14---samAsaH/02A---avyayiibhAvasamAsaH: Difference between revisions

Jump to navigation Jump to search
no edit summary
No edit summary
No edit summary
Line 831:
 
 
{| class="wikitable mw-collapsible"
==== '''इ) उत्तरपदं हलन्तं चेत् —''' ====
|+
|
===== <big>'''अनश्च''' (५.४.१०८)</big> =====
'''अनश्च''' (५.४.१०८) = <big>यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति |अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्| '''अव्ययीभावे शरत्प्रभृतिभ्यः''' ( ५.४.१०८) इत्यस्मात् सूत्रात् अव्ययीभावः इत्यस्य अनुवृत्तिः|अव्ययीभावः इति पदस्य विभक्तिपरिणामं कृत्वा अव्ययीभावात् इति भवति |'''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इति पदस्य अनुवृत्तिः| '''समासान्ताः''' (५.४.६८), '''तद्धिताः''' (४.१.७६) अनयोः सूत्रयोः अधिकारः|'''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः|'''प्रत्ययः, परश्च''' अनयोः सूत्रयोः अपि अधिकारः |अनुवृत्ति-सहितसूत्रम्‌— '''अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |'''</big>
 
<big>राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति|सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति |अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि '''अनश्च''' (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति|यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण|एतत् सूत्रम् अग्रे पठिष्यामः|</big>
 
 
|-
|
 
 
<big>'''नस्तद्धिते''' (६.४.१४४)</big>
 
'''नस्तद्धिते''' (६.४.१४४) = <big>तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति |नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्|'''टेः''' (६.४.१४३) इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः|'''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः|'''अल्लोपोऽनः''' (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः|'''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः|अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य नः तद्धिते टेः लोपः|'''</big>
 
 
|-
|
===== <big>'''अचोऽन्त्यादि टि''' (१.१.६४)</big> =====
'''अचोऽन्त्यादि टि''' (१.१.६४) = <big>अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ |अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः |अचः षष्ठ्यन्तम्‌, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ |अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ |आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) |</big>
|-
|<big>'''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌'''<nowiki> (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | सूत्रं स्वयं सम्पूर्णम्— </nowiki>'''<nowiki>अचः अन्त्यादि टि |</nowiki>'''</big>
|-
|
===== <big>'''सुडनपुंसकस्य''' (१.१.४३)</big> =====
'''सुडनपुंसकस्य''' (१.१.४३) = <big>सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न |सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः |न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य |सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ |'''शि सर्वनामस्थानम्'''‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |'''</big>
|-
|
===== <big>'''यचि भम्‌''' (१.४.१८)</big> =====
'''यचि भम्‌''' (१.४.१८) = <big>सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति |य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि |यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ |'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः |अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |</big>
|-
|
===== <big>'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७)</big> =====
'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) '''=''' <big>प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तं, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः '''|''' अनुवृत्ति-सहितसूत्रं— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः|'''</big>
|}
 
 
'''अनश्च''' (५.४.१०८) = यस्य अव्ययीभावसमासस्य अन्ते "अन्" इति विद्यते तस्मात् टच् इति समासान्तप्रत्ययः भवति |अनः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्| '''अव्ययीभावे शरत्प्रभृतिभ्यः''' ( ५.४.१०८) इत्यस्मात् सूत्रात् अव्ययीभावः इत्यस्य अनुवृत्तिः|अव्ययीभावः इति पदस्य विभक्तिपरिणामं कृत्वा अव्ययीभावात् इति भवति |'''राजाहस्सखिभ्यष्टच्‌''' (५.४.९१) इत्यस्मात् सूत्रात् टच् इति पदस्य अनुवृत्तिः| '''समासान्ताः''' (५.४.६८), '''तद्धिताः''' (४.१.७६) अनयोः सूत्रयोः अधिकारः|'''ङ्याप्प्रातिपदिकात्‌''' (४.१.१) इत्यस्य अधिकारः|'''प्रत्ययः, परश्च''' अनयोः सूत्रयोः अपि अधिकारः |अनुवृत्ति-सहितसूत्रम्‌— '''अनश्च अव्ययीभावात् प्रादिपदिकात् टच् प्रत्ययः परश्च तद्धितः समासान्तः |'''
 
राजन्, आत्मन्, ब्रह्मन्, अर्यमन् इत्येतानि पुंलिङ्गप्रातिपदिकानि, अन्नन्तानि च सन्ति|सीमन्, दामन् इत्यादयः स्त्रीलिङ्गे अन्नन्तशब्दाः सन्ति |अव्ययीभावसमासे यदि एतानि अन्नन्तानि प्रातिपदिकस्य अन्ते विद्यन्ते तर्हि '''अनश्च''' (५.४.१०८) इति सूत्रेण टच् इति प्रत्ययः नित्यं भवति|यदि अन्नन्तं प्रातिपदिकं नपुंसकलिङ्गे अस्ति तर्हि टच् इति समासान्तप्रत्ययः विकल्पेन भवति '''नपुंसकादन्यतरस्याम्''' (५.४.१०९) इति सूत्रेण|एतत् सूत्रम् अग्रे पठिष्यामः|
 
'''नस्तद्धिते''' (६.४.१४४) = तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति |नः षष्ठ्यन्तं, तद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्|'''टेः''' (६.४.१४३) इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः|'''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तादेशः|'''अल्लोपोऽनः''' (६.४.१३४) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः|'''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः|अनुवृत्ति-सहितसूत्रम्‌— '''भस्य अङ्गस्य नः तद्धिते टेः लोपः|'''
 
'''अचोऽन्त्यादि टि''' (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ |अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः |अचः षष्ठ्यन्तम्‌, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ |अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ |आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) |
 
'''जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌''' (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''अचः अन्त्यादि टि |'''
 
 
'''सुडनपुंसकस्य''' (१.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न |सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः |न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य |सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ |'''शि सर्वनामस्थानम्'''‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |'''
 
 
===== <big> </big> =====
'''यचि भम्‌''' (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परः अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति |य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि |यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ |'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः |अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने यचि भम्‌''' |
 
 
'''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) '''=''' प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः | न लुप्तषष्ठीकं पदं, लोपः प्रथमान्तं, प्रातिपदिक लुप्तषष्ठीकं पदं, अन्तस्य षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः '''|''' अनुवृत्ति-सहितसूत्रं— '''प्रातिपदिकस्य पदस्य अन्तस्य नः लोपः|'''
 
 
'''अभ्यासः'''
 
===== <big> </big> '''अभ्यासः''' =====
एतेषां प्रक्रिया चिन्तनीया —१) सीमनि इति , २) दामनि इति  ३) दण्डिनि इति (दण्डिन् इति पुंलिङ्गशब्दः) |
 
Cookies help us deliver our services. By using our services, you agree to our use of cookies.

Navigation menu