14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 975:
 
 
<big>यत्र द्वन्द्वतत्पुरुषसमासे उत्तरपदे रात्र,अहन्, अह च भवति तत्र युग्पत् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति एतयोः सूत्रयोः प्रसक्तिः भवति, तर्हि किं सूत्रं कार्यं कुर्यात् इति प्रश्नः उदेति | अत्र एका परिभाषा प्रवर्तते - '''अनन्तरस्य विधिर्वा प्रतिषेधो वा इति''' | अस्यां परिभाषायां वा इति शब्दः च इत्यस्मिन् अर्थे प्रयुक्तः अस्ति | अर्थात् यः विधिः, निषेधः च अनन्तरम् अस्ति सः विधिः, निषेधः च समीपवर्तिनं बाधते | विधिः वा प्रतिषेधः वा अनन्तरस्यैव अव्यवहितस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अनन्तरविधिः इति कारणेन समीपवर्तिनं सूत्रं बाधते | अत्र समीपवर्तिसूत्रम् अस्ति '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति | अतः अस्याः परिभाषायाः बलेन '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, ताम् अपवादत्वात् बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रम् अपवादसूत्रेण रात्राह्नाहान्तः द्वन्द्वतत्पुरुषः पुंल्लिङ्गे भवति | रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः | अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते | '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति पूर्वसूत्रेण या परवल्लिङ्गता विधीयते, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अनन्तरस्य विधिः समीपवर्तिनं बाधते अतः '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रमेव बाधते | अतः अहश्च रात्रिश्च इति इतरेतरद्वन्द्वे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रेण समासस्य स्त्रीलिङ्गत्वं प्राप्तम् अस्ति, तं बाधित्वा '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति अपवादसूत्रेण पुंस्त्वं विधीयते | अहश्च रात्रिश्च अनयोः समाहारद्वन्द्वे '''स नपुंसकम्''' ( २.४.१७) इति सूत्रम् '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' ( २.४.२६) इति सूत्रस्य अपवादः अस्ति, अतः समासः नपुंसकलिङ्गे स्यात् | किन्तु अत्र '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रमपि प्राप्तम् अस्ति | '''स नपुंसकम्''' ( २.४.१७), '''रात्राह्नाहाः पुंसि''' ( २.४.२९) च इति अनयोः मध्ये परत्वात् '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण पुंस्त्वं भवति समासस्य अतः अहोरात्रः इति समासः पुंलिङ्गे भवति | समाहारद्वन्द्वे '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रं '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं न बाधते '''अनन्तरस्य विधिर्वा प्रतिषेधो वा इति''' परिभाषायाः बलेन यतोहि '''स नपुंसकम्''' ( २.४.१७) इति सूत्रं समीपवर्तिनं नास्ति |</big>
 
 
<big>'''संख्यापूर्वं रात्रं क्लीबम्''' | इदं वार्तिकं नास्ति अपि तु लिङ्गानुशासनस्य सूत्रम् | यस्मिन् समासे संख्यावाचकं पदम् पूर्वपदे अस्ति अपि च उत्तरपदं रात्रशब्दः अस्ति तर्हि समासः नपुंसकलिङ्गे भवति | अयं नियमः '''रात्राह्नाहाः पुंसि''' ( २.४.२९) इत्यस्य अपवादः अस्ति | यथा - द्वयोः रात्र्योः समाहारः = द्विरात्रम् | एवमेव त्रिरात्रं, चतूरात्रम् |</big>
----
page_and_link_managers, Administrators
5,250

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu