कल्पयति/ते
३) इडागमः
इडागमपाठः पूर्वम् अधीतः | तत्र च सामान्यं ज्ञातम् | नाम, धातुः अपि सेट्, प्रत्ययः अपि इडानुकूलः इति चेत्, इडागमो भवति | तत्र च प्रत्ययप्रसङ्गे प्रमुखसूत्रत्रयम्—आर्धधातुकस्येड्वलादेः (७.२.३५), नेड् वशि कृति (७.२.८), तितुत्रतथसिसुसरकसेषु च (७.२.९) | तिङन्तप्रसङ्गे च तेषु एकमेव—आर्धधातुकस्येड्वलादेः (७.२.३५) |
अग्रे प्रत्यकं प्रत्ययविशेषे केचन विशिष्टनियमाः सन्ति ये केवलं तत्तत्प्रत्यये सम्बद्धः | तासः प्रसङ्गे तादृशसूत्रद्वयं वर्तते—
तासि च क्लृपः (७.२.६०) = कृप्-धातोः परस्य परस्मैपदसंज्ञक-तास् च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम् आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | गमेरिट् परस्मैपदेषु (७.२.५८) इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः | न वृद्भ्यश्चतुर्भ्यः (७.२.५९) इत्यस्मात् न इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यस्मात् से इत्यस्य सप्तम्यन्तस्य अनुकर्षणम् | अनुवृत्ति-सहितसूर्त्रं— क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च |
अत्र प्रश्नः उदेति अस्मिन् तासि च क्लृपः (७.२.६०) इति सूत्रे तासि इति पदस्य का आवश्यकता ? अपि च अनुवृत्तिसहितसूत्रे से इत्यस्य का आवश्यकता ? लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति, इत्युक्तम्; अन्यत्र कृप्-धातुः आत्मनेपदी | अतः पुनः 'तासि से' इति वदनस्य का आवश्याता ? उत्तरमेवं यत् तासि च क्लृपः (७.२.६०) इति सूत्रं सप्तमाध्याये; तस्य च अर्थपूर्तिः न भवितुम् अर्हति लुटि च क्लृपः (१.३.९३) इति प्रथमाध्यस्थसूत्रेण | अष्टाध्याय्यम् अर्थपूर्तिः भवति अनुवृत्त्या चा अधिकारसूत्रेण च | अत्र तादृशः अवसरः नास्ति अतः साक्षात् वदनस्यावश्यकता |
तीषसहलुभरुषरिषः (७.२.४८) = दिवादिगणे इष्-धातुः, सह्, लुभ्, रुष्, रिष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि-आर्धधातुकप्रत्ययाः विकल्पेन इडागमानुकूलाः | ति सप्तम्यन्तम्, इषसहलुभरुषरिषः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् |
तास्-प्रत्ययः तकारादि-आर्धधातुकप्रत्ययः अतः तस्य वा इडागमो भवति एभ्यः पञ्चभ्यः धातुभ्यः—
इष् → एष्टा / एषिता सह् → सोढा / सहिता लुभ् → लोब्धा / लोभिता रुष् → रोष्टा / रोषिता रिष् → रेष्टा / रेषिता
४) अतिदेशः
अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा, तस्मात् भिन्नो भवति | अनेन नूतनलक्षणम् अध्यारोप्यते | अष्टाध्याय्यां प्रथमाध्यायस्य द्विदीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि (विरलतया अन्यत्रापि प्राप्यते) | एभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः— ङित्त्वं, कित्त्वम्, अकित्त्वञ्च | १.२.१ इत्यस्मात् आरभ्य १.२.२६ इति यावत् अतिदेशप्रकरणम् | तस्मिञ्च प्रथमचत्वारि सूत्राणि सामान्यानि; १.२.५ इत्यस्मात् आरभ्य विशिष्टसूत्राणि; इमानि च सर्वाणि आर्धधातुकप्रक्रियायामेव |
सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रम्— सार्वधातुकमपित् (१.२.४) | इदञ्च सामान्यम् अतिदेशसूत्रम् | अवशिष्टत्रीणि सामान्यानि अतिदेशसूत्रणि आर्धधातुकप्रक्रियायां भवन्ति | एतावता अतिदेशसूत्रचिन्तनम् अधिकं नापेक्षितम् आसीत् यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकमपित् (१.२.४) | तदा आर्धधातुकप्रक्रियायां यत्र इडागमो न भवति—प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येते सर्वे अनिडादयः—एषु स्थलेषु अतिदेशसूत्रणि न प्रसक्तानि |
इतः आरभ्यः अतिदेशचिन्तनम् अपेक्षितम् |
यथोक्तम् आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि | तानि च—
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) विज इट् (१.२.२) विभाषोर्णोः (१.२.३)
इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति | लुटि एषां त्रयाणामपि कार्यं भवति | ततः अग्रे अस्मिन् लकारे विशिष्टातिदेशसूत्रणि नापेक्षितानि | (अत्र सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य | यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते, तत्र सर्वत्र एषां त्रयाणां प्रसक्तिर्भवति | अतः अत्र 'सामान्यसूत्रम् इत्युक्तौ प्रतययम् अवलम्ब्य न तु धातुमवलम्ब्य |)
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुव्रीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भबहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
लुटि सिद्धतिङ्प्रत्ययाः सर्वे ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति | एतदेव च गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य प्रयोजनं— गुणनिषेधः | अत्र प्रश्नः उदेति किमर्थम् उच्यते यत् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) केवलम् आर्धधातुकप्रक्रियायाम् ? किमर्थं न सार्वधातुकप्रक्रियायाम् अस्य कार्यं स्यात् ? अस्य उत्तरमिदं यत् सर्वे कुटादिगणः तुदादिगणे कश्चन अन्तर्गणः एव | नाम, सर्वे कुटदिगणीयाः धातवः तुदादिगणे एव | तुदादिगणे विकरणप्रत्ययः श; तस्य च 'श'-प्रत्ययस्य अपित्त्वात् सर्वत्र तुदादिगणे धातौ गुणनिषेधः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रस्य कार्यं तु गुणनिषेधः एव—यः सार्वधातुकप्रक्रियायां तुदादिगणे सार्वधातुकमपित् (१.२.४) इत्यनेन साधितः—अतः सार्वधातुकप्रक्रियायां तुदादिगणे गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इति सूत्रं निष्प्रयोजनम् |अपि च यथा अग्रे उच्यते, गाङ्-धातुः सार्वधातुकप्रक्रियायां न भवति यतोहि अयं गाङ् इङ्-धातोः स्थाने एव भवति | स च धात्वादेशः लिटि, लुङि, लृङि हि | नाम, कवलम् आर्धधातुकप्रक्रियायाम् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न | व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः कुटादित्वं कृत्-प्रत्ययेषु परेषु एव इति कृत्वा लुटि नास्ति |
प्रेरणार्थे णिच्, कर्मणि भावे यक्, परस्मैपदे आशीर्लिङ्, यङन्ताः, यङ्लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य कार्यं किमर्थं न जातम् ? णिच् णित् इत्यतः सूत्रस्य प्रसक्तिर्नास्ति; अपरेषु स्थलेषु कित्त्वात् ङित्त्वात् च गुणनिषेधत्वात् गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्य किमपि फलं नास्ति— यक् कित्, परस्मैपदे आशीर्लिङि किदाशिषि (३.४.१०४) इत्यनेन आशिषि लिङ: यासुट् कित्, यङ् च ङित् |
कुटादयः धातवः तेषां लुट्-लकाररूपाणि च अत्र प्रदर्श्यन्ते—
पञ्च अजन्तधातवः
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
कुटादिगणे हलन्तधातवः
गाङ् लिटि (२.४.४९) इत्यनेन लिटि, लुङि, लृङि च अयम् आदेशो भवति; लिटि नित्यं, लुङि, लृङि च विकल्पेन |
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा— उद् + विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङित् विभाषा |
यथा— ऊर्णु + इता → इता विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुविता
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इता → एचोऽयवायावः (६.१.७७) → ऊर्णविता
विज इट् (१.२.२), विभाषोर्णोः (१.२.३) इति द्वे सूत्रे सार्वधातुकप्रक्रियायं किमर्थं न भवति ? द्वेऽपि सूत्रे इडागमम् अवलम्ब्य कार्यं कुरुतः | स च इडागमः सार्वधातुकप्रक्रियायांं न भवति एव |
इति लुट्-लकारस्य अतिदेशकार्याणि समाप्तानि | त्रीणि अपि सूत्राणि सामान्यानि; अग्रे गत्वाऽपि आर्धधातुकप्रक्रियायां सर्वत्र एषां प्राप्तिर्भवति |
तर्हि एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययाः सिद्धः, तदा धातु-प्रत्यययोः मध्ये सामान्य-अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि—
१) धात्वादेशः— प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया ? २) इडागमः— धातोः इडागमदृष्ट्या मूलस्वभावः कः ? अपि च विद्यमान-प्रत्ययस्य प्रभावेन अनिट्-धातुः सेट् तु न जायमानः ? अथवा प्रत्ययस्य प्रभावेन सेट्-धातुः तु वेट् न जायमानः ? ३) अतिदेशः— केनचित् अतिदेशसूत्रेण प्रत्ययः ङिद्वत् अथवा किद्वत् इति भवति वा ?
अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् |
सामान्यम् अङ्गकार्यम्
केनचित् अतिदेशसूत्रेण तास्-प्रत्ययः ङिद्वत् नास्ति चेत्, इगन्तधातूनां च लघूपधधातूनां च इकः गुणादेशो भवति |
इगन्तधावः नी + लुट् → नी + तास् +तिप् → नी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → नेता अग्रे गत्वा सर्वत्र सिद्धतिङ्-प्रत्ययः प्रदर्श्यते हु + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → होता कृ +ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → कर्ता
इगन्तधातुः सेट् अस्ति चेत्, यान्तवान्तसन्धिरपि भवति | शी + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इता → एचोऽयवायावः (६.१.७७) → शय् + इता → शयिता यु + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → यो + इता → एचोऽयवायावः (६.१.७७) → यव् + इता → यविता
सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्, एकपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |
एचोऽयवायावः (६.१.७७) = एचः (ए, ओ, ऐ, औ इत्येषां) स्थाने क्रमेण अय्, अव्, आय्, आव् इत्यादेशाः भवन्ति अचि परे | क्रमेण इत्युक्तं यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा सूत्रस्य साहाय्येन | अय् च, अव् च, आय् च, आव् च, तेषाम् इतरेतरद्वन्द्वः, अयवायावः | एचः षष्ठ्यन्तम्, अयवायावः प्रथमान्तं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७६) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— एचः अयवायावः अचि संहितायाम् |
लघूपधधातवः लिख् → लिख् + इता → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इता → लेखिता मिद् → वृष् → क्लृप् → अत्र रूपद्वयं यतोहि अयं धातुः स्वभावतः सेट्, किन्तु तासि च क्लृपः (७.२.६०) इति सूत्रेण कृप्-धातोः परस्य परस्मैपदसंज्ञक-तासः इडागमो न भवति | (कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन तासि परे अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति |) तर्हि 'क्लृप् + इता’ अपि भवति, 'क्लृप् + ता’ अपि भवति; उभयत्र गुणकार्यम् | कल्पिता/कल्प्ता |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
मृज्-धातोः वृद्धिः
मृज् + ता → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टा
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, तुक्-सहित-छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
मृज्-धातुः वेट्, अतः 'मृज् + इता' इति रूपमपि कल्पनीयम् | अत्रापि वृद्धिकार्यं, किन्तु प्रत्ययः अजादिः अतः हल्सन्ध्यवसरो नास्ति | मार्जिता |
तास्-प्रत्ययः ङिद्वत् चेत् गुणनिषेधः
केनचित् अतिदेशसूत्रेण तास्-प्रत्ययः ङिद्वत् भवति चेत्, गुणकार्यं निषिध्यते |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
अतः ३५ कुटादयः धातवः अपि च विज्-धातुः, आहत्य ३६ धातुभ्यः तास्-प्रत्ययः ङिद्वत् भवति इति कारणतः क्क्ङिति च (१.१.५) इत्यनेन गुणः निषिध्यते |
यथा इगन्तधातुषु—
नू +इता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् → तास्-प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → नू +इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इकारान्त-उकारान्तधातुरूपि-अङ्गस्य इकारस्य उकारस्य च स्थाने क्रमेण इयङ् उवङ् आदेशो भवति अजादि-प्रत्यये परे → नुव् + इता → नुविता
धू + इता → गु + इता → कु + इता →
ऊर्णु + इता → → विभाषोर्णोः (१.२.३) इत्यनेन ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् →
लघूपधधातुषु—
डिप् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् → तास्-प्रत्ययः ञित्-णित्-भिन्न अतः ङिद्वत् → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → डिपिता
एवमेव— पुट् + इता → पुटिता स्फुर् + इता → कृड् + इता →
उद्विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणप्रसक्तिः → विज इट् (१.२.२) इत्यनेन तुदादिगणीय-विज्-धातुतः सर्वे विधीयमानाः सेट्-प्रत्ययाः ङिद्वत् → तास्-प्रत्ययः अत्र इडादिः → क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट्-लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम्—
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः २) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ४) णिजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ५) सन्नन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ६) यङन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ७) यङ्लुगन्तधातूनां लुट्-लकारस्य रूपसिद्धिः ८) क्यच्, क्यष्, क्यङ्-प्रत्ययान्तधातूनां लुट्-लकारस्य रूपसिद्धिः
अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत्, ‘इडादय-प्रत्ययाः' संयोजनीयाः | पुनः धातुः अनिट् इति चेत्, ‘अनिडादय-प्रत्ययाः' संयोजनीयाः |
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषाम् अजन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
आकारान्ताः च एजन्ताः च धातवः सामान्याः आकारान्तधातवः
यथा जानीमः, सर्वे एकाचः आकारान्तधातवः अनिटः सन्ति | अत्र च किमपि विशिष्टकार्यं न वर्तते |
दा + ता → दाता
परस्मैपदे
आत्मनेपदे
दरिद्रा-धातुः
अनेकाच्-धातवः सर्वे सेटः इति जानीमः | अत्र तादृशः एकः आकारान्तधातुः वर्तते— दरिद्रा-धातुः | तत्र च एकं वार्तिकमस्ति—
दरिद्रातेरार्धधातुके लोपो वक्तव्यः इत्यनेन दरिद्रा-धातोः आर्धधातुके प्रत्यये परे आकारलोपो भवति |
दरिद्रा + इता → दरिद्र् + इता → दरिद्रिता
एजन्तधातवः
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
धे + ता → आदेच उपदेशेऽशिति (६.१.४५) → धा + ता → धाता ध्यै + ता → आदेच उपदेशेऽशिति (६.१.४५) → ध्या + ता → ध्याता शो + ता → आदेच उपदेशेऽशिति (६.१.४५) → शा + ता → शाता गै + ता → आदेच उपदेशेऽशिति (६.१.४५) → गा + ता → गाता
इकारान्तधातवः
सामान्याः इकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | अपि च श्रि, श्वि इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः इकारान्तधातवः अनिटः |
जि + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → जे + ता → जेता चि + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → चेता अधि + इ + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → अधि + ए + ता → अध्येता
श्रि, श्वि इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
श्रि + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्रे + इता → एचोऽयवायावः (६.१.७७) → श्रयिता श्वि + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → श्वे + इता → एचोऽयवायावः (६.१.७७) → श्वयिता
डुमिञ् प्रेक्षणे
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
डुमिञ् + ता → मि + ता → 'सार्वधातुकार्धधातुकयोः' (७.३.८४) इत्यनेन गुणप्रसक्तिः → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → मा + ता → माता
ईकारान्तधातवः
सामान्याः ईकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | डीङ्, शीङ् इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकाचः ईकारान्तधातवः अनिटः |
नी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन आर्धधातुकप्रत्यये परे इगन्ताङ्गस्य इकः गुणः भवति → ने + ता → नेता भी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → भेता क्री + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → क्रे + ता → क्रेता
डीङ्, शीङ् इति धातू
इमौ द्वौ धातू सेटौ इति जानीमः |
डीङ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → डे + इता → एचोऽयवायावः (६.१.७७) → डयिता शीङ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → शे + इता → एचोऽयवायावः (६.१.७७) → शयिता
दीधी, वेवी
दीधी, वेवी इति द्वौ धातू अनेकाचौ अतः सेटौ
दीधीवेवीटाम् (१.१.६) = दीधीङ्, वेवीङ् इति धात्वोः च इट् इत्यागमस्य च, एषां गुणः वृद्धिः च न भवतः | दिधीश्च वेवीश्च इट् च तेषामितरेतरद्वन्द्वः दीधीवेवीटः, तेषां दीधीवेवीटाम् | इको गुणवृद्धी (१.१.३) इत्यस्मात् गुणवृद्धी इत्यस्य अनुवृत्तिः | न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— दीधी-वेवी-इटाम् इकः गुणवृद्धी न |
यीवर्णयोर्दीधीवेव्योः (७.४.५३) = यकारादिः च इकारादिः च प्रत्यये परे देधी, वेवी इति धात्वोः ईकारस्य लोपो भवति |
दीधी + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः → दीधीवेवीटाम् (१.१.६) इत्यनेन गुणनिषेधः → दीधी + इता → यीवर्णयोर्दीधीवेव्योः (७.४.५३) इत्यनेन धातोः ईकारलोपः → दीध् + इता → दीधिता
मीञ् हिंसायां, दीङ् क्षये इति द्वौ धातू
मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) = क्र्यादौ मीञ् हिंसायां, स्वादौ डुमिञ् प्रक्षेपणे, दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति ल्यपि विषये, एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये | नाम मी, मि, दी इत्येषां यदा गुणो वा वृद्धिर्व जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने आकारादेशो भवति | अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम-अलः वर्णस्य स्थाने एच्-आदेशः स्यात् | केषाञ्चित् च मतेन उपदेशे इत्यस्य अनुवृत्तिः न भवेत् | मीनातिश्च मिनोतिश्च दीङ् च तेषामितरेतरद्वन्द्वो मीनातिमिनोतिदीङः, तेषां मीनातिमिनोतिदीङाम् | मीनातिमिनोतिदीङां षष्ठ्यन्तं, ल्यपि सप्तम्यन्तं, चाव्ययपदं, त्रिपदमिदं सूत्रम् | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य सम्पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूर्त्रं— मीनातिमिनोतिदीङाम् आत् ल्यपि च एच (एज्निमित्ते प्रत्यये) उपदेशे अशिति |
(प्र +) मीञ् + ता → मी + ता → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → प्र +मा + ता → प्रमाता
(उप +) दीङ् + ता → दी + ता → मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इत्यनेन स्वादौ डुमिञ् प्रक्षेपणे इत्यस्य धातोः अन्त्यस्य अलः स्थाने आकारादेशो भवति एच्-निमित्त-शिद्भिन्न-प्रत्ययस्य च विषये → उप +दा + ता → उपदाता
लीङ् श्लेषणे ली श्लेषणे इति द्वौ धातू
विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) इत्यनयोः विकल्पेन आत्वादेशो भवति एचः विषये |
ली → ले → ला → विलाता | आत्वाभावे विलेता |
उकारान्तधातवः
सामान्याः उकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येतान् धातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तधातवः अनिटः |
हु + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → हो + ता → होता द्रु + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → द्रो + ता → द्रोता
षट् सेटः उकारान्तधातवः
यु, रु, नु, स्नु, क्षु, क्ष्णु इत्येते धातवः सेटः
यु + इता →
एवमेव रु, नु, स्नु, क्षु, क्ष्णु |
उकारान्ताः कुटादिधातवः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
लुटि सिद्धतिङ्प्रत्ययाः सर्वे ञित्-णित्-भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे ङिद्वत् भवन्ति | ततः सर्वत्र क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः भवति |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
गु पुरीषोत्सर्गे गु + ता → गुता
ध्रु गतिस्थैर्ययोः ध्रु + ता →
कुङ् शब्दे कु + ता →
ऊर्णु-धातुः
विभाषोर्णोः (१.२.३) = ऊर्णु-धातुतः विधीयमानाः इडादि-प्रत्ययाः विकल्पेन ङिद्वत् भवन्ति | विभाषा प्रथमान्तम्, ऊर्णोः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | विज इट् (१.२.२) इत्यस्मात् इट् इत्यस्य अनुवृत्तिः | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङिट् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— ऊर्णोः इट् ङिट् विभाषा |
यथा— ऊर्णु + इता → इता विकल्पेन ङिद्वत् अतः क्क्ङिति च (१.१.५) इत्यनेन एकस्मिन् पक्षे गुणनिषेधः → ऊर्णु + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उकारान्तधातुरूपि-अङ्गस्य उकारस्य स्थाने उवङ् आदेशो भवति अजादि-प्रत्यये परे → ऊर्णुविता
अपक्षे ङिद्वत्त्वं न भवति अतः गुणप्रसङ्गः—
ऊर्णु + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → ऊर्णो + इता → एचोऽयवायावः (६.१.७७) → ऊर्णविता
ऊकारान्तधातवः
सामान्याः ऊकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | इडागमपाठे 'सर्वे ऊकारान्तधातवः सेटः' इति अधीतवन्तः |
भू + इता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → भो + इता → एचोऽयवायावः (६.१.७७) → भविता पू + इता→ सार्वधातुकार्धधातुकयोः (७.३.८४) →
वस्तुतस्तु चत्वारः ऊकारान्तधातवः वेटः इत्यपि ज्ञातवन्तः वेट्-धातुपाठे | एते चत्वारः वेट्-धातवः सन्ति— द्वौ धू-धातू (धूञ् कम्पने स्वादौ क्र्यादौ च), द्वौ सू-धातू ('षूङ् प्राणिगर्भविमोचने' अदादिगणे, ‘षूङ् प्राणिप्रसवे' दिवादिगणे) | धू विधूनने, धूञ् कम्पने चुरादि चेति द्वौ धातू सेटौ |
इडादिपक्षे— धू + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + इता → एचोऽयवायावः (६.१.७७) → धविता |
एवेमेव सू + इता →
अनिडादिपक्षे— धू + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → धो + ता → धोता
एवेमेव सू + ता →
कुटादिधातवः
कुटादिगणे णू स्तवने, धू विधूनने इति द्वौ ऊकारान्तधातवः स्तः | द्वावपि सेटौ; द्वयोरपि कुटादिगणीयत्वस्य गुणनिषेधत्वात् उवङ्-आदेशः |
णू स्तवने → नुविता धू विधूनने → धुविता
णू + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः प्रसक्तः → क्क्ङिति च (१.१.५) इति सूत्रेण गुणनिषेधः→ नू + इता → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन अजादि प्रत्यये परे उवङ्-आदेशः → न् + उव् + इता → नुविता
एवमेव धू + इता →
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे |
ब्रू-धातोः वच् इति धात्वादेशः
ब्रू +तास् + तिप् → ब्रुवो वचिः (२.४.५३) इत्यनेन ब्रुवो वचिरादेशो भवति आर्धधातुकविषये → वच् +तास् + तिप् → वच् + ता → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति झलि परे → वक्ता
ब्रुवो वचिः (२.४.५३) = ब्रुवो वचिरादेशो भवति आर्धधातुकविषये | इकार उच्चारणार्थः | ब्रुवः षष्ठ्येकवचनं, वचिः प्रथमैकवचनं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ब्रुवः वचिः आर्धधातुके |
ऋकारान्तधातवः
सामान्याः ऋकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | वृङ्,वृञ् इति द्वौ धातू सेटौ; स्वृ-धातुः वेट्; एतान् त्रीन् धातून् विहाय अन्ये सर्वे एकाचः ऋकारान्तधातवः अनिटः |
कृ + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → कर् + ता → कर्ता धृ + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) → भृ + ता→ सार्वधातुकार्धधातुकयोः (७.३.८४) →
वृङ्,वृञ् इति द्वौ धातू सेटौ
वॄतो वा (७.२.३८) = वृ-धातोः ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति | वृ इत्यनेन वृङ्वृञोः सामान्येन ग्रहणम् |
वृङ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → वर् + इता → वरिता / वरीता
वृञ् + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) →
स्वृ-धातुः वेट्
इडादिपक्षे— स्वृ + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + इता → स्वरिता |
अनिडादिपक्षे— स्वृ + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → स्वर् + ता → स्वर्ता
ॠकारान्तधातवः
अत्र गुणकार्यं भवति यथापेक्षितं, सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रेण | यथा अधीतवन्तः इडागमपाठे, सर्वे एकाचः ॠकारान्तधातवः सेटः |
तॄ + इता → सार्वधातुकार्धधातुकयोः (७.३.८४) → तर् + इता → तरिता → वॄतो वा (७.२.३८) इत्यनेन ॠकारान्तेभ्यश्च धातुभ्यः इटो वा दीर्घो भवति → तरीता | तरिता, तरीता | शॄ + इता → जॄ + इता → गॄ + इता →
इति सर्वेषाम् अजन्तधातूनां लुट-लकारस्य रूपसिद्धिः समाप्तः |
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
हलन्तधातवः आधिक्येन सेटः यथा जानीमः |
यावन्तः हलन्तधातवः सेटः, तेषु ये लघूपधधातवः न, एषां किमपि कार्यं नास्ति— केवलं वर्णमेलनम् |
यथा— अर्च पूजायाम् → अर्च् → अर्च् + इता → अर्चिता चर्च परिभाषणहिंसातर्जनेषु → चर्च् → चर्च् + इता → चर्चिता टुयाचृ याञ्चायाम् → याच् → याच् + इता → याचिता घट चेष्टायाम् → घट् + इता → घटिता वन शब्दे → वन् + इता → वनिता प्रस् विस्तारे → प्रस् → प्रस् + इता → प्रसिता एवमेव— पठ् + इता → पठिता वद् + इता → वदिता मील् + इता → मीलिता मूष् + इता → मूषिता
ये सेट्-धातवः लघूपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
सेट् इदुपधधातवः
लिख् + इता → पुगन्तलघूपधस्य च (७.३.८६) → लेख् + इता→ लेखिता मिद् + इता → पुगन्तलघूपधस्य च (७.३.८६) → मेद् + इता→ मेदिता चित् + इता → पुगन्तलघूपधस्य च (७.३.८६) → चेत् + इता→ चेतिता
कुटादिगणीयः सेट् इदुपधधातुः एकः एव— डिप्-धातुः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
डिप् + इता → डिपिता
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) = इङ्-धातोः स्थाने यः गाङ्-धातुः तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | कुटादिगणे ३५ धातवः सन्ति; सर्वे धातवः तुदादिगणे सन्ति | कुट आदिर्येषां ते कुटादयः, बहुवीहिः | गाङ् च कुटादयश्च ते गाङ्कुटादयः, तेभ्यः कुटादिभ्यः | ञ् च ण् च तयोरितरेतरद्वन्द्वः ञ्णौ, ञ्णौ इतौ यस्य स ञ्णित् बहुव्रीहिः, न ञ्णित् अञ्णित्, द्वन्द्वगर्भो बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— गाङ्कुटादिभ्यः अञ्णित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
विज्-धातुः
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा— उद् + विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
सेट् उदुपधधातवः
ये सेट्-धातवः उदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
मुद् + इता → पुगन्तलघूपधस्य च (७.३.८६) → मोद् + इता→ मोदिता प्लुष् + इता → पुगन्तलघूपधस्य च (७.३.८६) → प्लोष् + इता→ प्लोषिता
कुटादिगणीयाः सेट्-उदुपधधातवः
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
ये सेट्-धातवः ऋदुपधाः, तेषां पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधा-गुणः भवति |
वृष् + इता → पुगन्तलघूपधस्य च (७.३.८६) → वर्ष् + इता → वर्षिता हृष् + इता → पुगन्तलघूपधस्य च (७.३.८६) → हर्ष् + इता → हर्षिता
कुटादिगणीयौ सेटौ ऋदुपधधातू द्वौ— कृड्, भृड्
गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ञित्-णित्-भिन्न-प्रत्ययः ङिद्वत् भवति | अतः एभ्यः धातुभ्यः क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधो भवति |
कृड् + इता → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → कृडिता भृड् + इता → गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१), क्क्ङिति च (१.१.५) → भृडिता
कृप्-धातोः धात्वादेशः च परस्मैपदे इडागमनिषेधः
कृप् + इता → पुगन्तलघूपधस्य च (७.३.८६) → कर्प् + इता → कृपो रो लः (८.२.१८) इत्यनेन् कृप्-धातोः रेफस्य लकारादेशः → कल्प् + इता → कल्पिता आत्मनेपदे (परस्मैपदे तासि च क्लृपः (७.२.६०) इत्यनेन इडागमनिषेधः अतः कल्प्ता |)
कृपो रो लः (८.२.१८) = कृप्-धातोः रेफस्य लकारादेशो भवति | र इति श्रुतिसामान्यं बोध्यम् | तेन यः केवलो रेफः, यश्च ऋकारस्थः तयोः द्वयोः अपि ग्रहणम् | लः इत्यपि श्रुतिसामान्यमेव | अतः आहत्य कृप्-धातोः यदा (गुणादेशं कृत्वा) रेफो भवति, तस्य रेफस्य स्थाने लकारादेशः; पुनः कृप्-धातोः ऋकारस्य यः रेफ-सदृश-अंशः, तस्य स्थाने लसदृश-अंशादेशो भवति— नाम ऋ-स्थाने ऌ | सूत्रे कृपो → कृप + उः इति विच्छेदः | कृप लुप्तषष्ठीकं पदम्, उः षष्ठ्यन्तं, रः षष्ठ्यन्तं, लः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | कृपः इत्यस्य द्विवारम् आवृत्तिः | सूत्रं स्वयं सम्पूर्णम्— कृपः उः कृपः रः लः |
तासि च क्लृपः (७.२.६०) = कृप्-धातोः परस्य परस्मैपदसंज्ञक-तास् च परस्मैपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययः च अनयोः इडागमो न भवति | नाम, केवलम् आत्मनेपदसंज्ञक-तासः च आत्मनेपदसंज्ञक-सकारादि-आर्धधातुकप्रत्ययस्य इडागमो भवति | कृपू-धातुः उपदेशे आत्मनेपदी, किन्तु लुटि च क्लृपः (१.३.९३) इत्यनेन स्य, सन्, तास् इत्येषु त्रिषु प्रत्ययेषु परेषु अयं कृप्-धातुः विकल्पेन परस्मैपदी अपि भवति | सिद्धान्तकौमुद्यां लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् | अतः लुटि परस्मैपदे इडागमाभावे 'कल्प्ता' | आत्मनेपदे इडागमे सति 'कल्पिता' | तासि सप्तम्यन्तं, चाव्ययं, क्लृपः पञ्चम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यस्य सम्पूर्णसूत्रस्य अनुवृत्तिः | गमेरिट् परस्मैपदेषु (७.२.५८) इत्यस्मात् परस्मैपदेषु इत्यस्य अनुवृत्तिः | न वृद्भ्यश्चतुर्भ्यः (७.२.५९) इत्यस्मात् न इत्यस्य अनुवृत्तिः | ‘च' इत्यनेन सेऽसिचि कृतचृतच्छृदतृदनृतः (७.२.५७) इत्यस्मात् से इत्यस्य सप्तम्यन्तस्य अनुकर्षणम् | अनुवृत्ति-सहितसूर्त्रं— क्लृपः परस्मैपदेषु आर्धधातुकस्येड्वलादेः न तासि से च |
ग्रह्-धातुः
ग्रहोऽलिटि दीर्घः (७.२.३७) =एकाच्-ग्रहेः विहितस्य इटः दीर्घः स्यात् न तु लिटि ।
ग्रह् + इता → ग्रहोऽलिटि दीर्घः (७.२.३७) → ग्रह् + ईता → ग्रहीता
एवमेव ग्रहीतुम् , ग्रहीतव्यम् |
चक्ष्-धातुः
चक्षिङ्-धातुः—
चक्ष्-धातोः ख्या / क्शा इति आदेशौ | यद्यपि चक्ष्-धातुः सेट्, तथापि तस्य ख्या/क्शा इति धात्वादेशौ अनिटौ |
चक्ष् + लुट् → ख्या + ता → ख्याता चक्ष् + लुट् → क्शा + ता → क्शाता
चक्षिङः ख्याञ् (२.४.५४) | ख्याता | क्शाता |
चक्षिङ्-धातोः आर्धधातुकप्रत्यये परे ख्याञ्-आदेशः | किन्तु अत्र भाष्यकारो वदति यत् क्शादिरयमादेशः, इत्युक्तौ आदेशः 'ख्या' न अपि तु 'ख्शा', तदा चर्त्वादेशेन 'क्शा' भवति | अपि चा पूर्वत्रासिद्धम् (८.२.१) इति अधिकारे एकं वार्तिकम् अस्ति ख्शाञः शस्य यो वा वक्तवयः | अनेन ख्शाञ् इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति | फलितार्थः अयं यत् आर्धधातुकप्रत्यये परे चक्षिङ्-धातोः स्थाने ख्याञ्, ख्शाञ् इति द्वौ आदेशौ सिद्धौ | एकवारं ख्याञ्, अपरस्मिन् पक्षे ख्शाञ् |
चक्षिङः ख्याञ् (२.४.५४) = चक्षिङः ख्याञादेशो भवति आर्धधातुके | चक्षिङः षष्ठ्यन्तं, ख्याञ् प्रथमान्तं, द्विपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चक्षिङः ख्याञ् आर्धधातुके |
अज्-धातुः
अज्-धातोः वी इति आदेशः | यद्यपि अज्-धातुः सेट्, तथापि तस्य वी इति धात्वादेशः अनिट् |
अज् + लुट् → वी + ता → सार्वधातुकार्धधातुकयोः (७.३.८४) → वे + ता → वेता
अजेर्व्यघञपोः (२.४.५६) | अज् → वेता |
अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
इति भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः समाप्तः |
३) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट्-लकारस्य रूपसिद्धिः
हलन्तधातुषु १०२ धातवः अनिटः इति जानीमः | अपि च हलन्तधातुषु ३७ धातवः वेटः इत्यस्माभिः दृष्टम् | एतेषु पुनः २४ धातवः ऊदितः, ८ धातवः रधादयः, अपि च एकः निर्-उपसर्गपूर्वक-कुष्-धातुः | सम्प्रति एतेषां सर्वेषां लुट्-लकारान्तरूपं साधयिष्यामः | धेयं यत् तास्-प्रत्ययः तकारादिः अतः सर्वत्र तकारे परे हल्-सन्धिः यथा भवति, तथैव अत्र सर्वत्र चिन्तनीयम् अस्ति |
कवर्गान्तधातवः
धातोः अन्तिमवर्णः ककारः, खकारः, अथवा गकारः चेत्, खरि च (८.४.५५) इत्यनेन चर्त्वं कृत्वा रूपसिद्धिः क्रियते |
एक एव एकाच् कवर्गान्तधातुः अनिट् अस्ति—
शक् + ता → खरि च (८.४.५५) → शक्ता
खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | झलां जश् झशि (८.४.५३) इत्यस्मात् झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात् चर्च इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर् खरि च संहितायाम् |
चवर्गान्तधातवः
एकाच्-चकारान्तधातवः - षड् धातवः अनिटः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन यथासङ्गं लघूपधधातूनाम् उपधागुणः भवति | तदा सर्वत्र चोः कुः (८.२.३०) इत्यनेन कुत्वं, तदा खरि च (८.४.५५) इत्यनेन चर्त्वम् |
पच् + ता → चोः कुः (८.२.३०) → पक् + ता→ खरि च (८.४.५५) + ता → पक् + ता → पक्ता वच् + ता → रिच् + ता → विच् + ता → सिच् + ता → मुच् + ता →
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च |
वेट्-चकारान्तधातवः—तञ्चू, व्रश्च्
तञ्चू, व्रश्च् इत्येतौ द्वौ धातू वेटौ |
तञ्चू-धातुः
इडादिपक्षे— तञ्च् + इता → तञ्चिता
अनिडादिपक्षे— अस्य साधनार्थं धेयं यत् वस्तुतस्तु नोपधधातूनां मूले दन्त्यनकारः एव अस्ति | तन्च् + ता → चोः कुः (८.२.३०) → तन्क् + ता → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → तंक् + ता → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → तङ्क्ता
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
व्रश्च-धातुः
इडादिपक्षे— व्रश्च् + इता → व्रश्चिता
अनिडादिपक्षे— व्रश्च् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → व्रष् + ता → ष्टुना ष्टुः (८.४.४१) → व्रष्टा
प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम् | सामान्यतया वदामः यत् 'वस्तुतः अत्र मूले सकारः आसीत्; श्चुत्वसन्धिना एव शकारः जातः' | अस्तु, तत्तु सत्यं; किन्तु अधुना शकारः अस्ति किल न तु सकारः | इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन सकारलोपः स्यात् ? अकृतव्यूहाः पाणिनीयाः (५६) इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन श्चुत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् स्तोः श्चुना श्चुः (८.४.४०) इति सूत्रं न प्रवर्तनीयमेव | अतः स्कारः तिष्ठति | व्रस्च् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) → व्रच् + ता |
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च |
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन |
व्यच्-धातुः
व्यच्-धातुः सेट् | अत्र विशेषवार्ता एवं यत् व्यचेः कुटादित्वमनसीति वक्तव्यम् इति वार्तिकेन व्यच्-धातोः परं यावन्तः अस्-भिन्न-कृत्-प्रत्ययाः सन्ति, ते सर्वे ङिद्वत् भवन्ति | परन्तु तिङ्-प्रत्ययाः तथा न भवन्ति | प्रत्ययः ङिद्वत् अस्ति चेत् व्यच् इति प्रकृतौ सम्प्रसारणं भवति | तिङ्-प्रत्ययाः वार्तिकस्य अन्तर्गते न सन्ति अतः ङिद्वत् न सन्ति | तदर्थं सम्प्रसारणं न भवति | व्यच् + इता → व्यचिता | एकाच्-छकारान्तधातुः - एक एव छकारन्तधातुः अनिट् अस्ति |
च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम्
प्रच्छ् + ता → च्छ्वोः शूडनुनासिके च (६.४.१९) → प्रश् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → प्रष् + ता → ष्टुना ष्टुः (८.४.४१) → प्रष्टा
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च |
जकारान्तधातवः
एकाच्-जकारान्तधातवः - १५ धातवः अनिटः
त्यज् + ता → चोः कुः (८.२.३०) → त्यग् + ता → खरि च (८.४.५५) → त्यक्ता भज् + ता → निज् + ता → पुगन्तलघूपधस्य च (७.३.८६) → नेज् + ता → चोः कुः (८.२.३०) → खरि च (८.४.५५) → नेक्ता विज् + ता → भुज् + ता → रुज् + ता → युज् + ता → भञ्ज् + ता → रञ्ज् + ता → स्वञ्ज् + ता → सञ्ज् + ता →
विशिष्ट-अनिट्-जकारान्तधातवः
धातौ आगमः मस्ज् - मस्जिनशोर्झलि (७.१.६०) सृज् - सृजिदृशोर्झल्यमकिति (६.१.५८)
मस्ज्-धातुः
मस्ज्-धातोः नुमागमः भवति झलादिप्रत्यये परे |
मस्जिनशोर्झलि (७.१.६०) = मस्ज्-धातोः च नश्-धातोः च नुम्-आगमो भवति झालादि-प्रत्यये परे | मस्जिश्च नश् च तयोरितरेतरद्वन्द्वः मस्जिनशौ, तयोर्मस्जिनशोः | मस्जिनशोः षष्ठ्यन्तं, झलि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | इदितो नुम् धातोः (७.१.५८) इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः, येन 'प्रत्यय'-पदस्यापि सूत्रार्थे आक्षेपः | अनुवृत्ति-सहितसूत्रम्— मस्जिनशोः अङ्गस्य नुम् झलि प्रत्यये |
मस्जेरन्त्यात्पूर्व नुम् वक्तव्यः इति वार्तिकेन मस्ज्-धातोः नुम्-आगमः भवति अन्त्यात् वर्णात् पूर्वम् |
मस्ज् + ता → मस्न्ज + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) → मन्ज् + ता → चोः कुः (८.२.३०) → मन्ग् + ता → नश्चापदान्तस्य झलि (८.३.२४) → मंग् → ता → खरि च (८.४.५५) → मंक् + ता → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → मङ्क्ता
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् | अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
सृज्-धातुः
सृजिदृशोर्झल्यमकिति (६.१.५८) इत्यनेन सृज्-धातोः अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे |
सृज् + ता → सृज् + अम् + ता → सृ-अ-ज् + ता → इको यणचि (६.१.७६) → स्रज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → स्रष् + ता → ष्टुना ष्टुः (८.४.४१) → स्रष्टा सृजिदृशोर्झल्यमकिति (६.१.५८) = सृज्-धातोः च दृश्-धातोः च अम्-आगमो भवति कित्-भिन्न-झलादि प्रत्यये परे | सृजिश्च दृश्च तयोरितरेत्तरद्वन्द्वः सृजिदृशौ, तयोः सृजिदृशोः | न कित् अकित् नञ्तत्पुरुषः, तस्मिन् अकिति | सृजिदृशोः षष्ठ्यन्तं, झलि सप्तम्यन्तम्, अम् प्रथमान्तम्, अकिति सप्तम्यन्तम्,अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णाम्— सृजिदृशोः अम् झलि अकिति |
धात्वादेशः भ्रस्ज् - भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) अज्-धातुः - अजेर्व्यघञपोः (२.४.५६) विज्-धातुः - विज इट् (१.२.२)
भ्रस्ज्-धातुः
भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) = भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने विकल्पेन रम्-आगमो भवति आर्धधातुक-प्रत्यये परे | 'रम्' इति आगमे अकारः उच्चारणार्थः; मकारः इत्संज्ञकश्च | कौमुदीकारः प्रतिपादयति यदत्र 'स्थाने' इत्यपि अस्ति, ‘आगमः' इत्यपि अस्ति; एकस्मिन्नेव सूत्रे उभे कार्ये | नाम 'रेफस्य उपधावर्णस्य च स्थाने’ भवति—स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः;अपि च रम् इति आगमः अस्ति मित्त्वादन्त्यादचः परः | रम् इत्यस्मिन् अकारः उच्चारणार्थः | रश्च उपधा च तयोरितरेतरद्वन्द्वो रोपधे, तयोः रोपधयोः | भ्रस्जः षष्ठ्यन्तं, रोपधयोः षष्ठ्यन्तं, रमश्च प्रथमान्तम्, अन्यतरस्यां सप्त्यम्यन्तम्, अनेकपदमिदं सूत्रम् | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूर्त्रं— भ्रस्जो रोपधयोः रम् अन्यतरस्याम् आर्धधातुके |
भ्रस्ज् + ता → भ्रस्जो रोपधयोः रमन्यतरस्याम् (६.४.४७) इत्यनेन भ्रस्ज्-धातोः रेफस्य उपधावर्णस्य च स्थाने, रम्-आगमः च → रेफसकारयोः निवृत्तिः → भज् → रेफः इति आगमः → भर्ज् → भर्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भर्ष् + ता → ष्टुना ष्टुः (८.४.४१) → भर्ष्टा
तदभावे— भ्रस्ज् + ता → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन संयोगाद्योः स्कोः लोपः झलि → भ्रज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि → भ्रष् + ता → ष्टुना ष्टुः (८.४.४१) → भ्रष्टा
अज् + लुट् → वेता | अजेर्व्यघञपोः (२.४.५६) = अजेर्धातोः वी इत्ययमादेशः स्यादार्धधातुकविषये घञ् च अप् च वर्जयित्वा | अजेः षष्ठ्यन्तं, वी प्रथमान्तम्, अघञपोः सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | आर्धधातुके (२.४.३५) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अजेः वी आर्धधातुके अघञपोः |
विज इट् (१.२.२) = तुदादिगणीय-विज्-धातुतः ('ओविजी भयचलनयोः' इत्यस्मात्) सर्वे विधीयमानाः इडादि-प्रत्ययाः ङिद्वत् भवन्ति | उद्विजिता, उद्विजितुम्, उद्विजितव्यम् | इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् | विजः पञ्चम्यन्तम्, इट्-प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— विजः इट् ङित् |
यथा— उद् + विज् + इता → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणादेशः प्रसक्तः → प्रत्ययः सेट् अतः ङिद्वत्; तस्मात् क्क्ङिति च (१.१.५) इत्यनेन गुणनिषेधः → उद्विजिता
यज्-धातुः - सन्धिविशेषः
यज् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन झलि परे षत्त्वम् |
वेट्-धातवः - अञ्जू, मृजू
अञ्ज्-धातुः
इडादिपक्षे— अञ्ज् + इता → अञ्जिता
अनिडादिपक्षे— अन्ज् + ता → चोः कुः (८.२.३०) → अन्ग् + ता → नश्चापदान्तस्य झलि (८.३.२४) → खरि च (८.४.५५) → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → अङ्क्ता
मृज्-धातुः
इडादिपक्षे— मृज् + इता → मृजेर्वृद्धिः (७.२.११४) → मार्जिता
अनिडादिपक्षे— मृज् + ता → मृजेर्वृद्धिः (७.२.११४) → मार्ज् + ता → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → मार्ष्टा
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकं भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
तवर्गान्तधातवः
तकारान्ताः थकारान्ताः च धातवः सर्वे सेटः |
एकाच्-दकारान्तधातवः - १५ धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति खरि च (८.४.५५) इति सूत्रेण |
अद् + ता → खरि च (८.४.५५) → अत् + ता → अत्ता | पद् + ता → सद्+ ता → शद्+ ता → हद्+ ता → खिद्+ ता → छिद्+ ता → भिद्+ ता → विद्+ ता → स्विद्+ ता → क्षुद्+ ता → तुद्,+ ता → नुद् + ता → स्कन्द + ता →
दकारान्तधातुषु द्वौ धातू वेटौ - क्लिद्, स्यन्द् क्लिद्-धातुः इडादिपक्षे— क्लिद् + इता → पुगन्तलघूपधस्य च (७.३.८६) → क्लेदिता
अनिडादिपक्षे— क्लिद् + ता → पुगन्तलघूपधस्य च (७.३.८६) → क्लेद् + ता → खरि च (८.४.५५) → क्लेत्ता
स्यन्द्-धातुः इडादिपक्षे— स्यन्द् + इता → अनिडादिपक्षे— स्यन्द् + ता →
एकाच्-धकारान्तधातवः - १० धातवः अनिटः | एते सर्वे सामान्याः— लघूपधाः चेत् पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति; सर्वेषां हल्सन्धिः भवति झषस्तथोर्धोऽधः (८.२.४०), झलां जश् झशि (८.४.५३) इति सूत्राभ्याम् |
१) झषस्तथोर्धोऽधः इत्यनेन प्रत्ययादौ त्, थ् इत्यनयोः स्थाने धकारादेशो भवति |
झषस्तथोर्धोऽधः (८.२.४०) = झष्-उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति, धा-धातुं वर्जयित्वा | तस्च थ् च तथौ इतरेतरद्वन्द्वः; तयोः, तथोः | तकारोत्तर-अकारः उच्चारणार्थम् अस्ति; अग्रे 'धः' इत्यस्य धकारोत्तर-अकारः अपि तथा | न धा, अधा नञ्तत्पुरुषः, तस्मात् अधः | झषः पञ्चम्यन्तं, तथोः षष्ठ्यन्तं, धः प्रथमान्तम्, अधः पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— झषः तथोः धः अधः |
२) तदा झलां जश् झशि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीयादेशो भवति |
झलां जश् झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— झलां जश् झशि संहितायाम् |
व्यध् सिध् + ता → क्रुध् क्षुध् बुध् युध् शुध् राध् साध् बन्ध्
द्वौ धकारान्तौ वेटौ धातू - सिध्, रध् सिध्-धातुः इडादिपक्षे— सिध् + इता → अनिडादिपक्षे— सिध् + ता →
रध्-धातुः
रधिजभोरचि (७.१.६१) इत्यनेन रध्-धातोः, जभ्-धातोः च नुमागमः अजादिप्रत्यये परे | परन्तु— नेट्यलिटि रधेः (७.१.६२) इत्यनेन रध्-धातोः नुमागमः न भवति लिट्-भिन्नप्रत्यये परे | अतः लुटि रध्-धातोः नुमागमो नास्ति |
इडादिपक्षे— रध् + इता → अनिडादिपक्षे— रध् + ता →
एकाच्-धकारान्तधातवः - द्वौ धातू अनिटौ | मन्, हन् |
अत्र नश्चापदान्तस्य झलि (८.३.२४), अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति सूत्राभ्याम् अनुस्वारः, तदा परसवर्णादेशः |
मन् + ता → हन् + ता →
Swarup - September 2019 |