9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 494:
 
 
<big>प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति प्रदर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् इति उपसर्गपूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति '''आङो यमनहनःयमहनः''' (१.३.२८) इत्यनेन सूत्रेण |</big>
 
 
Line 500:
 
 
<big>आ + हन् + इट्इड् → आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदिसंज्ञकः इड् इति तिङ्प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने उत्तमपुरुषैकवचनस्य विवक्षायाम् | इड् इति तिङ्प्रत्ययः अपित् इत्यतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण इड् इति प्रत्ययः ङिद्वत् भवति | इड् इति प्रत्यये डकारस्य इत्संज्ञा भूत्वा, लोपः च भवति, अतः इ इति अवशिष्यते |</big>
 
 
Line 533:
 
 
<big>सामाधानत्वेनसमाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति | अल्विधौ एव प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते तदर्थम् एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>
 
Line 539:
 
 
<big>स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रम् | यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् | प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, '''यत्र हि''' '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌''' | केवलं प्रत्ययस्य असाधारणरूपस्यअसाधारणरूपम् आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवति |</big>
 
 
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu