7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions
Jump to navigation
Jump to search
7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH (view source)
Revision as of 01:03, 8 December 2021
, 2 years agono edit summary
No edit summary |
No edit summary |

Line 464:

वृष् → वृष् वृष् → वृ वृष् →
कृष् → कृष् कृष् → कृ कृष् →
हृष् → हृष् हृष् → हृ हृष् →

Line 474:
ऋकारान्तधातवः—
भृ → भृ भृ →
हृ → हृ हृ →
कृ → कृ कृ →
तॄ → तॄ तॄ →

Line 502:
घृ → घृ घृ → घर् घृ → झ घृ → ज घृ
हृ → हृ हृ →
हस् → हस् हस् → ह हस् → झ हस् → ज हस्
Line 556:
यम् → य यम्
वृध् → व वृध्

इति यङि सामान्यम् अभ्यासकार्यं समाप्तम् | विशिष्टाभ्यासकार्यं यथास्थानम् अग्रे पदर्श्यते |
इतः आरभ्यते विशिष्ट-यङन्तप्रक्रिया | हलादिधातूनां यङन्तरूपं भवति; तेषां च वर्गीकरणं एतादृशं करणीयम्—

आकारान्ताः एजन्ताः च धातवः
Line 590 ⟶ 585:
सम्प्रसारणिनः धातवः
अनिदितः धातवः

<nowiki>*</nowiki>प्रश्नः उदेति यत् '''अभ्यासे चर्च''' (८.४.५४) तु '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारे नास्ति; तर्हि अङ्गकार्यम् अस्ति किम् ? अभ्यासस्य निमित्तं प्रत्ययः; प्रत्यये परे एव द्वित्वं भवति | अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यम् | तथा सति अङ्गकार्यमेव |

▲<nowiki>*</nowiki>प्रश्नः उदेति यत् '''अभ्यासे चर्च''' (८.४.५४) तु '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारे नास्ति; तर्हि अङ्गकार्यम् अस्ति किम् ? अभ्यासस्य निमित्तं प्रत्ययः; प्रत्यये परे एव द्वित्वं भवति | अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः अवश्यम् | तथा सति अङ्गकार्यमेव |
अधुना '''अभ्यासे चर्च''' (८.४.५४) अष्टमाध्यायस्य चतुर्थे पादे स्थापितम् अतः अङ्गकार्यं न स्यात् इति भासेत | अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तकार्यं जायमानं किन्तु '''अभ्यासे चर्च''' (८.४.५४) तु वर्णनिमित्तकं नास्ति | साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम् अस्ति असिद्धत्वम्; असिद्धत्वम् अपेक्षते, तदर्थं तत्र स्थापितम् | किन्तु '''अभ्यासे चर्च''' (८.४.५४) असिद्धमपि न भवति कदाचित् | त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् | किन्तु '''अभ्यासे चर्च''' (८.४.५४) इत्यस्य सम्बन्धः एव नास्ति अपरत्रिपादिसूत्रैः सह अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसर एव नास्ति | वस्तुतस्तु '''अभ्यासे चर्च''' (८.४.५४) केवलम् अनुवृत्तिवशात् उक्तस्थाने अस्ति | '''झलां जश्झशि''' (८.४.५३) इत्यस्मात् '''जश्''' इति अनुवर्तते प्रकृतसूत्रे | अपि च '''अभ्यासे चर्च''' (८.४.५४) इति सूत्रात् '''चर्''' इत्यस्य अनुवृत्तिः भवति '''खरि च''' (८.४.५५) इति सूत्रे | अत्र फलितार्थः अस्ति यत् '''अभ्यासे चर्च''' (८.४.५४) अङ्गकार्यमेव यद्यपि '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारे नास्ति |
'''लिट्यभ्यासस्योभयेषाम्''' (६.१.१७) इति सूत्रं षष्ठ्याध्याये स्थपितम् अस्ति सम्प्रसारणम् इत्यस्य अनुवृत्ति-कृते | वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत् |
'''अभ्यासस्यासवर्णे''' (६.४.७८) इति सूत्रं षष्ठ्याध्याये स्थपितम् अस्ति इयङ्-उवङ् इत्यनयोः अनुवृत्ति-कृते | अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि इति सूत्रार्थः | किन्तु वस्तुतस्तु इदम् अभ्यासकार्यमेव, अतः कार्यदृष्ट्या सप्तमाध्यायस्य चतुर्थपादे अभविष्यत् |
इमानि त्रीणि सूत्राणि—'''अभ्यासे चर्च''' (८.४.५४), '''लिट्यभ्यासस्योभयेषाम्''' (६.१.१७), '''अभ्यासस्यासवर्णे''' (६.४.७८)—अभ्यासकार्याणि अतः सप्तमाध्यायस्य चतुर्थे पादे भवन्ति स्म परन्तु अनुवृत्त्यर्थम् अन्यत्र स्थापितानि | यत् किमपि सूत्रं स्वस्य प्रकरणात् बहिः स्थाप्यते, तस्य कारणम् अनुवृत्तिः हि | अनुवृत्तिवशात्, लाघवार्थं स्थानान्तरे भवति |
यङ्-प्रत्ययस्य स्वभावः
यङ्-प्रत्ययः धातुभ्यः विधीयते, तिङ्-शित्-भिन्नः च इति कृत्वा '''आर्धधातुकं शेषः''' (३.४.११४) इत्यनेन आर्धधातुकसंज्ञकः |
'''आर्धधातुकं शेषः''' (३.४.११४) = धातोः विहितः तिङ्-शित्-भिन्नः प्रत्ययः आर्धधातुकसंज्ञको भवति | आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२), '''धातो''': (३.१.९१) इत्येषाम् अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''धातोः परश्च शेषः प्रत्ययः आर्धधातुकम्''' |
यङ्-प्रत्ययः न केवलम् आर्धधातुकसंज्ञकः अपि तु ङित् अपि, अतः यङि परे यावत् कार्यं ङित्-आर्धधातुकसंज्ञक-प्रत्यये परे भवति, तत् सर्वम् यङ्-प्रक्रियायां भवति |
आकारान्तानाम् एजन्तानां च धातूनां यङन्तधातु-सिद्धिः
Line 634 ⟶ 617:
१) सामान्याः आकारान्ताः एजन्ताः च धातवः
द्वित्वाभ्यासकार्यानन्तरं '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशो भवति यङि परे |
ला + यङ् → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → ला + यङ् → ला ला य → ल ला य → '''दीर्घोऽकितः''' (७.४.८३) इत्यनेन अकित्-अभ्यासस्य दीर्घादेशः → ला ला य → लालाय इति धातुः → लालाय + ते → '''कर्तरि शप्''' (३.१.६८) इत्यनेन धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे → लालाय + शप् + ते → लालाय + अ + ते → '''अतो गुणे''' (६.१.९७) इत्यनेन पूर्वपरयोः स्थाने एकः पररूपमेकादेशः → लालाय + ते → लालायते
'''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) = अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे, किन्तु स च प्रत्ययः कृत्-संज्ञकः अथवा सार्वधातुकं चेत् न भवति | '''अचश्च''' (१.२.२८) इत्यनेन अचः एव दीर्घत्वम् | '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) | कृत् च सार्वधातुकञ्च कृत्सार्वधातुके, न कृत्सार्वधातुके अकृत्सार्वधातुके, तयोः अकृत्सार्वधातुकयोः | अकृत्सार्वधातुकयोः सप्तम्यन्तं, दीर्घः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अयङ् यि क्ङिति''' (७.४.२२) इत्यस्मात् '''यि''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य''' '''दीर्घः यि''' '''अकृत्सार्वधातुकयोः''' |
यथा कर्मणिप्रयोगे यकि परे—
Line 654 ⟶ 633:
स्तु +यक् → '''अकृत्सार्वधातुकयोर्दीर्घः''' (७.४.२५) इत्यनेन अजन्ताङ्गस्य दीर्घादेशो भवति यकारादिप्रत्यये परे → स्तूयते
अयं यकारादिप्रत्ययः कृत् अस्ति चेत्, दीर्घो न भवति— प्र + कृ + ल्यप् → प्रकृत्य; प्र + हृ + ल्यप् → प्रहृत्य | स च यकारादिप्रत्ययः सार्वधातुकम् अस्ति चेत्, दीर्घो न भवति— विधिलिङि चि + नु + यात् → चिनुयात्; सु + नु + यात् → सुनुयात् |