9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 372:
 
 
<big>परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | अतः ज'''घ''' ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म यतोहोयतोहि घकारात् परं तु अधुना खर्-वर्णः एव नास्ति अपि तु अकारः अस्ति |</big>
 
 
Line 378:
 
 
<big>'''४) द्विर्वचनेऽचि''' (१.१.५९) = द्वित्वनिमित्ते अचिपरेअचि परे अजादेशो न स्यात् द्वित्वे कर्तव्ये | अर्थात् धातोः द्वित्वस्य निमित्तम् अजादिः प्रत्ययः अस्ति चेत्, तस्मिन् प्रत्यये परे द्वित्वे कर्तव्ये अजादेशः न भवति | यदि प्रक्रियायाम् अजादेशः तथा च अजादिनिमित्तकं द्वित्वं द्वयमपि युगपत् प्राप्तं तर्हि आदौ द्वित्वकार्यं कृत्वा, तदनन्तरमेव अजादेशः कर्तव्यः, अतः एव अचः आदेशः न स्याद् द्वित्वे कर्तव्ये इति उक्तं कौमुदीकारेण | यावद् द्वित्वम् न कृतं तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वे कृते अग्रिमसोपाने एव अजादेशस्य प्रसक्तिः चेत् तदा करणीया | द्विरुच्यते अस्मिन् इति द्विर्वचनम्, अधिकरणे ल्युट् प्रत्ययः | तस्मिन् द्विर्वचने | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्मात् अचः इत्यस्य अनुवृत्तिः  | '''स्थानिवदादेशोऽनल्विधौ''' ( १.१.५६)  इत्यस्मात् आदेशः इत्यस्य अनुवृत्तिः | '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' ( १.१.५८) इत्यस्मात् सूत्रात्  ''न'' इत्यस्य अनुवृत्तिः | प्रकृतसूत्रे अचि इति पदं द्विर्वचने इत्यस्य विशेषणम् अस्ति | अनुवृत्ति-सहित-सूत्रं— '''अचः आदेशः न अचि द्विर्वचने''' |</big>
 
 
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu