6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH: Difference between revisions
Jump to navigation
Jump to search
6---sArvadhAtukaprakaraNam-anadantam-aGgam/01---anadantAGgAnAM-krute-siddha-tiGpratyayAH (view source)
Revision as of 05:48, 9 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 17:
<big>३) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/47_anadantAGgasya_siddha-tiGpratyayAH--3_adantAngasya-anadantAngasya-ca-tiGpratyaya-bhedAH__siddhatingpratyayAnAM_caturvidhatvam_2015-10-06.mp3 anadantAGgasya_siddha-tiGpratyayAH--3_adantAngasya-anadantAngasya-ca-tiGpratyaya-bhedAH_+_siddhatingpratyayAnAM_caturvidhatvam_2015-10-06]</big>
<big>सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—</big>
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्</big>
<big>२. तिङ्संज्ञकप्रत्यय-सिद्धिः</big>
<big>३. तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्संज्ञकप्रत्यययोः मेलनम्</big>
<u><big>सोपानत्रयस्य एका दृष्टिः</big></u>
<big>अदन्ताङ्गस्य दृष्टान्तः | धात्वर्थविवक्षायां भू धातुः आनीयते | लकारविवक्षायां लट्-लकारः आनीयते | प्रथमपुरुषैकवचनस्य विवक्षायां लटः स्थाने तिप्-आदेशः | भू + तिप् इत्यस्ति | तिप् सार्वधातुकसंज्ञकः, कर्त्रर्थकः, तिङ्संज्ञकः च अतः '''कर्तरि शप्''' इत्यनेन मध्ये शप् इति विकरणप्रत्ययः विहितः | भू + शप् + तिप् | अनुबन्धलोपे भू + अ + ति | अस्यामेव स्थित्याम् उपर्युक्तं सोपानत्रयं प्रारभ्यते |</big>
<big>प्रथमसोपाने विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् | तर्हि अत्र "अ" इति विकरणप्रत्ययं निमित्तीकृत्य '''सार्वधातुकार्धधातुकयोः''' इत्यनेन गुणः क्रियते, भू → भो | एतदेव अस्माकं अङ्गकार्यम् | तदा सन्धिकार्यम्—'''एचोऽयवायावः''' इत्यनेन भो + अ → भ् + अव् + अ → भव | इदं सन्धिकार्यम् अङ्गकार्यं नास्त्येव, यतोहि शपं निमित्तीकृत्य कार्यं न जातम् | सन्धिकार्यं तु केवलं वर्णस्तरे प्रवर्तते—ओकारः अस्ति, परश्च अकारः अस्ति | 'शप्' इति कारणं नास्ति अत्र; यः कोऽपि अकारः भवतु, तादृशं कार्यं भविष्यति एव | ओकाराकारयोः मेलनेन ओ-स्थाने अव्-आदेशः, इति सन्धिकार्यम् | एवं च धातु-विकरणप्रत्यययोः मेलनेन भव इत्यङ्गं जातं, प्रथमं सोपानम् समाप्तम् |</big>
<big>द्वितीयसोपाने तिङ्संज्ञकप्रत्यय-सिद्धिः; अत्र तिप् इति मूलप्रत्ययः, '''हलन्त्यम्''' इत्यनेन पकारस्य इत्-संज्ञा लोपश्च, ति इति सिद्ध-तिङ्प्रत्ययः निष्पन्नः | द्वितीयसोपानं समाप्तम् | भव + ति इत्यस्ति |</big>
<big>तृतीयसोपानं तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् | ति-प्रत्ययः '''तिङ्शित् सार्वधातुकम्''' (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः अस्ति, अतः पूर्वम् इक्-प्रत्याहारे स्थितः कश्चन वर्णः यदि स्यात्, तर्हि '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणकार्यं स्यात् | किन्तु एतावता अस्माकम् अङ्गम् सर्वदा अदन्तम् आसीत्; यत्र अङ्गस्य अन्तिमः वर्णः अत् (ह्रस्वः अकारः), तत्र गुणकार्यं न सम्भवति | इक् (इ, उ, ऋ, ऌ) अन्ते अस्ति चेदेव गुणकार्यम् अर्हति; यत्र अङ्गम् अदन्तम् अस्ति तु नार्हत्येव | यत्र अङ्गमदन्तम् अस्ति तत्र तिङ्संज्ञकप्रत्यय-निमित्तकम् अङ्गकार्यम् अतीव न्यूनम्*— अतः तृतीयसोपाने आधिक्येन केवलम् अङ्ग-तिङ्संज्ञकप्रत्ययोः मेलनं भवति | यथा भव + ति → भवति | किन्तु अग्रे गत्वा यत्र अङ्गम् अदन्तं नास्ति, यत्र अङ्गस्य अन्ते उदाहरणार्थम् उकारः अस्ति, तत्र तृतीयसोपाने अङ्गकार्यं बहुत्र भविष्यति | इति तिङन्तपदस्य निर्माणार्थं सोपानत्रयस्य एका दृष्टिः |</big>
Line 50 ⟶ 60:
<big>'''अतो दीर्घो यञि''' (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ् प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अनुवृत्ति-सहितसूत्रम्— '''अतः अङ्गस्य दीर्घः यञि सार्वधातुके''' |</big>
<big>पठ + वः → '''अतो दीर्घो यञि''' (७.३.१०१) इत्यनेन अदन्ताङ्गस्य दीर्घादेशः → पठावः</big>
<u><big>दशानां धातुगणानां गणसमूहौ</big></u>
Line 63 ⟶ 76:
<big>२. द्वितीयगणसमूहः = अदादिः, जुहोत्यादिः, स्वादिः, रुधादिः, तनादिः, क्र्यादिः इति षट् गणाः</big>
<big>अङ्गान्ते भेदः एव विभजनस्य कारणम् | प्रथमगणसमूहे धातु-विकरणप्रत्यययोः मेलनेन निष्पन्नम् अङ्गम् अदन्तम् अस्ति सर्वत्र— अङ्गस्य अन्ते अकारः | यथा भू + शप् → भव, नश् + श्यन् → नश्य, लिख् + श → लिख, चुर् + णिच् + शप् → चोरय, इति एषु चतुर्षु धातुगणेषु अङ्गम् अदन्तम् |</big>
<big>द्वितीयगणसमूहे सर्वाणि अङ्गानि अनदन्तानि | यथा स्वादिगणे शक् + श्नु → शक्नु इति उकारान्तम् अङ्गं; क्र्यादिगणे क्री + श्ना → क्रीणा इति आकारान्तम् अङ्गम् |</big>
<big>प्रथमगणसमूहस्य कृते, तिङन्तपदम् उपर्युक्त-सोपानत्रयेण कथं सिध्यति इति विस्तृतरूपेण अस्माभिः अनुभूतम्— चतुर्णाम् अपि गणानां प्रसङ्गे | सम्प्रति द्वितीयगणसमूहे तिङन्तपदव्युत्पत्तिः अनेन एव सोपानत्रयेण कथं भवति इति परिशीलयाम |</big>
<big>प्रथमसोपानं तृतीयसोपानं चेत्यनयोः गणसम्बद्धा चर्चा भवतु, यतोहि गणम् अनुसृत्य सोपानद्वयं भिद्यते | अतः तत्तद्गणे अनयोः द्वयोः सोपानयोः अवलोकनं करिष्यते | परन्तु द्वितीयसोपानं—तिङ्संज्ञकप्रत्यय-सिद्धिः—सर्वेषाम् अनदन्ताङ्गानां कृते समाना | अतः एतत् कार्यम् अधुना परिशीलयाम |</big>
<u><big>प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्प्रत्ययाः भिन्नाः</big></u>
<big>प्रथमतया ज्ञातव्यं यत् प्रथमगणसमूहे द्वितीयगणसमूहे च सिद्ध-तिङ्प्रत्ययाः किञ्चित् भिन्नाः | प्रथमगणसमूहे प्रथमगणसमूहस्य सिद्ध-तिङ्प्रत्ययाः विहिताः; द्वितीयगणसमूहे द्वितीयगणसमूहस्य सिद्ध-तिङ्प्रत्ययाः विहिताः | तर्हि समूहद्वयस्य सिद्ध-तिङ्प्रत्ययानां भेदः कुत्र इति अस्माभिः सम्प्रति अवलोकनीयम् |</big>
<big>सर्वे सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति मूल-तिङ्प्रत्ययेभ्यः—</big>
|