7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 424:
 
<big>अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | सिद्धान्तद्वयमपि महाभाष्ये प्रतिपादितं; इमौ द्वौ सामान्यव्याकरणशास्त्रसिद्धान्तौ न तु विशेषतः द्वित्वार्थं दत्तौ । परन्तु द्वावपि द्वित्वप्रक्रियायां प्रासङ्गिकौ, नाम द्वित्वविषये प्रयोज्यौ भवितुम्‌ अर्हतः ।</big>
 
 
<big>एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम्‌ | यथा 'ग्रामाद्‌ आगच्छति' | अत्र दकारः अच्‌-हीनः हल्‌-वर्णः अतः तस्मात्‌ परः यः आकारः तद्युक्तः भवेत्‌, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम्‌ अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्‌,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं कृत्वा |  </big>
page_and_link_managers, Administrators
5,261

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu