7---ArdhadhAtukaprakaraNam/12---iDvyavasthA: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 56:
 
<big>तर्हि इडागमविधायकं सूत्रम्‌ '''आर्धधातुकस्येड्वलादेः''' | अनेन धातुभ्यः वलादि-आर्धधातुकप्रत्ययः विधीयते चेत्‌, तस्य प्रत्ययस्य इडागमः भवति | नाम अनेन सूत्रेण यः को‍ऽपि आर्धधातुक-प्रत्ययः वलादिः अस्ति, सः प्रत्ययः सेट्‌ | अयं नियमः तिङ्‌-प्रत्यय-प्रसङ्गे पर्याप्तम्‌ | किन्तु धातुभ्यः विहिताः प्रत्ययाः द्विविधाः—तिङ्‌ कृत्‌ च | कृत्‌-प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत्‌, इडागमो निषिध्यते—</big>
 
 
 
<big>'''नेड्‌ वशि कृति''' (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | वश्‌-प्रत्याहारे वर्गीयवञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयवञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडानुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् न इट्‌ वशि कृति''' |</big>
page_and_link_managers, Administrators
5,162

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu