9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 263:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः नकारोत्तरवर्ती ( इदानीम् अनुस्वारोत्तरवर्ती) अकारः स्थानिवद्  भवतिस्थानिवद्भवति स्म  |  अर्थात् शिं '''अ''' ड् + ढि इव  दृश्यते '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रस्य दृष्ट्या | अतः '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः नैव प्राप्यते यतोहि अनुस्वारस्य अनन्तरं यय्-वर्णः एव नास्ति |  एवं चेत् शिण्ड्ढि इति इष्टरूपं न प्राप्यते एव अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य निषेधः आवश्यकः सवर्णविधौ |</big>
 
 
Line 309:
 
 
<big>प्रतिदिवन् + टा → प्रतिदिवन् + आ → अधुना '''अल्लोपोनः''' ( ६.४.१२४) इत्यनेन 'अन्' यस्य अन्ते अस्ति, तादृशस्य भसंज्ञकस्य अङ्गस्य उपधा-अकारस्य लोपः भवति | '''यचि भम्‌''' (१.४.१८) इत्यनेन सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | अतः प्रतिदिवन् इत्यस्य भसंज्ञा भवति आ इति अजादौ विभक्तिप्रत्यये परे → प्रतिदिव् '''अ'''न् + आ → अत्र अन् इति भागस्य अकारस्य लोपः भवति, अर्थात् उपधास्थस्य अकारस्य लोपः जायते → प्रतिदिव् न् + आ इति भवति |</big>
 
<big>प्रतिदिव् न् + आ → अस्यां स्थितौ '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन वकार-लोपः वलि परे भवति स्म | किन्तु अत्र '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन कार्यं जायते चेत् इष्टरूपं न प्राप्यते तर्हि स्थानिवद्भावस्य विषये चिन्तनीयं भवति | '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः कनिन् इति प्रत्ययस्य यः अकारः लुप्तः सः अकारः स्थानिवद्भवति ( प्रतिदिव् '''अ''' न् + आ इव ) भवति स्म, अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण वकारलोपः नैव प्राप्यते यतोहि वकारस्य अनन्तरं वल्-वर्णः न दृश्यते | एवञ्च स्थानिवद्भावेन '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य कार्यं बाधितं भवति | स्मर्तव्यं यत्</big> '''<big>अचः परस्मिन्‌ पूर्वविधौ</big>''' <big>(१.१.५७) इति सूत्रस्य कार्यं निषिद्धं भवति केवलं यलोपविषये न तु वलोपविषये, अतः एव अत्र स्थानिवद्भावः स्वीक्रियते |</big>
 
 
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu