7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 386:
 
 
<big>उपर्युक्तं यत्‌ धातुः एकाच्‌ अस्ति चेत्‌, द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः | यथा यङ्‌लुकि पठ्‌ → पठ्‌ पठ्‌ | अत्र भाष्यकारः चिन्तनं कुर्वन्‌ निदर्शनं दत्वा वदति यत्‌ जुहोत्यादिगणीयः णिजिर्‌-धातोः द्वित्वं कथम्‌ ? अनुबन्धरहितत्वात्‌ निज्‌ भवति | औपदेशिक-निज्‌-धातोः सार्वधातुकप्रक्रियावसरे (लटि, लोटि, लङि, विधिलिङि, शतरि) द्वित्वं क्रियते | एकाच्‌ बहुव्रीहिसमासः, एकः अच्‌ यस्मिन्‌ सः | तर्हि निज्‌-धातोः विषये, केन एकाच्‌ जातः इति प्रश्ने सति, इकारेण | तदर्थं चत्वारःचतस्रः सम्भावनाः सन्ति—नि, निज्‌, इ, इज्‌ | ततः अग्रे उच्यते यत्‌ 'इ' अथवा 'इज्‌' इत्यनयोः द्वित्वार्थं स्वीकारः भवति चेत्‌, इष्टं सार्वधातुकम्‌ अङ्गं 'नेनिज्‌' न सिध्यति | परन्तु 'नि' अथवा 'निज्‌' द्वित्वार्थं स्वीक्रियते चेत्‌ उभयत्र इष्टं सार्वधातुकम्‌ अङ्गं जायते | नि नि ज्‌ → नेनिज्‌; निज्‌ निज्‌ → नेनिज्‌ | तर्हि अनयोः (‘नि' अथवा 'निज्‌' इत्यनयोः) मध्ये कस्य द्वित्वं स्यात्‌ ?</big>
 
 
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu