page_and_link_managers, Administrators
5,260
edits
No edit summary |
No edit summary Tags: Reverted Visual edit |
||
Line 394:
<big>'''शर्पूर्वाः खयः''' (७.४.६१) = यस्य अभ्यासस्य पूर्वं शर् परञ्च खय्, तस्य तु खय् एव शेषो भवति, अन्ये हलः च लुप्यन्ते | '''हलादिः शेषः''' (७.४.६०) इत्यस्य अपवादः अतः तस्य बाधकसूत्रम् | शर् पूर्वो येषां ते शर्पूर्वाः | शर्पूर्वाः प्रथमान्तं, खयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''हलादिः शेषः''' (७.४.६०) इत्यस्मात् वचनपरिणामं कृत्वा '''शेषाः''' इत्यस्य अनुवृत्तिः | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ('''अङ्गस्य''') '''अभ्यासस्य शर्पूर्वाः खयः शेषाः''' |</big>
Line 418 ⟶ 419:
<big>'''उरत्''' (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्-आदेशः भवति | उः षष्ठ्यन्तम्, अत् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अत्र लोपोऽभ्यासस्य''' (७.४.५८) इत्यस्मात् '''अभ्यासस्य''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अङ्गस्य अभ्यासस्य उः अत्''' |</big>
Line 457 ⟶ 459:
<big>हस् → हस् हस् → ह हस् → झ हस् → ज हस्</big><big><br /></big>
<big>'''अभ्यासे चर्च''' (८.४.५४)* = अभ्यासे झल्-स्थाने जश् चर् च आदेशौ भवतः | तत्र '''स्थानेऽन्तरतमः''' (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात् झश्-स्थाने जश् अपि च खय्-स्थाने चर् | अनुवृत्त्यर्थम् अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर् प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''झलां जश् झशि''' (८.४.५३) इत्यस्मात् '''झलां''', '''जश्''' इत्यनयोः अनुवृत्तिः | '''तयोर्यवावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभ्यासे झलां जश् चर् च''' '''संहितायाम्''' |</big>
|