9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 86:
 
<big>एवमेव कौ स्तः इत्यत्रापि चिन्त्यम् | कौ + अस् + तस् |</big>
 
 
 
<big>'''श्नसोरल्लोपः''' (६.४.१११) = श्नम्‌-प्रत्ययस्य अपि च अस्‌-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस्‌ च तयोरितरेतरद्वन्द्वः श्नसौ | श्नसोः षष्ठ्यन्तम्‌, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अत उत्सार्वधातुके''' (६.४.११०) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः; '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) इत्यस्मात्‌ क्ङिति इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति''' |</big>
 
 
==== <big>२) '''द्वित्वविधिः''' = द्वित्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 112 ⟶ 114:
 
<big>स्मर्तव्यं यत् '''अनचि च''' (८.४.४७) इत्यनेन द्वित्वकार्यं पदान्तविधिः नास्ति यतोहि द्वित्वकार्यं सुध्य् इति पदस्य मध्ये जायमानं कार्यम्, अतः पदान्तविधेः चिन्तनम् अत्र न कार्यम् |</big>
 
 
 
<big>'''अनचि च''' (८.४.४७) = अचः परस्य यरो द्वे वा स्तः न त्वचि | न अच्‌, अनच्‌ नञ्तत्पुरुषः, तस्मिन्‌ अनचि | अनचि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यस्मात्‌ यरः, वा इत्यनयोः अनुवृत्तिः | '''अचो रहाभ्यां द्वे''' (८.४.४६) इत्यस्मात्‌ अचः, द्वे इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अचः यरः द्वे वा अनचि च संहितायाम्‌''' |</big>
 
==== <big>३) '''वरे-विधौ''' = वरेविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 158 ⟶ 161:
 
 
<big>यङ्प्रत्ययस्य यकारस्य स्थानिवद्भावः न शक्यते</big> <big>'''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यतोहि यकारः हल्वर्णः अस्ति न तु अज्वर्णः, अतः यकारप्रसङ्गे '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यस्य प्रसक्तिः नास्ति | तर्हि यकारस्य '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः शक्यते वा इति चिन्तनीयम् | '''आतो लोप इटि च''' (६.४.६४) इति सूत्रे यानि निमित्तानि सन्ति तेषु स्थानिनि यः यकारः अस्ति सः वर्णः निमित्तं नास्ति अस्य सूत्रस्य प्रवर्तनार्थम्, अतः '''आतो लोप इटि च''' (६.४.६४) इति सूत्रम् अनल्विधिः अस्ति | एवञ्चेत् '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन स्थानिवद्भावः भवति स्म | तर्हि '''आतो लोप इटि च''' (६.४.६४) इति सूत्रस्य अप्रवृत्तिः भविष्यति |</big>
 
 
 
<big>अत्र यदि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण यकारस्य स्थानिवद्भावः स्यात्‌ तर्हि 'याया + य् अ + वर ' इति दृश्येत | तथा भवति चेत्‌ '''आतो लोप इटि च''' (६.४.६४) इत्यनेन आकारस्य लोप-आदेशः न स्यात्‌ | यकारे सति शास्त्रस्य अप्रवृत्तिः भविष्यति, इष्टं रूपं च न सेत्स्यति | अतः एतादृशस्थले, नाम यत्र शास्त्रस्य अप्रवृत्तिः जायते स्थानिवद्भावात्‌, तत्र '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण स्थानिवद्भावो न भवति |  इत्थञ्च यकारस्य स्थानिवद्भावः न स्वीक्रियते यतोहि इदं कार्यम् अशास्त्रीयमिति मन्यते |</big>
 
 
==== <big>४) '''यलोप-विधिः''' = यलोपविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 197 ⟶ 202:
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद्भवति | अतः याय् + ति इत्यत्र अन्त्यः यकारः ''या'' इव दृश्यते | अर्थात् '''लोपो व्योर्वलि''' (६.१.६५) इत्यस्य दृष्ट्या या'''या''' + ति इति दृश्यते | अतः '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याया इति दृश्यते इति कारणेन यकारलोपः न भवति स्म | एवं सति यातिः इति इष्टरूपसिद्धिः अपि न भवति |</big>
 
 
 
<big>अतः अत्र '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इति सूत्रस्य कार्यं निषिध्यते यलोपप्रसङ्गे | '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण यलोपविधौ | अतः स्थानिवद्भावः न सिद्ध्यति इति कृत्वा '''लोपो व्योर्वलि''' (६.१.६५) इत्यनेन सूत्रेण तु याय् + ति इत्यत्र यकारस्य लोपः जायते वलि परे | अतः '''यातिः''' इति रूपं निष्पद्यते सुबुत्पत्तेः अनन्तरम् |</big>
 
==== <big>५) '''स्वरविधिः''' = स्वरविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 223 ⟶ 229:
 
<big>'''लिति''' ( ६.१.१९३) इत्यस्य दृष्ट्या चिकीर्ष + अक इव दृश्यते स्थानिवद्भावेन, अतः अक इति लित्-प्रत्यये परे, प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवेत् |  अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् भवति तर्हि चिकीर्ष् इत्यत्र तु अक इति प्रत्ययात् पूर्वम् स्वरः नास्ति इत्यतः अक इति प्रत्ययस्य अकारस्य एव उदातत्त्वं स्यात् | एवञ्चेत् चिकीर्षक इत्यत्र षकारोत्तरवर्ती अकारः उदात्तः भवति स्म |</big>
 
 
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण स्वरविधौ | अत्र लुप्तः अकारः स्थानिवद् न भवति, अतः चिकीर्ष् + अक इत्यत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते '''लिति''' ( ६.१.१९३) इत्यनेन यतोहि '''लिति''' ( ६.१.१९३) इति सूत्रं तु पूर्वम् उपस्थितस्य स्वरस्य एव उदातत्त्वं विधीयते | अत्र तु लिति प्रत्यये परे तु स्वरः अस्ति ककारोत्तरवर्ती ईकारः इति कृत्वा तस्यैव उदातत्त्वं जायते |</big>
 
 
==== <big>६) '''सवर्णविधिः''' = सवर्णविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 267 ⟶ 275:
 
<big>अतः '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः, तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण सवर्णविधौ | अतः अत्र परसवर्णे कर्तव्ये परनिमित्तकः अकारलोपः स्थानिवन्न भवति |</big> <big>अतः शिं ड् + ढि</big> <big>इत्यत्र</big> <big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यनेन अनुस्वारस्य परसवर्णादेशः णकारः जायते → शिण्ड्ढि |</big>
 
 
 
<big>शिण्ड्ढि →‌ '''झरो झरि सवर्णे''' (८.४.६५) इत्यनेन हलः परस्य झर्-वर्णस्य सवर्णे झर्-वर्णे परे विकल्पेन लोपः भवति | शिण्ड्ढि इत्यत्र णकारः हल्वर्णः, तस्य अनन्तरं यः झर्-वर्णः डकारः तस्य लोपः विकल्पेन भवति सवर्णे झरि, ढकारे परे; सर्वेषां टवर्गीयवर्णानां सावर्ण्यम् अस्ति → '''शिण्ढि /शिण्ड्ढि''' इति रूपद्वयं सिद्धयति |</big>
 
 
==== <big>७) अ'''नुस्वारविधिः''' = अनुस्वारविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 292 ⟶ 302:
 
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः अनुस्वारोत्तरवर्ती अकारः स्थानिवद् ( शिन् '''अ''' ष् + अन्ति इव ) भवति स्म, अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः नैव प्राप्यते यतोहि नकारस्य अनन्तरं झल्-वर्णः न दृश्यते |</big>
 
 
 
<big>परन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण अनुस्वारविधौ | अतः अत्र अनुस्वारवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति → अतः '''नश्चापदान्तस्य झलि''' (८.३.२४) इति सूत्रेण अनुस्वारादेशः जायते → शिंष् + अन्ति →‌ शिंषन्ति इति रूपं सिद्धयति |</big>
 
 
==== <big>८) '''दीर्घविधिः''' = दीर्घविधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 316 ⟶ 328:
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः वकारोत्तरवर्ती अकारः स्थानिवद् ( प्रतिदिव् '''अ''' न् + आ इव ) भवति स्म, अतः '''हलि च''' (८.२.७७) इत्यनेन दीर्घादेशः न प्राप्यते यतोहि वकारान्तात् धातोः अनन्तरं हल्वर्णः नास्ति अपि तु अकारः अस्ति |</big>
 
 
 
Line 344 ⟶ 357:
 
<big>किन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' (१.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति | अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | घ् '''अ''' + ति इतिवत् दृश्यते येन '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण जश्त्वं न प्राप्यते स्म यतोहि झश्-वर्णः परः नास्ति |</big>
 
 
 
<big>किन्तु '''अचः परस्मिन् पूर्वविधौ''' (१.१.५७) इत्यनेन यः स्थानिवद्भावः प्राप्तः अस्ति तस्य निषेधः क्रियते '''न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु''' (१.१.५८) इति सूत्रेण जश्त्वविधौ | अत्र जश्त्वविधौ कर्तव्ये अकारलोपः स्थानिवद् न भवति, अतः</big> <big>घ् + धि इत्यत्र '''झलां जश् झशि''' (८.४.५३) इति सूत्रेण घकारस्य जश्त्वे गकारं कृत्वा ग् + धि → ‌ग्धि इति रूपं लभ्यते |</big>
 
 
==== <big>१०) '''चर् -विधिः''' = चर्-विधौ परनिमित्तकः अजादेशः स्थानिवद्भावं न प्राप्नोति |</big> ====
Line 376 ⟶ 391:
 
 
<big>परन्तु '''अचः परस्मिन्‌ पूर्वविधौ''' ( १.१.५७) इत्यनेन पूर्वविधौ कर्तव्ये अजादेशः स्थानिवद्भवति, अतः घकारोत्तरवर्ती अकारः स्थानिवद्भवति स्म | अतः ज'''घ''' ष् + अतुस् इतिवत् दृश्यते येन '''खरि च''' ( ८.४.५५) इति सूत्रेण चर्त्वं न प्राप्यते स्म यतोहि घकारात् परं तु अधुना खर्-वर्णः एव नास्ति अपि तु अकारः अस्ति |</big>
 
 
 
page_and_link_managers, Administrators
5,243

edits

Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu