10---nyAyashAstram/01---sAmAnyaM-visheShaH-ca: Difference between revisions

Jump to navigation Jump to search
Underlined words and removed the extra spaces, added dheyam
No edit summary
(Underlined words and removed the extra spaces, added dheyam)
Line 1:
01 - सामान्यं विशेषः च
न्यायशास्त्रे कश्चन सिद्धान्तः— सर्वे पदार्थाः भिन्नाः | एतत्‌ पुस्तकं, तत्‌ पुस्तकं भिन्नं पुस्तकम्‌— द्वयोः पुस्तकयोः विषयः भिन्नः, रूपं भिन्नम्‌ इत्यादिकम्‌ | एवम्‌ एव, विश्वे सर्वाणि वस्तूनि भिन्नानि |

किन्तु यद्यपि एतत्‌ पुस्तकं भिन्नं, तत्‌ पुस्तकं भिन्नं, तथापि द्वे अपि पुस्तके |

तर्हि इमे द्वे पुस्तके एकया दृष्ट्या भिन्ने, अपरया च दृष्ट्या समाने—समाने— नाम तयोः मध्ये साम्यम्‌ अस्ति | अतः द्वयोः पुस्तकयोः मध्ये भेदः अपि अस्ति, येन कारणेन द्वे पुस्त्के पृथक्‌ स्तः | अपि च द्वयोः मध्ये साम्यम्‌ अपि अस्ति, येन कारणेन द्वे अपि पुस्तके "पुस्तके" इति वदामः |

अस्मिन्‌ पाठे प्रथमतया द्वयोः पुस्तकयोः (अथवा अन्य-पदार्थयोः) यत्‌ साम्यम्‌ अस्ति तत्‌ पश्यामः | तदा द्वयोः पदार्थयोः मध्ये यः भेदः अस्ति, सः भेदः कः अपि च कथं सिद्धः, इति पश्यामः |

सामान्यम्‌

Line 26 ⟶ 25:
आहत्य अत्र मनसि निष्कर्षः भवेत्‌ यत्‌ बहुषु पदार्थेषु समानः धर्मः जातिः इति न्यायशास्त्रे उच्यते | बहुषु पदार्थेषु समानः धर्मः जातिः किमर्थं स्वीकुर्मः इति चेत्‌, तेषु पदार्थेषु विद्यमानं समानत्वम्‌ इति स्वीकुर्मः |

भेदः

Line 45 ⟶ 44:

प्रश्नः—प्रश्नः— किन्तु यथा "पुस्तकत्वम्‌ इत्यस्य कथनेन अपि सर्वाणि पुस्तकानि समानानि सन्ति इति नास्ति”, इति यथा ज्ञातं, तथैव विशेषत्वम्‌ इत्यस्य जातेः कथनेन तस्य अर्थः नास्त्येव यत्‌ सर्वे विशेषाः समानाः |

उत्तरम्—उत्तरम्— पुस्तकेषु सर्वत्रापि समानः कश्चन धर्मः "पुस्तकत्वं" भवितुम्‌ अर्हति, यतः परस्परभेदः साध्यते अवयव-भेदात्‌ | विशेषेषु यदि समानः "विशेषत्वं" स्वीक्रियेत, तर्हि विशेषेषु समानत्वम्‌ आनीतम्‌; तदा अवयवाभावात्‌ सर्वे अपि विशेषाः समानाः एव | सर्वे विशेषाः समानाः चेत्‌ "एकः परमाणुः द्वितीयात्‌ भिन्नः" इति वक्तुं न शक्ष्यति | अतः विशेषत्वम्‌ इति जातिः नास्ति |

प्रश्नः—प्रश्नः— अस्तु विशेषभेदात्‌ परमाणुभेदः साधितः | किन्तु द्वयोः विशेषयोः भेदः कथं साध्यते ? इदानीं विशेषे पुनः अन्यं पदार्थं वयं स्वीकर्तुं न शक्नुमः |*

उत्तरम्—उत्तरम्— तत्र विशेषस्य प्रमुखं लक्षणम्‌ इत्युक्ते स्वतोव्यावर्तकत्वम्‌ | स्वतोव्यावर्तकत्वम्‌ इत्युक्तौ "स्वस्य भेदं स्वयं साधयति" | स्वयम्‌ आत्मानम्‌ अन्यस्मात्‌ पृथक्‌ करोति इत्यर्थः |

Line 60 ⟶ 59:

पुनः उत्तरम्—उत्तरम्— द्वयोः विशेषयोः भेदं स्वयं साधयति, न तु अन्येन साध्यते | विशेषत्वम्‌ इति जातिः स्वीक्रियेत चेत्‌, तर्हि स्वतोव्यावर्तकत्वम्‌ इति नष्टम्‌ | अतः धर्म-रूपेण विशेषत्वं वक्तुं शक्यं, किञ्च जाति-रूपेण न | तच्च विशेषत्वं प्रत्येकस्मिन्‌ विशेषे भिन्नम्‌ एव | अनया रीत्या एव स्वतोव्यावर्तकत्वम्‌ स्थास्यति |

*प्रश्नः—
*प्रश्नः— विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः |

*प्रश्नः— विशेषे पुनः अन्यं पदार्थं किमर्थं स्वीकर्तुं न शक्नुमः |

उत्तरम्—उत्तरम्— विशेषे अन्यं पदार्थं स्वीकुर्मः चेत्‌ यस्य द्वारा विशेषाः भिद्यन्ते, तर्हि तस्य भेदार्थं पुनः नूतनपदार्थः अपेक्षितः, तदा पुनः च तस्य भेदार्थं नूतनः पदार्थः | अस्याः क्रीडायाः न कोऽपि अन्तः, अतः अत्र अनवस्था-दोषः इत्युच्यते | तर्हि विशेषः अन्तिमः एव भवेत्‌ |

प्रश्नः—प्रश्नः— अस्तु, परन्तु परमाणुषु एव स्वतोव्यावर्तकत्वम्‌ अस्ति इति किमर्थं न वदेम ? यदि विशेषे स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं, तर्हि किमर्थं न साक्षात्‌ परमाणुषु स्वतोव्यावर्तकत्वम्‌ अध्यारोपितं भवेत्‌ ? एवं चेत्‌, विशेषस्य काऽपि आवश्यकता न स्यात्‌ |

उत्तरम्—उत्तरम्— परमाणुषु स्वतोव्यावर्तकत्वं नार्हं यतोहि पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वम्‌ इति गुणः कुत्रापि नास्ति | यथा घटद्रव्यम्‌ | अवयवभेदात्‌ घटेषु भेदः ज्ञायते | अधुना घटः पटात्‌ भिन्नः इति प्रतीतिः एव प्रमाणम्‌ | “अयं घटः" इति ज्ञानम्‌; “अयं पटः" इति ज्ञानम्‌ | तस्मात्‌ ज्ञानद्वयात्‌ भेदः तत्र सिध्यति | परन्तु घटात्‌ घटः भिन्नः कथम्‌ इति चेत्‌, अवयव-भेदात्‌, परस्परघटभेदः | एवं च अनित्य-द्रव्येषु भेदस्य साधनार्थं ज्ञानस्य वा अवयवस्य वा आवश्यकता अस्ति— अतः पार्थिवादि-द्रव्येषु स्वतोव्यावर्तकत्वं नास्ति |

Line 78 ⟶ 76:

प्रश्नः—प्रश्नः— घटद्वयम्‌ अस्ति | भेदः कथं ज्ञायते ? अवयवभेदात्‌ इत्युक्तम्‌ | परन्तु अवयवाः सर्वे समानाः इति भाति; दर्शेनेन कपालाः सर्वे समानाः | तर्हि कथं एभिः समान-अवयवैः घट-भेदः साधयितुं शक्यः ?

उत्तरम्—उत्तरम्— यतोहि एते अवयवाः (कपालाः, तन्तवः इत्यादयः) अस्मिन्‌ घटे (पटे वा) सन्ति, न तु तस्मिन्‌ |

प्रश्नः—प्रश्नः— अस्तु, एवं चेत्‌ किमर्थम्‌ अवयवानाम्‌ आवश्यकता घटभेद-साधनार्थम्‌ ? अयं घटः अत्र अस्ति, सः घटः च तत्र | स्थल-भेदात्‌ परस्परभेदज्ञानं खलु |

उत्तरम्—उत्तरम्— किन्तु तत्रापि प्रश्नः उदेति कथं भेदः आगतः तयोः | अयं घटः अत्र अस्ति, सः च घटः तत्र इति प्रतीत्या प्रकटं यत्‌ घट-भेदः अस्ति इति तु सत्यम्‌ | घट-भेदं ज्ञातुं शक्नुमः, परन्तु कथं भेदः आगतः तयोः, इत्यपि वक्तव्यम्‌ | तस्य भेदस्य प्रतिपादनार्थम्‌ अवयवभेद-कथनस्य आवश्यकता | नाम कथं भेदः आगतः— तत्र प्रयोजकः धर्मः भवेत्‌ | "अस्य अवयवः भिन्नः, तस्य च भिन्नः”; तत्र स्वतोव्यावर्तकत्वं नास्ति |

Swarup – June 2015

<nowiki>---------------------------------</nowiki>

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

If any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
teachers
762

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu