9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH

From Samskrita Vyakaranam
Revision as of 03:52, 9 May 2021 by Raghupathi Acharya (talk | contribs) (Changes)

9---anye-vyAkaraNa-sambaddha-viShayAH/05---halsandhiH-sUtrasahitaRruShTiH
Jump to navigation Jump to search

ध्वनिमुद्रणानि -

१) Ch-3--hal-sandhi-paricayaH_+_shcutva-sandhiH_pp.29-30_2017-10-21

२) Ch-3--san-shambhu_+_ShTutva-sandhiH_pp.30-31_2017-10-28

३) Ch-3--jashtva-sandhiH_pp.32-34_2017-11-04

४) Ch-3--jashtva-sandhiH_+_cartva-sandhiH_+_anunAsika-sandhiH_pp.33-36_2017-11-11

५) Ch-3--cartva-anunAsika-sandhau_+_anusvAra-sandhiH_+_parasavarNasandhiH_pp.35-37_2017-11-18

६) Ch-3--anusvAra-sandhiH_+_parasavarNasandhiH_pp.36-38_2017-11-25

७) Ch-3--parasavarNasandhiH_+_ngamuDAgamasandhiH_pp.38-39_2017-12-02

८) Ch-3--pUrvasavarNasandhiH---tat-hitam_+_ut-sthAnam_p.40_2017-12-09

९) Ch-3--pUrvasavarNasandhiH_+_Chatva-sandhiH_pp.40-41_2017-12-16

१०) Ch-3--satva-sandhiH_p.42_2017-12-23

११) Ch-3--satva-sandhiH_+_ya-va-lopasandhiH_pp.42-43_2017-12-30

१२) 1st nine hal-sandhis---how to do rapid review to remember them all_2018-04-07

१३) hal-sandhi-samagra-cintanam_+_pUrvasavarNa-Chatva-satva-sandhiH_2018-04-14

१४) hal-sandhi-samagra-cintanam_+_satva-yavalopa-sandhiH_2018-04-21

१५) samAse-sandhi-cintanam_+_cit-cana_+_yavalopa-tugAgama-dvitva-sandhiH_2018-04-28



सूत्रेषु विभक्ति-अर्थः


षष्ठीविभक्तिः = स्थाने

सप्तमीविभक्तिः = पूर्वकार्यम्‌

पञ्चमीविभक्तिः = परकार्यम्‌

प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्‌

तृतीयाविभक्तिः = संयोजनम्‌


१. श्चुत्वसन्धिः


स्तोः श्चुना श्चुः (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः श्चुना श्चुः संहितायाम् |


भवत्‌ + चक्षुः → भवच्चक्षुः*

यज्‌ + नः → यज्‌ + ञ्‌ + अः → यज्ञः


शात्‌ (८.४.४४) = शकारात्‌ परस्य तवर्गस्य चुत्वं न स्यात्‌ | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्य निषेधकसूत्रम्‌ | शात्‌ पञ्चम्यन्तम्‌ एकपदमिदं सूत्रम्‌ | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात्‌ श्चुः इत्यस्य अनुवृत्तिः | तोः षि (८.४.४३) इत्यस्मात्‌ तोः इत्यस्य अनुवृत्तिः | न पदान्ताट्टोरनाम्‌ (८.४.४२) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— शात्‌ तोः श्चुः न संहितायाम् |


प्रश्‌ + नः → प्रश्नः |


  • धेयं यत्‌ यत्र सन्धिचिन्तनं भवति, सदा ज्ञातव्यं यत्‌ प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा | अत्र 'भवत्‌ + चक्षु' इति समासस्य प्रसङ्गः; अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः | तर्हि प्रमुखप्रश्नः भवति यत्‌ 'भवत्‌' इति पूर्वपदस्य पदसंज्ञा अस्ति न वा | समासस्य लौकिकविग्रहवाक्यं भवति, यथा 'भवच्चक्षुः' इत्यस्य कृते 'भवतः चक्षुः' इति लौकिकविग्रहवाक्यम्‌ | अलौकिकविग्रहः (शास्त्रीयविग्रहवाक्यम्‌) अपि भवति, यस्य द्वारा समासनिर्माणं सिध्यति | यथा 'भवच्चक्षुः' इत्यस्य 'भवत्‌ ङस्‌ + चक्षु सु' इति भवति | अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च (१.२.४६) इत्यनेन सूत्रेण | तदा सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति सुपो धातुप्रातिपदिकयोः (२.४.७१) इत्यनेन | 'भवत्‌ ङस्‌ + चक्षु सु' इत्यस्मिन्‌ ङस्‌, सु इत्यनयोः लुक्‌ → भवत्‌ + चक्षु | सुप्तिङन्तं पदम् (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'भवत्‌' इत्यस्य अन्ते सुप्‌ नास्ति; तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | इत्थञ्च पर्यवसितं यत्‌— सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति | (लुकि सति लुप्तपदम्‌ अधिकृत्य अङ्गकार्यं न भवति, किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम्‌ अतः पूर्वपदस्य पदसंज्ञां निमित्तीकृत्य सन्धिकार्यम्‌ इत्यादिकं प्रवर्तनीयम्‌ |) एतदाधारेण—


भवत्‌ + चक्षु → झलां जशोऽन्ते (८.२.३९) → भवद्‌ चक्षु → स्तोः श्चुना श्चुः (८.४.४०) → भवज्‌ चक्षु → खरि च (८.४.५५) → भवच्‌ + चक्षु → वर्णमेलने → भवच्चक्षु → प्रथमाविभक्तौ एकवचने भवच्चक्षुः |


एवमेव अग्रे यत्र कुत्रापि समासः अस्ति, तत्र पूर्वपदस्य पदसंज्ञा मनसि निधाय सन्धिचिन्तनं करणीयम्‌ |


२. ष्टुत्वसन्धिः


ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष्‌ च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष्‌ च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— स्तोः ष्टुना ष्टुः संहितायाम्‌ |


बालस्‌ + षष्ठः → बालष्षष्ष्ठः

बृहत्‌ + टीका → बृहट्टीका

आकृष्‌ + तः → आकृष्टः


तोः षि (८.४.४३) = तवर्गस्य ष्टुत्वं न स्यात्‌ षकारे परे | ष्टुना ष्टुः (८.४.४१) इत्यस्य निषेधकसूत्रम्‌ | तोः षष्ठ्यन्तं, षि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | ष्टुना ष्टुः (८.४.४१) इत्यसमत्‌ ष्टुः इत्यस्य अनुवृत्तिः | न पदान्ताट्टोरनाम्‌ (८.४.४२) इत्यस्मात्‌ न इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— तोः षि न ष्टुः संहितायाम्‌ |


भवान्‌ + षष्ठः → भवान्‌ षष्ठः [नकारस्य णकारादेशो न भवति]


न पदान्ताट्टोरनाम्‌ (८.४.४२) = पदान्तात्‌ टवर्गात्‌ स्तोः ष्टुः न स्यात्‌ नामः नकारं वर्जयित्वा | ष्टुना ष्टुः (८.४.४१) इत्यस्य निषेधकसूत्रम्‌ | न अव्ययपदं, पदान्तात्‌ पञ्चम्यन्तं, टोः पञ्चम्यन्तम्‌, अनाम्‌ लुप्तषष्ठीकं पदम्‌, अनेकपदमिदं सूत्रम्‌ | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात्‌ स्तोः इत्यस्य अनुवृत्तिः | ष्टुना ष्टुः (८.४.४१) इत्यस्मात्‌ ष्टुः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदान्तात्‌ टोः स्तोः ष्टुः न, अनाम्‌ संहितायाम्‌ |


षट्‌ + सन्तः → षट्‌ सन्तः [सकारस्य षकारादेशो न भवति]

षट्‌ + तरुणाः → षट्‌ तरुणाः [तकारस्य टकारादेशो न भवति]


परन्तु—

षण्‌ + नाम्‌ → षण्णाम्‌

षण्‌ + नवतिः → षण्णवतिः

षण्‌ + नगर्यः → षण्णगर्यः


अनेन वार्तिकेन नवतिः नगर्यः इति द्वौ शब्दौ अपि अन्तर्भूतापवादौ— अनाम्नवतिनगरीणामिति वाच्यम्‌ |


३. जश्त्वसन्धिः


पदान्ते जश्त्वम्—


झलां जशोऽन्ते (८.२.३९) = पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य अन्ते झलां जशः |


मरुत्‌ + वहति → मरुद्‌ + वहति → मरुद्वहति


झल्‌-प्रत्याहारे शकारः, सकारः, हकारः अपि सन्ति | तथापि एषां जश्त्वं न भवति यतोहि तत्र बाधकसूत्राणि सन्ति | पदान्ते शकारस्य षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | पदान्ते सकारस्य रु-आदेशो भवति ससजुषो रुः (८.२.६६) इति सूत्रेण | पदान्ते हकारस्य ढकारादेशो भवति हो ढः (८.२.३१) इति सूत्रेण |


सामान्यतया लोके 'पदान्ते' इत्युक्ते सुबन्तपदस्य अन्ते अथवा तिङन्तपदस्य अन्ते; एतादृशेषु स्थलेषु सुप्तिङन्तं पदम्‌ (१.४.१४) इति सूत्रेण पदसंज्ञा | यथा प्रथमाविभक्तौ 'विद्युत्‌' इति सुबन्तपदं, तस्य अन्ते च तकारः अतः अत्र पदान्ते झलां जशोऽन्ते (८.२.३९) इत्यनेन तकारस्य स्थाने दकारः, विद्युद्‌ इति भवति | एवमेव तिङन्ते 'अगच्छत्' इत्यस्मिन्‌ तकारः पदान्ते इति कृत्वा तकारस्य स्थाने दकारः, अगच्छद्‌ इति भवति | (तदा उभयत्र वाऽवसाने (८.४.५६) इत्यनेन विकल्पेन चर्त्वादेशः अतः 'विद्युत्‌', 'अगच्छत्‌' इति रूपे अपि भवतः |) किन्तु पदसंज्ञा केवलं सुबन्तस्य अथवा तिङन्तस्य इति न | कुत्रचित्‌ सुबन्तप्रक्रियायामपि पदसंज्ञा भवति, इत्युक्ते सुबन्तपदस्य निर्माणावसरे अपि कुत्रचित्‌ पदसंज्ञा भवति | तत्र स्वादिष्वसर्वनामस्थाने (१.४.१७) इति सूत्रेण पदसंज्ञा | अस्य सूत्रस्य अर्थः इत्यादिकम्‌ अत्र नापेक्षितं; केवलं कानिचन उदाहरणानि दीयन्ते यत्र सुबन्तपदस्य तिङन्तपदस्य च अन्ते नास्ति चेदपि पदसंज्ञा भवति इति कारणतः तत्रपि झलां जशोऽन्ते (८.२.३९) इत्यनेन एव जश्त्वं भवति | यथा अत्र 'द्विष्‌', 'षष्‌' इत्यनयोः पदसंज्ञा भवति—


द्विष्‌ + भ्याम्‌ → द्विड्भ्याम्‌

षष्‌ + भिस्‌ → षड्भिः


अधुना 'षडाननः' इति समासः | सुबन्तयोः एव समासो भवति अतः प्रथमतया षष्‌ + जस्‌ + आनन + जस्‌ इति भवति | षष् इति प्रातिपदिकं नित्यं बहुवचनान्तम्‌ | तदर्थं प्रथमाविभक्तौ सु-औ-जस्‌ इत्येषु बहुवचनार्थे जस्‌ इत्येव विधीयते | तदा विशेषणविशेष्यभावे आननशब्दस्य अपि बहुवचनान्तत्वम्‌ | षष्‌ जस्‌ + आनन जस्‌ इति अलौकिकविग्रहः | षष्-शब्दः षकारान्त-सङ्ख्यावाचकः | ष्णान्ता षट्‌ (१.१.२४) इत्यनेन षान्तानां नान्तानां च सङ्ख्यावाचकानां षट्‌-संज्ञा भवति | (धेयं यत 'षट्‌-संज्ञा' इति पाणिनेः एका विशिष्टसंज्ञा अस्ति; अस्याः तु षट्-शब्दस्य प्रयोगेणापि षट्‌ इति सङ्ख्यायाः अर्थो नास्ति |) षष्‌ इत्यस्य षान्तसङ्ख्यावाचकत्वात्‌ षट्‌-संज्ञा | षट्‌-संज्ञायां षड्भ्यो लुक्‌ (७.१.२२) इत्यनेन षड्भ्यः परयोः जस्‌-शसोः लुक्‌ स्यात्‌ | तस्मात्‌ षष्‌ इत्यस्य जसः लुक्‌ भवति | षष् जस्‌ → षष् इत्येव सुबन्तं*; सुबन्तत्वात्‌ सुप्तिङन्तं पदम्‌ (१.४.१४) इति सूत्रेण एव पदसंज्ञा | ततः झलां जशोऽन्ते (८.२.३९) इत्यनेन षकारस्य स्थाने डकारः, षड् इति भवति | इदं षडानन-पदं बहुव्रीहिः इति कारणतः अन्ततो गत्वा षड्‌ आननानि यस्य सः षडाननः इति कृत्वा एकवचने पुंलिङ्गे भवति |


षष्‌ + आननः → झलां जशोऽन्ते (८.२.३९) इत्यनेन षकारस्य जश्त्वम्‌ → षडाननः


  • षष्‌ इत्यस्य जसः लुक्‌ जातं चेदपि प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इति सूत्रेण प्रत्ययलक्षणं भवति | अतः 'जस्‌' इति सुप्‌-प्रत्ययः अधुना न दृश्यते चेदपि षष्‌ सुबन्तम्‌ इति मन्तव्यम्‌ | 'जसः लुक्‌' इति कारणतः न लुमताऽङ्गस्य (१.१.६३) इत्यनेन 'प्रत्ययलक्षणं न' इति चिन्त्यते चेत्‌, दोषो भवति | न लुमताऽङ्गस्य (१.१.६३) इत्यनेन यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌ सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | परन्तु अत्र अङ्गकार्यस्य विषयो नास्ति; अत्र 'पद' इति संज्ञा-विधानं न तु अङ्गकार्यम्‌ |


एतावता पदान्ते जश्त्वस्य उदाहरणानि दत्तानि आसन्‌ |


अत्र अपदान्ते जश्त्वम्—


झलां जश्‌ झशि (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | झश्‌-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन जश्‌-वर्णेषु वर्णनिर्धारणम्‌ | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां जश्‌ झशि संहितायाम् |


उष्‌ + ढि → उड्‌ + ढि → उड्ढि


४. चर्त्वसन्धिः


खरि च (८.४.५५) = झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— झलां चर्‌ खरि च संहितायाम् ‌|


अनेन सूत्रेण अपदान्ते चर्त्वादेशः नित्यः—


त्यग्‌ + स्यति → खरि च (८.४.५५) → त्यक्‌ + स्यति (→ आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वम्‌ → त्यक्ष्यति)


समासे अपि द्वयोः पदयोः संयोजनेन नूतनसमस्तपदस्य निर्माणे सति अपदान्ते चर्त्वादेशः नित्यः—


अस्मद्‌ + पुत्रः → खरि च (८.४.५५) → अस्मत्पुत्रः


वाक्यस्य स्तरे सन्धिः एव वैकल्पिकः; वाक्यस्तरे सन्धिः वक्तुः इच्छा इति चेत्‌, खरि च (८.४.५५) इत्यनेन चर्त्वं नित्यम्—


सुहृद्‌ पठति → सुहृत्पठति


वाक्यस्य अन्ते परन्तु स्थितिः भिन्ना; तत्र च भिन्नसूत्रेण चर्त्वं विधीयते—


वाऽवसाने (८.४.५६) = अवसाने झलः विकल्पेन चर्‍-आदेशो भवति | अनेन अवसानावस्थायां विकल्पेन जश्त्वं चर्त्वं वा | वा अव्ययपदम्‌, अवसाने सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः | अभ्यासे चर्च (८.४.५४) इत्यस्मात्‌ चर्‍ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अवसाने झलां चरो वा |


वदनावसरे लेखनावसरे च अग्रे कोऽपि शब्दः एव नास्ति चेत्‌ 'अवसानम्‌' इत्युच्यते | वाक्यस्य अन्ते पूर्णविरामः भवति, अतः तत्र 'अवसान'-संज्ञा भवति | तदर्थं संज्ञासूत्रम्‌ अस्ति—


विरामोऽवसानम्‌ (१.४.११०) = वर्णानाम्‌ अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्‌, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णं— विरामः अवसानम्‌ |


यथा—


अस्ति विद्युत्‌ |


अस्मिन्‌ वाक्ये विद्युत्‌ इति पदम्‌ अस्ति; पदान्ते तकारो विद्यते अतः झलां जशोऽन्ते (८.२.३९) इत्यनेन नित्यं दकारादेशो भवति—


विद्युत्‌ → झलां जशोऽन्ते (८.२.३९) → विद्युद्‌


अधुना अस्मिन्नेव वाक्ये विद्युत्‌-शब्दः वाक्यस्य अन्ते अस्ति; ततः अग्रे कोऽपि शब्दः नास्ति इति कृत्वा विरामोऽवसानम्‌ (१.४.११०) इत्यनेन अवसान-संज्ञा | तदर्थञ्च वाऽवसाने (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशो भवति—


विद्युत्‌ → तकारः पदान्ते, झलां जशोऽन्ते (८.२.३९) इत्यनेन नित्यं जश्त्वादेशः→ विद्युद्‌ → दकारः अवसाने, वाऽवसाने (८.४.५६) इत्येनन विकल्पेन चर्त्वादेशः → विद्युत्‌ / विद्युद्‌


५. अनुनासिकसन्धिः


यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) = पदान्तस्य यरः अनुनासिको वा स्यात्‌ अनुनासिके परे | स्थानेऽन्तरतमः इत्यनेन निर्धारणं क्रियते | कार्यं वैकल्पिकं; प्रत्यये परे तु नित्यम्‌ | यर्-प्रत्याहारे हकारं वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | यरः षष्ठ्यन्तं, अनुनासिके सप्तम्यन्तम्‌, अनुनासिकः प्रथमान्तं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | न पदान्ताट्टोरनाम्‌ (८.४.४२) इत्यस्मात् पदान्तात् इत्यस्य अधिकारः, तस्य च विभक्तिपरिमाणः इति कृत्वा षष्ठीविभक्तौ भवति | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— पदान्तस्य यरः अनुनासिकः वा अनुनासिके संहितायाम् |


तस्मात्‌ + न → तस्मान्न (अपक्षे तस्माद्न, झलां जशोऽन्ते (८.२.३९) इत्यनेन)

सुहृद्‌ + मित्रम्‌ → सुहृन्मित्रम्‌, सुहृद्मित्रम्

वाग्‌ + मूलम्‌ → वाङ्मूलम्‌, वाग्मूलम्


प्रत्ययानुनासिके परे नित्यं भवति प्रत्यये भाषायां नित्यम्‌ इति वार्तिकेन |


चिद्‌ + मयम्‌ → चिन्मयम्‌

तद्‌ + मात्रम्‌ → तन्मात्रम्‌


६. अनुस्वारसन्धिः


मोऽनुस्वारः (८.३.२३) = पदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति हलि परे | मः षष्ठ्यन्त्म्‌, अनुस्वारः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | हलि सर्वेषाम्‌ (८.३.२२) इत्यस्मात्‌ हलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदस्य मः अनुस्वारः हलि संहितायाम् |


गृहम्‌ + च → गृहं च


नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः, अनुस्वारः इत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |


रम्‌ + स्यते → रंस्यते


७. परसवर्णसन्धिः


अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य परसवर्णः ययि संहितायाम् |


मुं + चति → मुञ्चति


वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्‌ |


गृहम्‌ + च → गृहञ्च / गृहं च


यकारः, वकारः, लकारः परः चेत्‌, अनुस्वारस्य स्थाने क्रमेण य्‌ँ-कारः, व्‌ँ-कारः, ल्‌ँ-कारः च भवति |


सम्‌ + यमः → सं + यमः → सय्‌ँयमः / संयमः

सम्‌ + वादम्‌ → सं + वादम्‌ → सव्‌ँवादम्‌ / संवादम्‌

सम्‌ + लापः → सं + लापः → सल्‌ँलापः / संलापः


धेयं यत्‌ 'सम्‌' इति उपसर्गः अस्ति, अतः इदं सर्वं कार्यं पदान्ते— मोऽनुस्वारः (८.३.२३), वा पदान्तस्य (८.४.५९) इत्याभ्यां सूत्राभ्याम्‌ |


तोर्लि (८.४.६०) = तवर्गस्य लकारे परे परसवर्णः | तोः षष्ठ्यन्तं, लि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्मात्‌ परसवर्णः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— तोः परसवर्णः लि संहितायाम्‌ |


त्‌, थ्‌, द्‌, ध्‌, एभ्यः परो लकारः अव्यवहितः चेत्‌ जश्त्वं कृत्वा दकारः, तदा तोर्लि (८.४.६०) इत्यनेन लकारादेशः |


तत्‌ + लयः → तद्‌ + लयः → तल्‌ + लयः → तल्लयः |


नकारात्‌ परो लकारः अव्यवहितश्चेत्‌ नकारस्य परसवर्णः अनुनासिकः लकारः भवति |


विद्वान्‌ + लिखति → विद्वाल्‌ँलिखति |


८. ङमुडागमसन्धिः


ङमो ह्रस्वादचि ङमुण्‌ नित्यम्‌ (८.३.३२) = ह्रस्वात्‌ स्वरात्‌ परः यः ङम्‌, तदन्तात्‌ पदात्‌ उत्तरस्य अचः ङमुट्‌-आगमो भवति नित्यम्‌ | ङम्-प्रत्याहारे ङ्‌, ण्‌, न्‌ इति वर्णाः अन्तर्भूताः | येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रेण ङमन्तात्‌ पदात्‌ इति फलितार्थो भवति | ङमुट्‌ इत्यस्मिन्‌ टकारः इत्‌-संज्ञकः, उकारः उच्चारणार्थः, ङम्‌ च प्रत्याहारः; अनेन त्रयः आगमाः ङुट्‌, णुट्‌, नुट्‌ च | यथासंख्यमनुदेशः समानाम्‌ (१.३.१०) इत्यनेन पदान्ते क्रमेण ङकारः चेत्‌ ङुडागमः, णकारः चेत्‌ णुडागमः, नकारश्च चेत्‌ नुडागमः | ङमः पञ्चम्यन्तं, ह्रस्वात्‌ पञ्चम्यन्तम्‌, अचि सप्तम्यन्तं, ङमुट्‌ प्रथमान्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌, अनेकपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः, विभक्तिपरिणामेन पदात्‌ | अनुवृत्ति-सहितसूत्रं— ह्रस्वात्‌ ङमः पदात्‌ ङमुट्‌ अचि नित्यं संहितायाम्‌ |


कुर्वन्‌ + अस्मि → कुर्वन्नस्मि


९. पूर्वसवर्णसन्धिः


झयो होऽन्यतरस्याम्‌ (८.४.६२) = झयः उत्तरस्य हकारस्य विकल्पेन पूर्वसवर्णादेशो भवति | झयः पञ्चम्यन्तं, हः षष्ठ्यन्तम्‌, अन्यतरस्यां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | उदः स्थास्तम्भोः पूर्वस्य (८.४.६१) इत्यस्मात्‌ पूर्वस्य इत्यस्य अनुवृत्तिः; अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्मात्‌ सवर्णः इत्यस्य अनुवृत्तिः | अन्यतरस्याम्‌ इत्युक्ते विकल्पेन | अनुवृत्ति-सहितसूत्रं— झयः हः पूर्वस्य सवर्णः अन्यतरस्याम्‌ |


यद्यपि झय्‌ इत्युक्ते सर्वाणि अननुनासिक-वर्गीयव्यञ्जनानि, तथापि अत्र सर्वत्र झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वं कृत्वा तृतीयसदस्यादेशो भवति |


धर्म्यात्‌ + हि → झलां जशोऽन्ते (८.२.३९) → धर्म्याद्‌ + हि

वणिक्‌ + हसति → झलां जशोऽन्ते (८.२.३९) → वणिग्‌ + हसति

तत्‌ + हितम्‌ → झलां जशोऽन्ते (८.२.३९) → तद्‌ + हितम्‌


अन्यच्च अवधेयं यत्‌ हकारस्य पूर्वसवर्णादेशः सर्वत्र पूर्वतनवर्णस्य वर्गस्य चतुर्थः सदस्यः | नादः, घोषः, संवारः, महाप्राणः इति कारणतः | सामान्यतया सावर्ण्यं ज्ञायते मुखस्य स्थानेन; परन्तु यत्र स्थानेन निर्णयः असम्भवः, तत्र आभ्यन्तरप्रयत्नः प्रयुज्यते; यत्र आभ्यन्तरप्रयत्नेन निर्णयः असम्भवः, तत्र बाह्यप्रयत्नः प्रयुज्यते | हकारस्य स्थानम्‌ अस्ति कण्ठः; किन्तु अननुनासिक-वर्गीयव्यञ्जनेषु एकैकस्मिन्‌ वर्गे सर्वेषां स्थानं समानम्‌ इति कारणतः स्थानेन निर्णयः अशक्यः | हकारस्य आभ्यन्तरप्रयत्नः ऊष्माणः; श्‌, ष्‌, स्‌, ह्‌ इत्येव ऊष्माणाः अतः अनेन निर्णयः असम्भवः | हकारस्य बाह्यप्रयत्नः नादः, घोषः, संवारः, महाप्राणः | नादः, घोषः, संवारः इत्यस्ति वर्गीयव्यञ्जनानां तृतीय-चतुर्थ-पञ्चमाः च सदस्याः; तेषु केवलं चतुर्थसदस्यः महाप्राणः अतः हकारस्य स्थाने तत्तद्वर्गस्य चतुर्थसदस्यादेशो भवति | अत्र बाह्यप्रयत्नः इत्यनेन एव निर्णयः सम्भवति |


जगतः हिताय → समासे कृते → जगत्‌ + हिताय → झलां जशोऽन्ते (८.२.३९) इत्यनेन जश्त्वम्‌ → जगद्‌ + हिताय → झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यनेन विकल्पेन पूर्वसवर्णादेशः → जगद्धिताय/जिगद्‌हिताय


अत्र प्रश्नः उदेति यत्‌ झयो होऽन्यतरस्याम्‌ (८.४.६२) इति सूत्रस्य अन्तर्गतानि उदाहरणानि सर्वाणि पदान्ते; अपदान्ते दृष्टान्तो न दीयते | अपि च उच्यते यत्‌ अस्य सूत्रस्य प्रवर्तनात्‌ प्रागेव सर्वत्र झलां जशोऽन्ते (८.२.३९) इत्यस्य कार्यं भवति | झलां जशोऽन्ते (८.२.३९) केवलं पदान्ते प्रसक्तम्‌ | तर्हि अनेन अवगन्तव्यं किं यत्‌ झयो होऽन्यतरस्याम्‌ (८.४.६२) केवलं पदान्ते प्रवर्तते ?


वस्तुतः 'अपदान्ते' इत्युक्ते हकारः कस्यचित्‌ प्रत्ययस्य आदौ भवेत्‌; एक एव प्रत्ययः हकारादिः— हि-प्रत्ययः | किन्तु झयः परः हि-प्रत्ययो वर्तते चेत्‌ हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन धि-आदेशो भवति; तस्मात्‌ हि-प्रत्यये परे झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्य प्रसक्तिर्नास्ति | वच्‌ + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → वच्‌ + धि → → वग्धि |


अतः झयो होऽन्यतरस्याम्‌ (८.४.६२) इति सूत्रस्य कार्यं पदान्ते एव | तस्य च व्याख्याने समाधानं द्विधा वक्तुं शक्यते—

१) वा पदान्तस्य (८.४.५९) इत्यस्मात्‌ विभक्तिपरिणामं कृत्वा पदान्तात्‌ इति अनुवृत्तिः स्वीकार्या |

२) लोके अपदान्ते सूत्रस्य न कुत्रापि अवसरः इति कृत्वा सूत्रे 'पदान्ते' इति कथनस्य आवश्यकता नास्त्येव | अनेन लाघवम्‌— अपदान्ते न प्राप्यते, अतः पदान्ते नोक्तम्‌ |


हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम्‌ अन्ते झल्‌ | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हुझल्भ्यः अङ्गेभ्यः हेः धिः |


पूर्वसवर्णविशेषः— 'उत्थानम्‌'


उदः स्थास्तम्भोः पूर्वस्य (८.४.६१) = उत्‌-उपसर्गोत्तरयोः स्था-स्तम्भ-धात्वोः पूर्वसवर्णादेशो भवति | स्था च स्तम्भ्‌ च तयोरितरेतरद्वन्द्वः स्थास्तम्भौ, तयोः स्थास्थम्भोः | उदः पञ्चम्यन्तं, स्थास्तम्भोः षष्ठ्यन्तं, पूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यस्मात्‌ सवर्णः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— उदः स्थास्तम्भोः पूर्वस्य सवर्णः संहितायाम् |


आदेः परस्य (१.१.५४) = परस्य स्थाने यत्‌ कार्यं विधीयते, तत्‌ आदिमस्य अलः एव स्थाने भवति | पञ्चमीविभक्तौ यत्‌ कार्यं निर्दिष्टं, तत्‌ अग्रिमशब्दस्वरूपस्य आदिमवर्णस्य एव स्थाने न तु सम्पूर्णशब्दस्वरूपस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य बाधकसूत्रम्‌ | आदेः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात्‌ अलः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— परस्य आदेः अलः स्थाने |


झरो झरि सवर्णे (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात्‌ हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ अन्यतरस्याम्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |


उत्‌ + स्थानम्‌ → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → उद्‌ + स्थानम्‌ →खरि च (८.४.५५) → उत् + स्थानम्‌ → आदेः परस्य (१.१.५४) इत्यस्य साहाय्येन उदः स्थास्तम्भोः पूर्वस्य (८.४.६१) इत्यनेन पञ्चम्यन्तस्य 'उदः' इत्यस्य अग्रिमशब्दस्य प्रथमवर्णस्य स्थाने पूर्वसवर्णादेशः → 'स्थानम्‌' इत्यस्य सकारस्य पूर्वसवर्णादेशः, नाम दकारस्य दन्त्यवर्गे (तवर्गे) सकारेण तुल्यः वर्णः → स्थानेऽन्तरतमः (१.१.५०) इत्यनेन सकारस्य स्थाने थकारादेशः* → उत् + थ्थानम्‌ → झरो झरि सवर्णे (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे अतः विकल्पेन थकारलोपः → उत्‌ + थानम्‌ / थ्थानम्‌ → वर्णमेलने → उत्थानम्‌ / उत्थ्थानम्‌


  • सर्वेषां दन्त्यवर्णानां (त्‌, थ्‌, द्‌, ध्‌, न्‌, ल्‌, स्‌ इत्येषां) मुखस्य उच्चारणस्थानं समानमेव | अतः अनेन तेषु, सकारस्य स्थाने कः आदेशः भवेत्‌ इति निर्णेतुं न शक्यते | तदा आभ्यन्तरप्रयत्नेन अपि न शक्यते यतोहि सर्वेषां वर्गीयव्यञ्जनानाम्‌ (अत्र त्‌, थ्‌, द्‌, ध्‌, न्‌ इत्येषाम्‌) आभ्यन्तरप्रयत्नः स्पृष्टः; नाम एते वर्णाः स्पर्शाः | तदा लकारस्य आभ्यन्तरप्रयत्नः ईषत्स्पृष्टः, नाम अयम्‌ अन्तःस्थवर्णः | सकारस्य तु ईषद्विवृतः, नाम अयं वर्णः ऊष्माणः | आभ्यन्तरप्रयत्नेन त्‌, थ्‌, द्‌, ध्‌, न्‌, ल्‌ इत्येभ्यः सकारः भिन्नः अतः अनेनापि निर्णयो न सम्भवति | किन्तु बाह्यप्रयत्ने समाधानं प्राप्यते— तकारथकारयोः बाह्यप्रयत्नः विवारः, श्वासः, अघोषः; द्वयोः मध्ये थकारः महाप्राणः | सकारः अपि तथैव विवारः, श्वासः, अघोषः, महाप्राणः अतः सकारस्य स्थाने थकारादेशो भवति |


एवमेव उत्‌ + स्तम्भनम्‌ → उत्तम्भनम्‌ / उत्थ्तम्भनम्‌


१०. छत्वसन्धिः


शश्छोऽटि (८.४.६३) = पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ झयः च अन्यतरस्त्याम्‌ चेत्यनयोः अनुवृत्तिः | वा पदान्तस्य (८.४.५९) इत्यस्मात्‌ पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्‌' | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्‌ |


धेयं यत्‌ शश्छोऽटि त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं,श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक्‌ चर् इति सामान्यम्‌ |


तत्‌ + शिवः → झलां जशोऽन्ते (८.२.३९) इत्यनेन पदान्ते झलः स्थाने जशादेशः → तद्‌ + शिवः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन शकारस्य प्रभावेण दकारस्य श्चुत्वम्‌ → तज्‌ + शिवः → खरि च (८.४.५५) इत्यनेन झलः स्थाने चरादेशः खरि परे → तच्‌ + शिवः → शश्छोऽटि (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशः अन्यतरस्याम्‌ → तच्छिवः / तच्शिवः


छत्वममीति वाच्यम्‌ इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि | तत्‌ + श्लोकेन → तच्छ्लोकेन |


११. सत्वसन्धिः


अस्मिन्‌ सन्धौ अनेकसूत्राणि क्रमेण कार्यं कुर्वन्ति | सङ्क्षेपे पदान्त-नकारस्य स्थाने रु, तस्मात्‌ रु इत्यस्मात्‌ पूर्वं च विद्यमानस्वरः विकल्पेन अनुनासिकः; अननुनासिके पक्षे अनुस्वारागमः | तदा रु-स्थाने सकारः |


गच्छन्‌ + तावता → गच्छ + रु + तावता → गच्छँ / गच्छं + रु + तावता → गच्छँ / गच्छं + स्‌ + तावता → गच्छँस्तावता / गच्छंस्तावता


नश्छव्यप्रशान्‌ (८.३.७) = अम्‌-परे छवि नकारान्तस्य पदस्य रुः स्यात्‌, न तु प्रशान्‌-शब्दस्य | छव्‌-प्रत्याहारे छ्‌, ठ्‌, थ्‌, च्‌, ट्‌, त्‌ अन्तर्भूताः | अम्‌-प्रत्याहारे सर्वे स्वराः, यरलवमनाश्च अन्तर्भूताः | अम्‌-परे छवि इत्युक्ते कीदृशः छव्‌ ? यस्मात्‌ अम्‌-प्रत्याहारे कश्चन वर्णो विद्यते | येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रेण नः पदस्य इत्युक्ते तादृशपदस्य यस्य अन्ते नकारो भवति | 'पदान्ते' उक्तं 'भवन्ति' इत्यादिषु नकारस्य रुत्वनिवारणार्थम्‌ | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदस्य अन्तिमवर्णस्य स्थाने रु-आदेशः | नः षष्ठ्यन्तं, छवि सप्तम्यन्तम्‌, अप्रशान्‌ षष्ठ्यर्थकं प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | मतुवसो रु सम्बुद्धौ छन्दसि इत्यस्मात्‌ रु इत्यस्य अनुवृत्तिः; पुमः खय्यम्परे इत्यस्मात्‌ अम्परे इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— नः पदस्य रु अम्‌-परे छवि संहितायाम्‌ अप्रशान्‌ |


क्रमः एवं भवति—


नश्छव्यप्रशान्‌ इत्यनेन पदान्ते न्‌ → रु; उपदेशेऽजनुनासिक इत्, तस्य लोपः इत्याभ्यां रु → र्‍; अत्रानुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन अनुनासिकः ( ँ)-आदेशः; अनुनासिकात्‌ परोऽनुस्वारः इत्यनेन अनुनासिकस्य अपक्षे अनुस्वार-आगमः; खरवसानयोर्विसर्जनीयः इत्यनेन र्‍ → विसर्गः (ः); विसर्जनीयस्य सः इत्यनेन विसर्गः → स्‌ | तदा यथासङ्गं श्चुत्वं ष्टुत्वं च |


यथा—


कस्मिन्‌ + चित्‌ → कस्मि + रु + चित्‌ → कस्मिर्‍ + चित्‌ → कस्मिँ /कस्मिं + रेफः + चित्‌ → कस्मिँ /कस्मिं + ः + चित्‌ → कस्मिँ /कस्मिं + स्‌ + चित्‌ → कस्मिँ /कस्मिं + श्चित्‌ → कस्मिँश्चित्‌ / कस्मिंश्चित्‌*


एवमेव—

कान्‌ + चित्‌ → काँश्चित्‌ / कांश्चित्‌


  • बोध्यं यत्‌ अत्र समासस्य विषयो नास्ति | 'कस्मिन्‌' इति पृथक्‌ पदम्‌ अस्ति, चित्‌/चन अपि पृथक्‌ पदं; तदर्थं 'कस्मिन्‌' इति पदस्य विभक्तिः इदानीमपि दृश्यते | चित्‌/चन इति द्वयमपि पदम्‌, अव्ययञ्च | नश्छव्यप्रशान्‌ (८.३.७) इत्यनेन नकारान्तपदस्य एव नकार-स्थाने सकारः | तर्हि अत्र सन्धिः इत्येव विषयः न तु समासः | यथा संहितायां विषये कयोरपि द्वयोः पदयोः सन्धिः भवति, तथैव अत्र |


तर्हि अत्र सन्धिचिन्तनप्रसङ्गे 'कस्मिन्‌' तु पदमस्ति इति कारणतः 'कस्मिन्‌ + चित्‌' इति स्थितौ नश्चापदान्तस्य झलि (८.३.२४) इत्यस्य प्रसक्तिर्नास्ति | एवमेव सर्वत्र चित्‌/चन प्रसङ्गे चिन्तनीयं भवति | यथा‌ कम्‌ + चित्‌ इति स्थितौ कम्‌ इत्यस्य पदसंज्ञा इति कारणतः मोऽनुस्वारः (८.३.२३) , तदा वा पदान्तस्य (८.४.५९) इति भवति न तु नश्चापदान्तस्य झलि (८.३.२४) अनुस्वारस्य ययि परसवर्णः (८.४.५८) इति | अतः कम्‌ + चित्‌ → कंचित्‌/कञ्चित्‌ इति रूपद्वयमपि साधु |


अत्रानुनासिकः पूर्वस्य तु वा (८.३.२) = अस्मिन्‌ रु-प्रकरणे, रु-इत्यस्मात्‌ पूर्ववर्ति-स्वरस्य स्थाने अनुनासिकादेशो विकल्पेन भवति | अधिकारसूत्रम्‌—८.३.२ इत्यस्मात्‌ आरभ्य ८.३.१२ पर्यन्तं यत्र यत्र रुत्वं विहितं, तत्र तत्र रु इत्यस्मात्‌ प्राक्‌ यः वर्णोऽस्ति, तस्य विकल्पेन अनुनासिकादेशो भवति | अस्मिन्‌ रुत्व-प्रकरणे यानि सूत्राणि सन्ति रुत्वविधायकानि, तेषु सूत्रेषु अयम्‌ अर्थः सर्वत्र अन्वेति | अस्मिन्‌ रुत्व-प्रकरणे च रुत्वं विधीयते अपदान्ते एव; पदान्ते रुत्वम्‌ अपरस्मिन्‌ प्रकरणे भवति अतः तत्र प्रकृतसूत्रस्य प्रवर्तनं नास्ति | अत्र अव्ययपदं, अनुनासिकः प्रथमान्तं, पूर्वस्य षष्ठ्यन्तं, तु अव्ययपदं, वा अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अत्रानुनासिकः पूर्वस्य तु वा संहितायाम्‌ |


अनुनासिकात्‌ परोऽनुस्वारः (८.३.४) = यस्मिन्‌ पक्षे अनुनासिकादेशो न भवति, तत्र रु-इत्यस्मात्‌ प्राक्‌ यः वर्णः, तस्य नित्यम्‌ अनुस्वार-आगमो भवति | फलितार्थः अयं यत्‌ अनुनासिकः न भवति चेत्‌, रोः पूर्वं यः वर्णः, तस्य अनन्तरम्‌ अनुस्वारागमो भवति | अनुनासिकात्‌ इत्युक्ते अनुनासिकं त्यक्त्वा; नाम यस्मिन्‌ पक्षे अनुनासिको न भवति | अनुनासिकात्‌‍ पञ्चम्यन्तं, परः प्रथमान्तम्, अनुस्वारः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | मतुवसो रु सम्बुद्धौ छन्दसि (८.३.१) इत्यस्मात्‌ रुः इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा रोः इत्यस्य अनुवृत्तिः | अत्रानुनासिकः पूर्वस्य तु वा (८.३.२) इत्यस्मात्‌ पूर्वस्य इत्यस्य पञ्चमीविभक्ति-विपरिणामं कृत्वा पूर्वस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनुनासिकात्‌ रोः पूर्वस्मात्‌ परः अनुस्वारः संहितायाम्‌ |


खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अवसानावस्थायाञ्च | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— पदस्य रः विसर्जनीयः खरवसानयोः संहितायाम्‌ |


विसर्जनीयस्य सः (८.३.३४) = विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यस्मात्‌ खरि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— विसर्जनीयस्य सः खरि संहितायाम्‌ |


अत्र प्रश्नः उदेति, किमर्थम्‌ अस्यां प्रक्रियायां सकारः पदान्ते भवति चेत्‌ ससजुषो रुः (८.२.६६) इत्यनेन पुनः रूत्वं न भवति ? यथा—


गच्छन्‌ + तावता → गच्छ + रु + तावता → गच्छँ / गच्छं + रेफः + तावता → गच्छँ / गच्छं + स्‌ + तावता → अत्र ससजुषो रुः (८.२.६६) इत्येनन रु-आदेशः स्यात्‌ | किमर्थं न भवति ?


ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |


१२. यवलोपसन्धिः


लोपः शाकल्यस्य (८.३.१९) = अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकल्यस्य मतेन | अपूर्वयोः इत्यनेन तादृशवकारयकारौ याभ्यां पूर्वम्‌ अ-वर्णः स्यात्‌ | शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन, नाम इदं विकल्पेन भवति | लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | व्योलघुप्रयत्नतरः शाकटयनस्य (८.३.१८) इत्यस्मात्‌ व्योः इत्यस्य अनुवृत्तिः | भोभगोअघोअपूर्वस्य योऽशि (८.३.१७) इत्यस्मात्‌ अपूर्वस्य च अशि चेत्यनयोः अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | पदस्य (८.१.१६) इत्यस्य अधिकारः; वचनविपरिणामं कृत्वा तदन्तविधिं कृत्वा पदान्तयोः | अनुवृत्ति-सहितसूत्रम्‌— अपूर्वयोः पदान्तयोः व्योः लोपः अशि संहितायां शाकल्यस्य |


यथा —


हरे + इह → एचोऽयवायावः (६.१.७७) → हरय् + इह → लोपः शाकल्यस्य (८.३.१९) → हर इह / हरयिह | अत्र आद्‌गुणः (६.१.८७) इत्यनेन गुणसन्धिः भवति स्म, परन्तु पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन आद्गुणः (६.१.८७) इत्यस्य दृष्ट्या लोपः शाकल्यस्य (८.३.१९) इत्यनेन यत्‌ कार्यं कारितं, तत्‌ असिद्धम्‌ |


उभौ + अपि → एचोऽयवायावः (६.१.७७) → उभाव्‌ + अपि → लोपः शाकल्यस्य (८.३.१९) → उभा अपि / उभावपि | अत्र अकः सवर्णे दीर्घः (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिः भवति स्म, परन्तु पूर्वत्रासिद्धम्‌ (८.२.१) इत्यनेन अकः सवर्णे दीर्घः (६.१.१०१) इत्यस्य दृष्ट्या लोपः शाकल्यस्य (८.३.१९) इत्यनेन यत्‌ कार्यं कारितं, तत्‌ असिद्धम्‌ |


इति परिशीलितं दृष्टान्तद्वयमपि अचि परे; अयं च वस्तुतः प्रमुखविषयः एव | किन्तु जिज्ञासा उदेति, हलि परे का गतिः ? लोपः शाकल्यस्य (८.३.१९) इत्यनेन 'अशि परे' इत्युक्तं; गीताप्रवेशे लिखितमस्ति यत्‌ "विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति | व्यञ्जने परे तु नित्यम्‌ |” सुबोधार्थम्‌ अयं विचारः दोषाय न, किन्तु सम्पूर्णरीत्या अवगमनार्थम्‌ अग्रे पठनीयम्‌—


लोपः शाकल्यस्य (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशि परे | एतावता च अस्माभिः दृष्टं किं भवति अचि परे | किन्तु हश्‌-वर्णाः अपि सन्ति; तेषु परेषु किं भवति ? एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते | तथापि अस्य बोधनार्थम्‌ एकम्‌ उदाहरणं पश्येम |


'पुरुषाः गच्छन्ति' इति स्थितौ वस्तुतः मूले 'पुरुषास्‌ गच्छन्ति' इति स्थितिः आसीत्‌ | तर्हि अस्मात्‌ आरभ्य एकवारं किं भवति इति अवलोकयाम—


(बहुवचने पुरुष + जस्‌ → पुरुष + अस्‌ →) पुरुषास्‌ गच्छन्ति → न विभक्तौ तुस्माः (१.३.४) इत्यनेन सकार-लोपः निषिध्यते → ससजुषो रुः (८.२.६६) इत्यनेन स्‌-स्थाने 'रु' → पुरुषा + रु + गच्छन्ति → रु इत्यस्य उकारस्य इत्‌-संज्ञालोपश्च → भोभगोअघोअपूर्वस्य योशि (८.३.१७) इत्यनेन आकारोत्तरस्य 'रु'-शब्दस्य रेफस्य यकारादेशः अशि परे → पुरुषाय्‌ + गच्छन्ति → लोपः शाकल्यस्य (८.३.१९) इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशि परे → परन्तु हलि सर्वेषाम्‌ (८.३.२२) इत्यनेन हलि परे अयं यकारलोपः नित्यः → 'पुरुषा गच्छन्ति' इति एकमेव रूपम्‌ |


तर्हि एतावता फलितार्थः कः इति चेत्‌, वकारयकारयोः लोपः विकल्पेन भवति अचि परे; हशि परे नित्यं न तु वैकल्पिकम्‌ | हशि किमर्थम्‌ ? यतोहि लोपः शाकल्यस्य (८.३.१९) इत्यनेन अशि परे लोपः वैकल्पिकः; हलि सर्वेषाम्‌ (८.३.२२) इत्यनेन हलि परे नित्यम्‌ | अश्‌ ऊन अच्‌ इत्युक्ते हश्‌; हश्‌ हलि अस्ति अतः हशि परे चेत्‌ लोपः नित्यः | खरि परे का गतिः ? खरि परे इयं परिस्थितिः न सम्भवति; यकारः न उदेति एव | पुरुषास्‌ + चरन्ति → ससजुषो रुः (८.२.६६) इत्यनेन स्‌-स्थाने 'रु' → खरवसानयोर्विसर्जनीयः (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे → पुरुषाः + चरन्ति → संहितायां विषये विसर्गस्य सकारः तदा स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन श्चुत्वम्‌ → पुरुषाश्चरन्ति


अन्यच्च हलि परे यकारस्य का गतिः इत्युक्तम्‌ | अधुना हलि परे वकारस्य का गतिः ? हलि परे वकारो न भवति एव इति कृत्वा यकारस्य चिन्तनम्‌ अलम्‌ | 'वकारान्तपदम्‌' इति तु तादृशं किमपि नास्ति; तदा सन्धिक्रमेऽपि तादृश्यं किमपि कार्यं नास्ति यस्मात्‌ वकारः सम्भवेत्‌ |


न विभक्तौ तुस्माः (१.३.४) = धातूनां तिङ्‌-प्रत्ययाः, सुबन्तानाम्‌ (इत्युक्ते नामपदानां) सुप्‌-प्रत्ययाः—एते सर्वे विभक्तयः इत्युच्यन्ते (विभक्तिश्च इति सूत्रेण) | एषां विभक्तीनां अन्ते यदि तवर्गीयः वर्णः (त्‌, थ्‌, द्‌, ध्‌, न्‌), सकारः, अथवा मकारः अस्ति, तर्हि इदं सूत्रं हलन्त्यम्‌ इत्यस्य कार्यं बाधते | हलन्त्यम्‌ इत्यनेन एषां वर्णानाम् इत्-संज्ञा भवति स्म, किन्तु न विभक्तौ तुस्माः इत्यनेन इत्‌-संज्ञा बाधिता भवति; अनेन इत्‌-संज्ञा न भवति | यथा सुप्‌-प्रत्ययाः जस्‌, भ्याम्‌, भिस्‌, अपि च तिङ्‌-प्रत्ययाः तस्‌, वस्‌, मस्‌—अत्र भ्याम्‌ इत्यस्य मकारः, तस्‌ इत्यस्य सकारः, एषां वर्णानाम्‌ इत्‌-संज्ञा भवति स्म, किन्तु न भवति |


ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ससजुषोः पदस्य रुः |


खरवसानयोर्विसर्जनीयः (८.३.१५) = पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अलोऽन्त्यस्य (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं— खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |


१३. तुगागमसन्धिः


छे च (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्‌-आगमो भवति | तुक्‌ कित्‌ अस्ति अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | ह्रस्वस्य पिति कृति तुक्‌ (६.१.७०) इत्यस्मात्‌ ह्रस्वस्य, तुक्‌ इत्यनयोः अनुवृत्तिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— ह्रस्वस्य तुक्‌ छे च संहितायाम्‌ |


यथा—


वृक्षस्य छाया → समासे कृते → वृक्ष + छाया → वृक्ष + तुक्‌ + छाया → वृक्ष + त्‌ + छाया → स्तोः श्चुना श्चुः (८.४.४०) → वृक्ष + च्‌ + छाया → वृक्षच्छाया


पदान्ताद्वा (६.१.७५) = दीर्घात्पदान्तात्‌ छे परे तुग्वा स्यात्‌ | पदान्तात्‌ पञ्चम्यन्तं, वा अव्ययपदं, द्विपदमिदं सूत्रम्‌ | छे च (६.१.७२) इत्यस्मात्‌ छे इत्यस्य अनुवृत्तिः | दीर्घात् (६.१.७४) इत्यस्य पूर्णतया अनुवृत्तिः | ह्रस्वस्य पिति कृति तुक्‌ (६.१.७०) इत्यस्मात्‌ तुक्‌ इत्यस्य अनुवृत्तिः | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— दीर्घात् पदान्तात्‌ तुक्‌ छे वा संहितायाम्‌ |


यथा—

मात्रा + छन्दः → पदान्ताद्वा (६.१.७५) → मात्राछन्दः (अथवा) → मात्रा + तुक्‌ + छन्दः → स्तोः श्चुना श्चुः (८.४.४०) → मात्रा + च्‌ + छन्दः → मात्राच्छन्दः / मात्राछन्दः


१४. द्वित्वम्‌


अनचि च (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | यरोऽनुनासिकेऽनुनासिको वा (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | अचो रहाभ्यां द्वे (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अचः यरः द्वे वा अनचि च संहितायाम्‌ |


सुधी + उपास्यः → इको यणचि (६.१.७६) → सुध्य्‌ + उपास्यः → अनचि च (८.४.४७) इत्यनेन यरः वा द्वित्वम्‌ → सुध्ध्य्‌ + उपास्यः → झलां जश्‌ झशि (८.४.५३) इत्यनेन जश्त्वम्‌ → सुद्ध्य्‌ + उपास्यः → सुद्ध्युपास्यः / सुध्युपास्यः


हल्‌-सन्धीनां क्रमः कथं ज्ञायते ?


पूर्वत्रासिद्धम्‌ (८.२.१) = अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः | प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः; अष्टमाध्यायस्य द्वितीयः, तृतीयः, चतुर्थश्च पादाः मिलित्वा द्वितीयभागः | प्रथमभागस्य नाम सपादसप्ताध्यायी; द्वितीयभागस्य नाम त्रिपादी | अनेन सूत्रेण यानि सूत्राणि सपादसप्ताध्याय्यां सन्ति, तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि | अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति, तानि प्रति परं स्थितानि सूत्राणि असिद्धानि | सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम् | त्रयाणां पादानां समाहारः त्रिपादी (द्विगुसमासः) | सप्तानाम्‌ अध्यायानां समाहारः सप्ताधायी; पादेन सहिता, सपादसप्ताध्यायी | पूर्वस्मिन्‌ इति पूर्वत्र | न सिद्धम्‌, असिद्धम्‌ | पूर्वत्र अव्ययम्‌, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रम्‌ अधिकारसूत्रम्‌; अष्टाध्याय्याः अन्तपर्यन्तं प्रवर्तते |


(पूर्वत्रासिद्धम्‌ (८.२.१) इत्यस्य कार्यं द्विविधं— शास्त्रासिद्धं, कार्यासिद्धं च | द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत्‌, परत्रिपादिसूत्रं स्वयम्‌ असिद्धम्‌ इति कारणात्‌ शास्त्रासिद्धम्‌ इत्युच्यते | पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत्, तर्हि तत्पश्चात्‌ सपादसप्ताध्यायिसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत्‌, तयोः मनसि परत्रिपादिसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन परत्रिपादिसूत्रेण यत्‌ किमपि क्रियते तत्‌ पूर्वत्रासिद्धम्‌ इत्यनेन असिद्धम्‌; इदं कार्यासिद्धम्‌ इत्युच्यते |)


हल्‌-सन्धि-सूत्राणि सर्वाणि त्रिपाद्याम्‌ | अतः एकत्र हल्‌-सन्धि-विधायकसूत्रद्वयम्‌ आयाति चेत्‌, परसूत्रस्य असिद्धत्वात्‌ पूर्वसूत्रम्‌ आगत्य कार्यं करोति | यत्‌ + जायते → झलां जशोऽन्ते (८.२.३९), स्तोः श्चुना श्चुः (८.४.४०) एकत्र आयातः → स्तोः श्चुना श्चुः इत्यस्य असिद्धत्वात् झलां जशोऽन्ते पूर्वं भवति → यद् + जायते → स्तोः श्चुना श्चुः इत्यनेन श्चुत्वम्‌ → यज्‌ + जायते → यज्जायते | एवमेव सर्वाणि हल्‌-सन्धि-सूत्राणि |


हल्‌-सन्धिः - सूत्रक्रमः

सन्धिः सूत्रसंख्या सूत्रम्‌ लघु संख्या
जश्त्वसन्धिः ८.२.३९ झलां जशोऽन्ते ६७
यवलोपसन्धिः ८.३.१९ लोपः शाकल्यस्य ३०
अनुस्वारसन्धिः ८.३.२३ मोऽनुस्वारः ७७
८.३.२४ नश्चापदान्तस्य झलि ७८
ङमुडागमसन्धिः ८.३.३२ ङमो ह्रस्वादचि ङमुण्‌ नित्यम्‌ ८९
श्चुत्वसन्धिः ८.४.४० स्तोः श्चुना श्चुः ६२
ष्टुत्वसन्धिः ८.४.४१ ष्टुना ष्टुः ६४
अनुनासिकसन्धिः ८.४.४५ यरोऽनुनासिकेऽनुनासिको वा ६८
चर्त्वसन्धिः ८.४.५५ खरि च ७४
परसवर्णसन्धिः ८.४.५८ अनुस्वारस्य ययि परसवर्णः ७८
८.४.५९ वा पदान्तस्य ८०
८.४.६० तोर्लि ६९
१० पूर्वसवर्णसन्धिः ८.४.६२ झयो होऽन्यतरस्याम्‌ ७५
११ छत्वसन्धिः ८.४.६३ शश्छोऽटि ७६


परिशिष्टं— पदान्ते नकारः, ततः अग्रे शकारः

सन्‌ + शम्भुः → चत्वारि रूपाणि— सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः |


सन्‌ + शम्भुः → शि तुक्‌ (८.३.३१) इत्यनेन तुक्‌-आगमः विकल्पेन → सन्‌ + त्‌ + शम्भुः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन तकारस्य चुत्वादेशः → सन्‌ + च्‌ + शम्भुः → स्तोः श्चुना श्चुः (८.४.४०) इत्यनेन नकारस्य चुत्वादेशः → सञ्‌ + च्‌ + शम्भुः → शश्छोऽटि (८.४.६३) इत्यनेन झयः उत्तरस्य शकारस्य अटि परे छकारादेशः विकल्पेन → सञ्‌ + च्‌ + छम्भुः → झरो झरि सवर्णे (८.४.६५) इत्यनेन हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे → सञ्‌ + छम्भुः → सञ्छम्भुः इति प्रथमं रूपम्‌ |


झरो झरि सवर्णे (८.४.६५) इत्यनेन विकल्पेन चकारस्य लोपो न भवति चेत्‌ सञ्च्छम्भुः इति द्वितीयरूपं; शश्छोऽटि (८.४.६३) इत्यनेन विकल्पेन छकारादेशो न भवति चेत्‌ सञ्च्शम्भुः इति तृतीयं रूपं; शि तुक्‌ (८.३.३१) इत्यनेन विकल्पेन तुक्‌-आगमो न भवति चेत्‌ सञ्शम्भुः इति चतुर्थरूपम्‌ |

एवमेव यत्र यत्र पदान्ते नकारः ततः अग्रे शकारः, तत्र सर्वत्र वैकल्पिकरूपचतुष्टयम्‌ | पश्यन्‌ + शृण्वन्‌ | गच्छन्‌ + शिक्षकः |

शि तुक्‌ (८.३.३१) = पदान्तस्य नकारस्य विकल्पेन तुक्‌-आगमो भवति शकारे परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः 'नः पदस्य' | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन तुक्‌ आगमः पदान्तनकारस्य अनन्तरम्‌ | शि सप्तम्यन्तं, तुक्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | नश्च (८.३.३०) इत्यस्मात्‌ नः इत्यस्य अनुवृत्तिः | हे मपरे वा (८.३.२६) इत्यस्मात्‌ वा इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— नः पदस्य तुक्‌ शि वा संहितायाम् |


झरो झरि सवर्णे (८.४.६५) = हल्‌-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात्‌ हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम्‌ (८.४.६२) इत्यस्मात्‌ अन्यतरस्याम्‌ इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् |


अस्माकं सुब्रह्मण्य-महोदयः अत्र इदं सन्धिप्रक्रियाचिन्तनं चित्रेण निरूपितवान्‌—






अस्माकं शीतल-भगिनी सुन्दररीत्या वर्णानां स्थानानि प्रयत्नान्‌ च कोष्ठकरूपेण निरूपितवती—





Swarup – March 2014 (additions October 2017)



धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.