9---anye-vyAkaraNa-sambaddha-viShayAH/16---kta-pratyayaH: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/16---kta-pratyayaH
Jump to navigation Jump to search
Content added Content deleted
(योजितम् |)
No edit summary
Line 13: Line 13:
'''निष्ठा''' (३.२.१०२) = निष्ठा-संज्ञक-प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् | अनेन सूत्रेण क्त क्तवतु च प्रत्यय-संज्ञकौ स्तः |  '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | '''भूते''' (३.२.८४) इत्यस्यापि अधिकारः, अतः क्त क्तवतु प्रत्ययौ धातोः परः भूतकालार्थे भवतः | अनुवृत्ति-सहित-सूत्रम्‌— '''धातोः परः निष्ठा प्रत्ययः भूते''' |
'''निष्ठा''' (३.२.१०२) = निष्ठा-संज्ञक-प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् | अनेन सूत्रेण क्त क्तवतु च प्रत्यय-संज्ञकौ स्तः |  '''प्रत्ययः''' (३.१.१), '''धातोः''' (३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | '''भूते''' (३.२.८४) इत्यस्यापि अधिकारः, अतः क्त क्तवतु प्रत्ययौ धातोः परः भूतकालार्थे भवतः | अनुवृत्ति-सहित-सूत्रम्‌— '''धातोः परः निष्ठा प्रत्ययः भूते''' |


'''यथा''' -  १.  मात्रा बालकाय भोजनं '''दत्तम्''' |
'''यथा''' -  १.   मात्रा बालकाय भोजनं '''दत्तम्''' |


२.  बालकेन संस्कृतस्य गृहाभ्यासः '''कृतः''' |
२.  बालकेन संस्कृतस्य गृहाभ्यासः '''कृतः''' |


३.  रामेण पाठशाला '''गता''' |
३.   रामेण पाठशाला '''गता''' |


'''<big>४.  क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |</big>'''
'''<big>४.  क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |</big>'''

Revision as of 13:34, 23 October 2022


१.  क्त प्रत्ययः निष्ठा संज्ञकः |

क्तक्तवतू निष्ठा (१.१.२६) = क्त-प्रत्ययः, क्तवतु-प्रत्ययश्च निष्ठा-संज्ञकौ भवतः | क्तश्च क्तवतुश्च तयोरितरेतरयोगद्वन्द्वः क्तक्तवतू | क्तक्तवतू प्रथमान्तं, निष्ठा प्रथमान्तं, द्विपदमिदं सूत्रम् , सूत्रं स्वयं सम्पूर्णम् | अनुवृत्ति-सहित-सूत्रम्‌— क्तक्तवतू निष्ठा (१.१.२६) |

२.  अयं कृत् संज्ञकः |

कृदतिङ् (३.१.९३) = धातोः परः विहितः तिङ् भिन्नः प्रत्ययः कृत् संज्ञकः स्यात् | क्त प्रत्ययः तिङ्-भिन्न-प्रत्ययः , अपि च धातोः परः विहितः | अतः अयं कृत् संज्ञकः | तिङ् न, अतिङ् नञ्तत्पुरुषः | अतिङ् प्रथमान्तं , कृत् प्रथमान्तं, द्विपदमिदं सूत्रम् | अस्मिन्‌ सूत्रे प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— धातोः परः अतिङ् प्रत्ययः कृत् |

३.  क्त प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् |

निष्ठा (३.२.१०२) = निष्ठा-संज्ञक-प्रत्ययः धातोः परः भूतकालार्थे विहितः स्यात् | अनेन सूत्रेण क्त क्तवतु च प्रत्यय-संज्ञकौ स्तः |  प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | भूते (३.२.८४) इत्यस्यापि अधिकारः, अतः क्त क्तवतु प्रत्ययौ धातोः परः भूतकालार्थे भवतः | अनुवृत्ति-सहित-सूत्रम्‌— धातोः परः निष्ठा प्रत्ययः भूते |

यथा -  १.   मात्रा बालकाय भोजनं दत्तम् |

२.  बालकेन संस्कृतस्य गृहाभ्यासः कृतः |

३.   रामेण पाठशाला गता |

४.  क्त प्रत्ययः भावे कर्मणि च प्रयुक्तः भवति |

तयोरेव कृत्यक्तखलर्थाः (३.४.७०) = कृत्य-प्रत्ययाः, क्त प्रत्ययः, खल्-प्रत्ययः भावे कर्मणि च प्रयुक्ताः भवन्ति | खलः अर्थः खलर्थः,  षष्ठीतत्पुरुषः | कृत्याश्च क्ताश्च खलर्थाश्च तेषामितरेतरद्वन्द्वः कृत्यक्तखलर्थाः | तयोः सप्तम्यन्तम् , एव अव्ययपदं , कृत्यक्तखलर्थाः प्रथमान्तं , त्रिपदमिदं सूत्रम् | प्रत्ययः (३.१.१), धातोः (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अस्मिन् सूत्रे तयोः इत्यनेन लः कर्मणि च भावे चाकर्मकेभ्यः (३.४.६९) इत्यस्मात् सूत्रात् कर्मणि, भावे अकर्मकेभ्यः इत्यनयोः ग्रहणम् | अनुवृत्ति-सहित-सूत्रम्‌— धातोः  परः कृत्यक्तखलर्थाः प्रत्ययाः कर्मणि , (अकर्मकेभ्यः धातुभ्यः) भावे |

यथा -  १.  कर्मणि प्रयोगे  - मात्रा बालकाय भोजनं दत्तम् |

२.  भावे प्रयोगे - शिशुना रुदितम् |

५.   क्त-प्रत्ययान्तरूपस्य प्रातिपदिकसंज्ञा स्यात् |

कृत्तद्धितसमासाश्च (१.२.४६) = कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | अर्थवदधातुरप्रत्ययः प्रातिपदिकम्‌ (१.२.४५) इत्यस्मात्‌ अर्थवत्‌, प्रातिपदिकम्‌ इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्‌— अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |

आहत्य कृदन्त रूपाणि त्रिषु लिङे्गषु , त्रिषु वचनेषु , सप्तसु विभक्तिषु च भवन्ति |

यथा -  

लिङ्गम् / वचनम् एकवचनम् द्विवचनम् बहुवचनम्
पुंलिङ्गे पठितः पठितौ पठिताः
स्त्रीलिङ्गे पठिता पठिते पठिताः
नपुंसकलिङ्गे पठितम् पठिते पठितानि

पुंलिङ्गे

विभक्तिः / वचनम् एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा पठितः पठितौ पठिताः
द्वतीया पठितम् पठितौ पठितान्
तृतीया पठितेन पठिताभ्याम् पठितैः
चतुर्थी पठिताय पठिताभ्याम् पठितेभ्यः
पञ्चमी पठितात् पठिताभ्याम् पठितेभ्यः
षष्ठी पठितस्य पठितयोः पठितानाम्
सप्तमी पठिते पठितयोः पठितेषु