अनन्तरस्य विधिर्वा प्रतिषेधो वा

From Samskrita Vyakaranam
Revision as of 07:47, 11 May 2024 by Vidhya (talk | contribs) (Created page with "<big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः इत्यस्मिन् अर्थे प्रयुक्तः अस्ति |


अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः उदाहरणानि -


१)   नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) = अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः | एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति | अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अनुवृत्ति-सहितसूत्रम्‌—अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |


अस्मिन् सूत्रे वाक्यद्वयं वर्तते –

१) अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति इति एकं वाक्यम् |

२) `अमादेशस्तु तस्य भवत्यपञ्चम्याः` इति द्वितीयं वाक्यम् |


अपञ्चम्याः इत्यनेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति पञ्चम्याः अमादेश एव प्रतिषिध्यते, न तु अलुक् पूर्ववाक्येन विहितः | अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति | अनया परिभाषया अव्यवहितस्य पूर्वस्यैव प्रतिषेधः भवति, पूर्वं तु अमादेशः एव वर्तते |


२)   सुडनपुंसकस्य ( १.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | शि सर्वनामस्थानम्‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |


सुडनपुंसकस्य ( १.१.४३)  इत्यस्मात् सूत्रात् प्राक् शि सर्वनामस्थानम् ( १.१.४२) इति सूत्रम् अस्ति | शि सर्वनामस्थानम् ( १.१.४२) इत्यस्य अर्थः शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति | सुडनपुंसकस्य ( १.१.४३) इति सूत्रे अनपुंसकमिति निषेधः उच्यते वा? निषेधः उच्यते चेत् शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शिप्रतिषेधः स्यात् |


यदि अनपुंसकमिति निषेधः उच्यते तर्हि अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |

किन्तु अत्र सुडनपुंसकस्य ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुटः सर्वनामस्थानं न भवति इत्यर्थः आयाति | पर्युदासः चेत् नपुंसकात् अन्यत्र सुटः सर्वनामस्थानं भवति इत्यर्थः आयाति |


सुडनपुंसकस्य ( १.१.४३)  इति सूत्रे पर्युदासः स्वीक्रियते इति कृत्वा नपुंसके न व्यापारः | यदि केनचित् सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तर्हि तेन भविष्यति एव | अत्र शि सर्वनामस्थानम् (१.१.४२) इत्यनेन पूर्वेण सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तस्य प्रतिषेधः न भवति अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति परिभाषया यतोहि परिभाषायाः प्रसक्तिः नास्ति एव | अनन्तरस्मिन् सूत्रे प्रतिषेधः वा विधिः उच्यते चेत् एव परिभाषायाः प्रयोगः |


यदि सुडनपुंसकस्य ( १.१.४३)  इति सूत्रे प्रसज्यप्रतिषेधः उच्यते तर्हि नपुंसकलिङ्गे न भवति, अर्थात् प्रतिषेधः उच्यते | यदि अनपुंसकस्य इति पर्युदासः स्वीक्रियते, तर्हि नपुंसकात् अन्यत्र सुट्प्रत्याहारस्य सर्वनामस्थानसंज्ञा भवति इत्यर्थः | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |


सुडनपुंसकस्य ( १.१.४३) इति सूत्रे पर्युदासः एव स्वीकरणीयः यतोहि कुण्डानि वनानि इत्यादीनि रूपाणि तदैव प्राप्नुवः यदा नपुंसकलिङ्गे शि इत्यस्य शि सर्वनामस्थानम् ( १.१.४२) इत्यनेन सर्वनामस्थानं भवति | अतः अत्र प्रसज्यप्रतिषेधः निराक्रियते |


पर्युदासे स्वीकृते अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषायाः अप्रसक्तिः यतोहि प्रतिषेधः अपि नास्ति, विधानमपि नास्ति, अतः शि सर्वनामस्थानम् ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव | जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति |