6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 1,659:
 
<big>विधिलिङि—</big>
 
 
<big><u>हकारान्तः लिह → लिह्‌ धातुः</u> (उभयपदी, आस्वादने)</big>
 
 
<big>a) अङ्गकार्यम्‌—</big>
 
<big>१) हलादि पित्सु = उपधायां लघु-इकः गुणः | लिह्‌ + ति → '''पुगन्तलघूपधस्य च''' → लेह्‌ + ति → सन्धिकार्यम्‌ → लेढि</big>
 
<big>२) अजादि पित्सु = उपधायां लघु-इकः गुणः | लिह्‌ + आनि → '''पुगन्तलघूपधस्य च''' → लेह्‌ + आनि → लेहानि</big>
 
<big>३) हलाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | लिह्‌ + तः → सन्धिकार्यमेव → लीढः</big>
 
<big>४) अजाद्यपित्सु = '''क्ङिति च''', गुणनिषेधः | लिह्‌ + अन्ति → वर्णमेलनमेव → लिहन्ति</big>
 
 
<big>b) सन्धिकार्यम्‌—</big>
 
 
<big>हकारान्तधातूनां सन्धिकार्यं त्रिविधम्‌—</big>
 
 
<big>१. <u>हकारान्तधातुतः '''त'''कारादि '''थ'''कारादि च प्रत्ययानां योजनविधिः</u></big>
 
* <big>तकारादि थकारादि च प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, '''हो ढः''' इत्यनेन सूत्रेण |</big>
* <big>प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध्‌-आदेशो भवति '''झषस्तथोर्धोऽधः''' इति सूत्रेण |</big>
* <big>प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति '''ष्टुना ष्टुः''' इति सूत्रेण |</big>
* <big>पूर्वतनस्य ढ्‌-लोपो भवति '''ढो ढे लोपः''' इति सूत्रेण |</big>
 
 
<big>लिह्‌ + ति → '''पुगन्तलघूपधस्य च''' इत्यनेन गुणः → लेह्‌ + ति → '''हो ढः''' इत्यनेन झलि परे ह्‌-स्थाने ढ्‌-आदेशः → लेढ्‌ + ति → '''झषस्तथोर्धोऽधः''' इत्यनेन त्‌-स्थाने ध्‌-आदेशः → लेढ्‌ + धि → '''ष्टुना ष्टुः''' इत्यनेन ष्टुत्वम् → लेढ्‌ + ढि → '''ढो ढे लोपः''' इत्यनेन पूर्वतनस्य ढकारस्य लोपः → ले + ढि → लेढि</big>
 
 
<big>विशेषः—</big>
 
 
<big>ढ्‌, र्‍ इत्यनयोर्लोपानन्तरं‌ तयोः पूर्वस्थितस्य अण्‌ (अ, इ, उ) इत्यस्य दीर्घादेशो भवति | यथा—</big>
 
 
<big>लिह्‌ + तः → '''हो ढः''' → लिढ्‌ + तः → '''झषस्तथोर्धोऽधः''' → लिढ्‌ + धः → '''ष्टुना ष्टुः'''→ लिढ्‌ + ढः → '''ढो ढे लोपः''' → लि + ढः → '''ढ्रलोपे पूर्वस्य दीर्घोऽणः''' इत्यनेन ढ्‌ इत्यस्य लोपानन्तरं‌ पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढः → लीढः</big>
 
 
<big>अत्र प्रश्नः उदेति— '''ढो ढे लोपः''' (८.३.१३) इति पूर्वत्रिपादिसूत्रं, '''ष्टुना ष्टुः''' (८.४.४१) इति परत्रिपादिसूत्रम्‌ | तर्हि किमर्थं '''पूर्वत्रासिद्धम्‌''' (८.२.१) इत्यनेन '''ष्टुना ष्टुः''' (८.४.४१) इत्यस्य कार्यम्‌ असिद्धं न भवेत्‌ ?</big>
653

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu