9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 488:
 
 
<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात्इत्यस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रे आद्यप्रत्ययग्रहणमेव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति | यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति | प्रत्ययस्य एकस्य अंशस्य अथवा एकस्य वर्णस्य लोपः जायते चेत् तदा प्रत्ययलक्षणं न भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एवसत्येव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>
 
 
Line 494:
 
 
 
<big>प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति प्रदर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् इति उपसर्गपूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति '''आङो यमहनः''' (१.३.२८) इत्यनेन सूत्रेण |</big>
 
 
Line 533 ⟶ 534:
 
 
<big>समाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यदि प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः अस्ति | अल्विधौ एवअपि प्रत्ययलोपे प्रत्ययलक्षणम् इष्यते, तदर्थम् एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>
 
Line 539 ⟶ 540:
 
 
<big>स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रम् | यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् | प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति | <u>यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव</u> '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, '''यत्र हि''' '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌''' | केवलं प्रत्ययस्य असाधारणरूपम् आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवति |</big>
 
 
Line 548 ⟶ 549:
 
 
<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक्</big> <big>विकल्पेन</big> <big>भवति येन यङ्लुगन्तधातुः</big> <big>सिद्धयति</big> <big>| यङ्लुगन्तधातुभ्यः परस्मैपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते यद्यपि यङ्प्रत्ययः तु ङित् अस्ति | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययःप्रत्ययं प्रत्ययरूपेणनिमित्तीकृत्य निमित्तं मत्वाकार्यं विधीयमानं कार्यं साधयतिअस्ति | यथा - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति, तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पापठ् इति धातौ यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः? अर्थात् पापठ् इत्यत्र यङ्प्रत्ययस्य लोपे कृतेऽपि तस्य लक्षणं स्वीकृत्य धातुः ङित् इति मत्वा पापठ् इति धातुतः आत्मनपदसंज्ञकस्य तिङ्प्रत्ययस्य विधानं शक्यते वा इति प्रश्नः।प्रश्नः | अर्थात् पापठ् + ति इति भवति वा नो चेत् पापठ् + ते इति भवति वा ?</big>
 
 
Line 554 ⟶ 555:
 
 
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन सूत्रेण यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी भवति | अस्मिन् सूत्रे</big> <big>'''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति | अर्थात् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं प्रत्ययस्य ङित्वम्, आदेशस्यधातोः ङित्वं, धातोः ङित्वं यत्किमपि ङित्वं स्वीकर्तुं शक्यते | </big>
 
 
Line 560 ⟶ 561:
 
 
<big>२) <u>प्रत्यये ङित्वम्</u> = पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं धातुः ङित् यङ्प्रत्ययस्य ङित्वम् आश्रित्य | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं क्रियते | अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने | एवमेव '''ऋतेरीयङ्''' ( ३.१.२९) इत्यनेन ऋति, धृणायाम्जुगुप्सायां, कृपायाम् इति सौत्रधातुतः ईयङ् प्रत्ययो भवति | अयं धातुः धातुपाठे न विद्यतेलभ्यते | '''ऋतेरीयङ्''' ( ३.१.२९) इति सूत्रे एव अयं धातुः पाठितः | आदेशेअस्मिन् सूत्रे ईयङ् इति प्रत्यये ङकारः आत्मनेपदार्थः |इत्यतः ऋतीयते, ऋतीयेते, ऋतियन्ते इत्यादीनि रूपाणि लभ्यन्ते लटि |</big>
 
 
<big>तर्हि यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |</big>
 
<big>तर्हि यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति | तात्पर्यं</big> <big>यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते इत्यतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं नैव शक्यते | </big>
 
<big>सारांशः यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते इत्यतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं नैव शक्यते | </big>
 
<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | परिभाषायाः अर्थः एवमस्ति प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् | यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव प्रत्ययलक्षणम् आश्रित्य कार्यं करणीयम् |</big>
 
<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् | यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |</big>
 
 
Line 575 ⟶ 574:
 
 
<big>गवे हितम् इति विग्रहे सति गोहितम् इति चतुर्थीतत्पुरुषसमासः जायते '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण | गवे हितम् = गोहितम् इति समासःचतुर्थीतत्पुरुषसमासः | अस्य अलौकिकविग्रहवाक्यं भवति गो +ङे + हित + सु इति | समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | अग्रे '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समासे विद्यमानयोः सुप्प्रत्यययोः लुक् भवति इत्यतः ङे-प्रत्ययस्य, सु-प्रत्ययस्य च लुक् भवति | गो + ङे + हित + सु इत्यत्र ङे (ए) इति प्रत्ययस्य लोपे कृते अपि, '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन लक्षणं स्वीक्रियते चेत् तदा '''एचोऽयवायावः''' (६.१.७८) इत्यनेन अवादेशः प्राप्यते येन गव्हितम् इति अनिष्टरूपं सिद्ध्यति | तद्वारणाय एव उच्यते यत् वर्णाश्रित्यकार्ये '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य कार्यं नैव भवति इति | अत्र अवादेशः केवलं प्रत्ययं निमित्तीकृत्य कार्यं नास्ति, अपितु वर्णनिमित्तकं कार्यम् | अतः एव उच्यते '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति परिभाषायां यत्| वर्णाश्रये नास्तिकार्ये प्रत्ययलक्षणम्प्रत्ययलक्षणं न स्वीक्रियते इति कृत्वा |गो वर्णाश्रये+ कार्येङे प्रत्ययलक्षणंइत्यत्र ङे इति प्रत्ययस्य लक्षणं न स्वीक्रियते इति'''एचोऽयवायावः''' (६.१.७८) इत्यस्य कार्यार्थं येन कृत्वा '''गोहितम्''' इति समासः सिद्धयति |</big>
 
 
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu