9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 541:
 
<big>स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रम् | यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् | प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति | <u>यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव</u> '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, '''यत्र हि''' '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌''' | केवलं प्रत्ययस्य असाधारणरूपम् आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवति यथा '''राजा''' इत्यत्र |</big>
 
 
 
Line 549 ⟶ 548:
<big>अन्यदृष्टान्तः अस्ति '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रम् | अनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, प्रत्ययस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वम् आत्मनेपदत्वस्य कारणम्‌ | अस्य अर्थः स्पष्टीभविष्यति उदाहरणस्य परिशीलनेन |</big>
 
 
<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक्</big> <big>विकल्पेन</big> <big>भवति येन यङ्लुगन्तधातुः</big> <big>सिद्धयति</big> <big>| यङ्प्रत्ययस्य योजनने इदानीं यङन्तधातुः ङित् जातः, तत्पश्चात् यङ्प्रत्ययस्य लुग् जातम्, तर्हि यङ्लुगन्तधातुभ्यः '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन ङित्वम् आश्रित्य '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनेपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः?</big>
Line 564 ⟶ 562:
 
<big>२) <u>प्रत्यये ङित्वम्</u> = पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं च यङन्तधातुः ङित् यङ्प्रत्ययस्य ङित्वम् आश्रित्य | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं क्रियते | अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने | एवमेव '''ऋतेरीयङ्''' ( ३.१.२९) इत्यनेन ऋति, जुगुप्सायां, कृपायाम् इति सौत्रधातुतः ईयङ् प्रत्ययो भवति | अयं धातुः धातुपाठे न लभ्यते | '''ऋतेरीयङ्''' ( ३.१.२९) इति सूत्रे एव अयं धातुः पाठितः | अस्मिन् सूत्रे ईयङ् इति प्रत्यये ङकारः आत्मनेपदार्थः इत्यतः ऋतीयते, ऋतीयेते, ऋतियन्ते इत्यादीनि रूपाणि लभ्यन्ते लटि प्रथमपुरुषे |</big>
 
 
<big>यङ्लुगन्तधातुभ्यः प्रत्ययलक्षणेन आत्मनेपदित्वं न ग्रहीतम् इति दृश्यते, किमर्थं चेत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययं निमित्तीकृत्य कार्यं विधीयमानम् अस्ति | यथा - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति, तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पापठ् इति धातौ यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं न शक्यते</big> <big>यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति | तात्पर्यं</big> <big>यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते इत्यतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं नैव शक्यते | </big>
Line 569 ⟶ 568:
 
<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | तात्पर्यं यत् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | परिभाषायाः अर्थः एवमस्ति प्रत्ययलक्षणं तदा एव भवति यदा सम्पूर्णप्रत्ययनिमित्तकं कार्यं जायमानम् अस्ति, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् | यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, सम्पूर्णप्रत्ययम् आश्रित्य कार्यं जायमानं चेत् प्रत्ययलक्षणम् आश्रित्य कार्यं करणीयम् |</big>
 
 
 
 
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu