6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam: Difference between revisions
Jump to navigation
Jump to search
6---sArvadhAtukaprakaraNam-anadantam-aGgam/07---ikArAntAnAm-ukArAntAnAM-ca-aGgAnAm-ajAdyapitsu-samagraM-cintanam (view source)
Revision as of 03:21, 28 May 2021
, 3 years agono edit summary
No edit summary |
No edit summary |
||
Line 12:
|<big>२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/71_ikArAntAnAm-ukArAntAnAM-ca-angAnAm-ajAdyapitsu-samagraM-cintanam_2016-06-05.mp3 ikArAntAnAm-ukArAntAnAM-ca-angAnAm-ajAdyapitsu-samagraM-cintanam_2016-06-05]</big>
|}
<big><br />
इति + अस्ति → इत्यस्ति; लघु + अतः → लघ्वतः इति व्यवस्था | संस्कृतभाषायां यत्र कश्चन इक्-वर्णः अस्ति, परश्च कोऽपि अच्-वर्णः, तत्र अव्यवहित-स्थित्याम् इक्-स्थाने यण्-आदेशः भवति इति अस्माकं सामान्यनियमः | '''इको यणचि''' इति सूत्रम्; "इकः स्थाने यण् स्यादचि संहितायां विषये" इति प्रसिद्धा वृत्तिः | यण्-सन्धिः इति वदामः |</big>
Line 96 ⟶ 95:
<big> </big><big> </big>
<big>
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७)</big>
<big>
<big>'''इणो यण्''' (६.४.८१)</big>
Line 126 ⟶ 125:
<big><u>अनेकाच् सामान्यशास्त्रम्</u></big>
<big>इकारान्तधातोः अङ्गम् अनेकाच् अस्ति चेत्, सः इकारः संयोगपूर्वो वा असंयोगपूर्वो वा इति द्रष्टव्यम् | इकारः संयोगपूर्वः चेत्, अजाद्यपिति प्रसङ्गे इयङ्-आदेशो भवति | अयं सामान्यनियमः, सूत्रम् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) | उदाहरणार्थं जुहोत्यादिगणे जिह्री, यङ्-लुकि पेप्री, शेश्रि, चेक्री च |</big>
Line 134 ⟶ 135:
<big><u>अनेकाच् विशेषशास्त्रम्</u></big>
<big>असंयोगपूर्वः इकारान्तधातुः चेत्, '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति सूत्रेण यण् विधीयते | उदाहरणानि यथा जुहोत्यादिगणे बिभी, चिकि; यङ्-लुकि यथा नेनी इत्यादीनि अङ्गानि |</big>
<big>जुहोत्यादिगणे कि → चिकि + अति → '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन असंयोगपूर्वे यण् → चिक् + य् + अति → चिक्यति</big>
<big>वस्तुतः धातोः इकारः असंयोगपूर्वः चेदपि '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः अस्ति | किन्तु तत्र '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इति तत् सूत्रं प्रबाध्य यण् विदधाति |</big>
Line 149 ⟶ 154:
<big>तुदादिगणे रि + अ → '''इको यणचि''' (६.१.७७) इत्यनेन यण् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → र् + इय् + अ + ति → रियति</big>
<big>अदादिगणे इण्-गतौ इ + अन्ति → '''इको यणचि''' (६.१.७७) इत्यनेन यण् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → '''इणो यण्''' (६.४.८१) इत्यनेन यण् → यन्ति</big>
Line 154 ⟶ 160:
<big>जुहोत्यादिगणे भी-धातुः बिभी + अति → '''इको यणचि''' (६.१.७७) इत्यनेन यण् → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन गुणः → '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन इयङ् → '''एरनेकाचोऽसंयोगपूर्वस्य''' (६.४.८२) इत्यनेन यण् → बिभ् + य् + अति → बिभ्यति</big>
{| class="wikitable mw-collapsible mw-collapsed"
Line 271 ⟶ 273:
<big>शक् + श्नु → शक्नु → शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति</big>
<big>स्वादिगणे सर्वे हलन्तधातवः अपि तथा यतोहि धातु-श्नु इत्यनयोः मेलनेन संयोगः निष्पद्यते एव—</big>
Line 288 ⟶ 292:
<big><nowiki>*</nowiki>तृप्-धातुः क्षुभ्नादिगणे अस्ति |</big>
<big>'''क्षुभ्नादिषु च''' (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''रषाभ्यां नो णः समानपदे''' (८.४.१) इत्यस्मात् '''नः, णः''' इत्यनयोः अनुवृत्तिः | '''न भाभूपूकमिगमिप्यायीवेपाम्''' (८.४.३४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''क्षुभ्नादिषु च नः णः न संहितायाम्''' |</big>▼
▲<big>क्षुभ्नादिषु च (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रषाभ्यां नो णः समानपदे (८.४.१) इत्यस्मात् नः, णः इत्यनयोः अनुवृत्तिः | न भाभूपूकमिगमिप्यायीवेपाम् (८.४.३४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— क्षुभ्नादिषु च नः णः न संहितायाम् |</big>
<big>धेयं यत् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रेण एकमेव विकरणप्रत्ययान्तम् अङ्गं यस्य उवङ् भवति— सुवादिगणे श्नुप्रत्ययान्तम् अङ्गम् | तदतिरिच्य सर्वे धातवः एव, इकारान्ताः उकारान्ताः च |</big>
<big>विशेषशास्त्रम्</big>▼
▲<big><u>विशेषशास्त्रम्</u></big>
<big>अपवादभूतसूत्रम् एकमेव— हुश्नुवोः सार्वधातुके (६.४.८७) | अनेन उवङ्-स्थाने यण्-आदेशः |</big>▼
▲<big>अपवादभूतसूत्रम् एकमेव— '''हुश्नुवोः सार्वधातुके''' (६.४.८७) | अनेन उवङ्-स्थाने यण्-आदेशः |</big>
<big>१) हु-धातुः उकारान्तः अपि च जुहोत्यादिगणे सन् साक्षात् तस्य अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः | अयं धातुः साक्षात् उक्तः सूत्रे— हुश्नुवोः सार्वधातुके (६.४.८७) इत्यनेन यण् | जुहु + अति → जुह् + व् + अति → जुह्वति |</big>▼
<big>२) असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् अस्ति चेत्, उवङ् प्रबाध्य हुश्नुवोः सार्वधातुके (६.४.८७) इति सूत्रेण यण् | स्वादिगणे यावन्तः अजन्तधातवः सन्ति, ते सर्वे अस्यां श्रेण्याम् अन्तर्भूताः |</big>▼
▲<big>१) हु-धातुः उकारान्तः अपि च जुहोत्यादिगणे सन् साक्षात् तस्य अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः | अयं धातुः साक्षात् उक्तः सूत्रे— '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इत्यनेन यण् | जुहु + अति → जुह् + व् + अति → जुह्वति |</big>
▲<big>२) असंयोगपूर्वं श्नुप्रत्ययान्ताङ्गम् अस्ति चेत्, उवङ् प्रबाध्य '''हुश्नुवोः सार्वधातुके''' (६.४.८७) इति सूत्रेण यण् | स्वादिगणे यावन्तः अजन्तधातवः सन्ति, ते सर्वे अस्यां श्रेण्याम् अन्तर्भूताः |</big>
<big>चि + श्नु → चिनु → चिनु + अन्ति → चिन् + व् + अन्ति → चिन्वन्ति</big>
Line 310 ⟶ 316:
<big>पृ + श्नु → पृणु → पृण्वन्ति</big>
<big>सर्वसामान्यशास्त्रम्</big>▼
▲<big><u>सर्वसामान्यशास्त्रम्</u></big>
<big>इको यणचि (६.१.७७)</big>▼
▲<big>'''इको यणचि''' (६.१.७७)</big>
<big>अस्माभिः दृष्टं यत् यत्र कुत्रापि इकारान्तधातुरूपि-अङ्गात्, उकारान्तधातुरूपि-अङ्गात्, अथवा उकारान्ताविकरणप्रत्ययान्तात् अङ्गात् अजादि-कित्-ङित्-प्रत्ययः भवति, तत्र सदा '''इको यणचि''' (६.१.७७) आगत्य यण् विदधाति | किन्तु एतावता सर्वत्र '''इको यणचि''' इति सूत्रस्य कार्यं बाध्यते | सार्वधातुकलकारेषु एकस्मिन् एव स्थले एतादृश्यां स्थित्यां '''इको यणचि''' इत्यनेन यणः प्राप्तिः | तनादिगणे उ इति विकरणप्रत्ययः | अनेन प्रत्ययसहितम् उकारान्तम अङ्गं निष्पद्यते किन्तु श्नुप्रत्ययान्तम् अङ्गम नास्ति इति कारणतः '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य प्रसक्तिः नास्त्येव | अतः तनादिगणे सर्वसामान्यशास्त्रेण यण्—</big>
<big>तन् + उ → तनु → तनु + अन्ति → तन् + व् + अन्ति → तन्वन्ति</big>
Line 327 ⟶ 335:
<big>सर्वसामान्यनियमः तु '''इको यणचि''' (६.१.७७) अस्ति इति स्मर्यताम् | इदं सूत्रं प्रबाध्य एव '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) कार्यं करोति | उवङ् विधीयते उकारान्तधातुः अस्ति चेत् अथवा श्नुप्रत्ययान्तम् अङ्गम् अस्ति चेत् | तन्-धातुः न उकारान्तधातुः, न वा तस्य अङ्गं श्नुप्रत्ययान्तम् | '''इको यणचि''' इत्यस्य प्रसक्तिः अस्ति यथा सर्वत्र अजादि-प्रत्यये परे; अत्र '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' इति सूत्रं न बाधते; अतः '''इको यणचि''' इत्यनेन एव यण्-आदेशो विहितः |</big>
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति ?</big>
<big><u>तुदादिगणे</u>—</big>
<big>रि + अ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → र् + इय् + अ + ति → रियति</big>▼
<big>
▲<big>
<big>'''अदादिगणे'''—</big>
<big>इङ् अध्ययने अधि + इ + अते → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → अधि + इय् + अते → अधीयते</big>▼
<big>
<big>यु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → य् + उव् + अन्ति → युवन्ति</big>
<big>
<big>शक् + श्नु → शक्नु → शक्नु + अन्ति → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उवङ् → शक्न् + उव् + अन्ति → शक्नुवन्ति</big>
<big><u>जुयोत्यादिगणे</u>—</big>
▲<big>
▲<big>ह्री-धातुः → जिह्री + अति → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन इयङ् → जिह्र् + इय् + अति → जिह्रियति</big>
<big>एकः अन्तिमप्रश्नः उदेति— केचन उकारन्तधातवः सन्ति येषाम् उवङ्-आदेशो न दृश्यते एव सार्वधातुकलकारेषु | तत् किमर्थम् ? यथा भू-धातुः भ्वादिगणे, तस्य उवङ् प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु | एतावता कारणं प्रायः जानन्ति—अत्र विकरणप्रत्ययः शप् पित् अस्ति; सार्वधातुकलकारेषु शप् सर्वदा आयाति, अतः धातोः साक्षात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |</big>
<big>भू + शप् → भू + अ → भो + अ → भ् + अव् + अ → भव + अन्ति → भवन्ति |</big>
<big>अत्र भू, अन्ति इत्यनयोः साक्षात् सम्पर्कः नास्ति अतः उवङ्-आदेशस्य अवसरः न प्राप्यते | एवमेव भ्वादिगणे २६ अन्ये इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः च धातवः सन्ति | भू-धातुरिव तेषाम् इगन्तस्य गुणः भवति, यस्मात् अजादि-कित्-ङित्-प्रत्ययेन सह सम्पर्कः न कदापि भवति |</big>
<big>परन्तु आर्धधातुकलकारेषु च आर्धधातुककृत्-प्रत्ययेषु च एषाम् इयङ् उवङ् इत्यनयोः अवसरः अर्हः | अग्रे गत्वा यदा आर्धधातुकप्रकरणं कृत्-प्रकरणं च कुर्मः, तदा द्रक्ष्यामः |</big>
Line 370 ⟶ 381:
<big>[https://static.miraheze.org/samskritavyakaranamwiki/e/e0/%E0%A5%AD_-_%E0%A4%87%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%89%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%82_%E0%A4%9A_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A4%BE%E0%A4%AE%E0%A5%8D_%E0%A4%85%E0%A4%9C%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AF%E0%A4%AA%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A5%81_%E0%A4%B8%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%82_%E0%A4%9A%E0%A4%BF%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%A8%E0%A4%AE%E0%A5%8D.pdf ७ - इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजाद्यपित्सु समग्रं चिन्तनम्.pdf] (66k) Swarup Bhai, Mar 31, 2019, 6:02 AM v.1</big>
<big>Swarup – August 2013 (updated May 2016)</big>
|