9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam

From Samskrita Vyakaranam
Revision as of 12:26, 26 May 2021 by Vamsisudha (talk | contribs)

9---anye-vyAkaraNa-sambaddha-viShayAH/12---ChAtraiH-viracitAni-karapatrANi/sUtra-prasakti-prApti-tulnam
Jump to navigation Jump to search

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ > ‎12 - छात्रैः विरचितानि करपत्राणि‎ >



सार्वधातुकप्रकरणम् : अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः
सूत्रम् अनुवृत्ति-सहितसूत्रम्‌ भ्वादि गण

कार्यम्

भ्वादि गण निमित्तम् दिवादि गण

कार्यम्

दिवादि गण निमित्तम् तुदादि गण

कार्यम्

तुदादि गण निमित्तम्
तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३)

धातोः परश्च तिङ्‌-शित् प्रत्ययः

सार्वधातुकम्‌ |

अ/अ/अ शप् शित् अस्ति अ/अ/अ श्यन् शित् अस्ति अ/अ/अ श शित् अस्ति
सार्वधातुकार्धधातुकयोः

(७.३.८४)

इकः अङ्गस्य गुणः

सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

पुगन्तलघूपधस्य च (७.३.८६) पुगन्तलघूपधस्य च अङ्गस्य इकः

गुणः सार्वधातुकार्धधातुकयोः |

अ/अ/अ शप् शित् अतः तिङ्‌शित्

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा

अ/न श्यन् शित् अतः तिङ्‌शित्‌

सार्वधातुकम्‌ (३.४.११३) इत्यनेन

सार्वधातुक सज्ञा |

किन्तु श्यन् अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

अ/न श शित् अतः तिङ्‌शित्‌ सार्वधातुकम्‌

(३.४.११३) इत्यनेन सार्वधातुक सज्ञा |


किन्तु श अपित् - सार्वधातुकमपित्‌,

क्क्ङिति च - गुण निषेध:

कर्तरि शप्‌ (३.१.६८) धातोः शप्‌ प्रत्ययः परश्च कर्तरि

सार्वधातुके |

अ/अ/अ कर्तर्यर्थे सार्वधातुके प्रत्यये परे अ/न दिवादिभ्यः श्यन्‌ अ/न तुदादिभ्यः शः
सार्वधातुकमपित्‌ (१.२.४) सार्वधातुकम्‌ अपित्‌ ङित् | शप् पित् अस्ति अ/अ/अ श्यन् अपित् , शित् इत्यस्मात्

तिङ्‌शित्‌ सार्वधातुकम्‌ इत्यनेन

सार्वधातुकम्

अ/अ/अ श अपित् , शित् इत्यस्मात् तिङ्‌शित्‌

सार्वधातुकम्‌ इत्यनेन सार्वधातुकम्

क्क्ङिति च (१.१.५) क्क्ङिति च इकः गुणवृद्धी न | शप् पित् अस्ति अ/अ/अ सार्वधातुकमपित्‌ अ/अ/अ सार्वधातुकमपित्‌
दिवादिभ्यः श्यन्‌ (३.१.६९) दिवादिभ्यः धातुभ्यः श्यन्‌ प्रत्ययः

परश्च कर्तरि सार्वधातुके |

अ/अ/अ
तुदादिभ्यः शः (३.१.७७) तुदादिभ्यः धातुभ्यः श प्रत्ययः

परश्च कर्तरि सार्वधातुके |

अ/अ/अ
अनिदितां हल उपधाया क्ङिति

(६.४.२४)

अनिदितां हलः अङ्गस्य

उपधायाः नः लोपः क्ङिति |

शप् पित् अस्ति |

सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्

नास्ति

अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत् अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
रञ्ज्‌, भ्रंश् - द्वौ धातू शे तृम्फादीनां नुम्वाच्यः - इति वार्तिकेन

पुनः नुमागमः आनीयते |

ग्रहि ज्या वयि व्यधि वष्टि विचति

वृश्चति पृच्छति भृज्जतीनां ङिति

च (६.१.१६)

ग्रहि ज्या वयि व्यधि वष्टि विचति

वृश्चति पृच्छति भृज्जतीनां ङिति

किति च सम्प्रसारणम्‌ |

शप् पित् अस्ति |

सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्

नास्ति

अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत् अ/अ/अ सार्वधातुकमपित्‌ इत्यनेन ङिद्वत्
व्यध - धातुः व्रश्च्‌, प्रच्छ्‌, भ्रस्ज्‌, व्यच्‌ - चत्वारः धातवः
ॠत इद्‌ धातोः (७.१.१००) ॠतः धातोः अङ्गस्य इत्‌ | अ/न सार्वधातुकार्धधातुकयोः - इत्यनेन

ॠकारस्य गुणः

अ/अ/अ सार्वधातुकमपित्‌, क्क्ङिति च -

गुण निषेध:

अ/अ/अ सार्वधातुकमपित्‌, क्क्ङिति च -

गुण निषेध:

जॄष्‌, झॄष्‌ - द्वौ धातू कॄ, गॄ - द्वौ धातू
हलि च (८.२.७७) हलि च र्वोः धातोः उपधायाः इकः

दीर्घः |

पुगन्तलघूपधस्य च - इत्यनेन

इकः गुणः,

शप् (अ) - विकरणप्रत्ययः हलि

नास्ति

अ/अ/अ श्यन् (य) - विकरणप्रत्ययः हलि अस्ति श (अ) - विकरणप्रत्ययः हलि नास्ति
जॄष्‌, झॄष्‌ - द्वौ धातू > ॠत इद्‌ धातोः >

उरण्‌ रपरः > हलि च


दिवुँ, षिवुँ , स्त्रिवुँ , ष्ठिवुँ > हलि च

ओतः श्यनि ( ७.३.७१) श्यनि ओतः अङ्गस्य लोपः | विकरणप्रत्ययः शप् अ/अ/अ विकरणप्रत्ययः श्यन् विकरणप्रत्ययः श
दो, शो, छो, षो - चत्वारः धातवः
शमामष्टानां दीर्घः श्यनि (७.३.७४) शमाम्‌ अष्टानाम्‌ अङ्गानां अचः

दीर्घः श्यनि |

विकरणप्रत्ययः शप् अ/अ/अ विकरणप्रत्ययः श्यन् विकरणप्रत्ययः श
शमुँ, तमुँ, दमुँ, श्रमुँ, भ्रमुँ, क्षमूँ,

क्लमुँ, मदीँ - अष्ट धातवः

अचि श्नुधातुभ्रुवां य्वोरियङुवङौ

(६.४.७७)

य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां

इयङुवङौ अचि |

अ/न सार्वधातुकार्धधातुकयोः -

इत्यनेन इकार-उकरयोः गुणः

श्यन् (य) - विकरणप्रत्ययः हलि अस्ति अ/अ/अ श (अ) - विकरणप्रत्ययः अचि अस्ति
रि गतौ, पि गतौ, धि गतौ, क्षि गतौ -

चत्वारः इकारान्तधातवः |


गु, ध्रु, कुङ्‌, णू, धू, षू - षट्‌

उकारान्तधातवः|

रिङ् शयग्लिङ्‌क्षु (७.४.२८) ऋतः अङ्गस्य रिङ्‌ यि

असार्वधातुके शयग्लिङ्‌क्षु |

विकरणप्रत्ययः श, यक् , यि

असार्वधातुक लिङ् नास्ति

विकरणप्रत्ययः श, यक् , यि

असार्वधातुक लिङ् नास्ति

अ/अ/अ विकरणप्रत्ययः श
मृङ्‌, पृङ्‌, दृङ्‌, धृङ्‌ - चत्वार: धातवः
दंशसञ्जस्वञ्जां शपि (६.४.२५) दंशसञ्जस्वञ्जां अङ्गस्य

नलोपः शपि |

अ/अ/अ विकरणप्रत्ययः शप् विकरणप्रत्ययः श्यन् विकरणप्रत्ययः श
दंश्‌, सञ्ज्‌, स्वञ्ज्‌ - सर्वे धातवः
रञ्जेश्च (६.४.२६) रञ्जेः च अङ्गस्य नलोपः शपि | अ/अ/अ विकरणप्रत्ययः शप् अ/अ/न विकरणप्रत्ययः श्यन् अ/अ/न विकरणप्रत्ययः श
रञ्ज् - धातुः
कृपो रो लः (८.२.१८) कृपः उः कृपः रः लः | अ/अ/अ कृप् - धातुः सूत्रे उल्लिखितः धातुः अस्मिन् गणे

नास्ति

सूत्रे उल्लिखितः धातुः अस्मिन् गणे

नास्ति

ष्ठिवुक्लमुचमां शिति (७.३.७५) ष्ठिवुक्लमुचमां अङ्गस्य अचः

दीर्घः शिति |

अ/अ/अ शप् शित् अस्ति अ/अ/न श्यन् शित् अस्ति

सूत्रे उल्लिखितः धातुः कोऽपि

अस्मिन् गणे नास्ति

अ/अ/न श शित् अस्ति

सूत्रे उल्लिखितः धातुः कोऽपि अस्मिन्

गणे नास्ति

ष्ठिव्‌, क्लम्‌, आङः चमु - सर्वे धातवः
ऊदुपधाया गोहः (६.४.८९) गोहः अङ्गस्य उपधायाः ऊत्‌

अचि | (गुह्‌-धातोः उपधायाः दीर्घ-

ऊकारादेशो भवति

गुणहेतावजादौ प्रत्यये परे |)

अ/अ/अ शप् (अ) अचि |

सार्वधातुकम् अतः गुण हेतु: |

श्यन् (य) अचि नास्ति|

सार्वधातुकम् अपित् इति गुणः

निषेधः | गुह् दिवादिगणे नास्ति |

श (अ) अचि नास्ति|

किन्तु,

सार्वधातुकम् अपित् इति गुणः निषेधः |

गुह् दिवादिगणे नास्ति |

गुहू - धातुः
अक्षोऽन्यतरस्याम्‌ (३.१.७५) अक्षः धातोः शप्‌ कर्तरि

सार्वधातुके; अन्यतरस्यां श्नुः |

अ/अ/अ अक्ष्‌ - धातुः सूत्रे उल्लिखितः धातुः अस्मिन् गणे

नास्ति

सूत्रे उल्लिखितः धातुः अस्मिन् गणे

नास्ति

तनूकरणे तक्षः (३.१.७६) तनूकरणे तक्षः धातोः शप्‌ कर्तरि

सार्वधातुके; अन्यतरस्यां श्नुः

अ/अ/अ तक्ष्‌ - धातुः सूत्रे उल्लिखितः धातुः अस्मिन् गणे

नास्ति

सूत्रे उल्लिखितः धातुः अस्मिन् गणे

नास्ति

पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-

अर्ति-सर्ति-शद-सदां,पिब-जिघ्र-

धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-

धौ-शीय-सीदाः (७.३.७८)

पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-

अर्ति-सर्ति-शद-सदां अङ्गस्य

पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-

पश्य-ऋच्छ-धौ-शीय-

सीदाः शिति |

अ/अ/अ शप् शित् अस्ति अ/अ/न श्यन् शित् अस्ति

सूत्रे उल्लिखितः धातुः कोऽपि

अस्मिन् गणे नास्ति

अ/अ/अ श शित् अस्ति
पा, घ्रा, ध्मा, स्था, म्ना, दाण्‌,

दृश्‌, ऋ, सृ, शद्‌, सद्‌ -

सर्वे धातवः

षद्लृ (सद्‌), शद्लृ (शद्‌) - द्वौ धातू
इषुगमियमां छः (७.३.७७) इषुगमियमाम्‌ अङ्गस्य छः शिति | अ/अ/अ शप् शित् अस्ति अ/अ/न श्यन् शित् अस्ति

सूत्रे उल्लिखितः धातुः कोऽपि

अस्मिन् गणे नास्ति

अ/अ/अ श शित् अस्ति
गम्‌, यम्‌ - द्वौ धातू इष्‌ - धातुः
शे मुचादीनाम् (७.१.५९) मुचादीनाम् अङ्गस्य नुम्‌ शे | शप्' परे श्यन्' परे अ/अ/अ श' परे
मुच्‌, सिच्‌, विद्‌, खिद्‌, पिश्‌, कृत्‌, लिप्‌,

लुप्‌ - अष्ट धातवः

गुपूधूपविच्छिपणिपनिभ्य आयः

(३.१.२८)

गुपूधूपविच्छपणिपनिभ्यः धातुभ्यः

आयः प्रत्ययः परश्च |

अ/अ/अ गुप्‌, धूप्‌, पण्‌, पन्‌ - धातवः सूत्रे उल्लिखितः धातुः कोऽपि

अस्मिन् गणे नास्ति

अ/अ/अ विच्छ्‌ - धातुः
वा

भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटि

लषः (३.१.७०)

भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटि

लषः धातुभ्यः श्यन्‌ प्रत्ययः परश्च

वा कर्तरि सार्वधातुके |

अ/अ/अ भ्राश्‌, भ्लाश्‌, भ्रमु चलने, क्रम्‌,

क्लम्‌, त्रस्‌, लष्‌ - धातवः

सूत्रे उल्लिखितः धातुः कोऽपि

अस्मिन् गणे नास्ति

अ/अ/अ त्रुट्‌ - धातुः
अ/अ/अ = प्रसक्तिः अस्ति , प्राप्तिः अस्ति, कार्यम् अपि भवति

अ/अ/न = प्रसक्तिः अस्ति , प्राप्तिः अस्ति, कार्यम् नास्ति

अ/अ = प्रसक्तिः अस्ति , प्राप्तिः अस्ति च

अ/न = प्रसक्तिः अस्ति ,प्राप्तिः न

न = प्रसक्तिः नास्ति

- भव्या रामस्वामी
अदन्तम्‌ अङ्गम्‌ - - भ्वादिगणः, दिवादिगणः, तुदादिगणः