05---sArvadhAtukaprakaraNam-adantam-aGgam/07---divAdigaNaH: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 118: Line 118:


<big>अग्रे केवलम्‌ अङ्गं च लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |</big>
<big>अग्रे केवलम्‌ अङ्गं च लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |</big>


'''<big>दिवादिगणः (140 धातवः)</big>'''

<big>'''A.''' सामान्यधातवः (115 धातवः)</big>

<big>एषां धातूनां कृते किमपि कार्यं नास्ति | केवलं वर्णमेलनम्‌ | इगन्तधातुः वा लघु-इगुपधधातुः वा चेत्‌ '''सार्वधातुकमपित्‌''' (१.२.४), '''क्क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः |</big>

<big>आकारान्तधातवः (1 धातुः)</big>

<big>माङ्‌ माने (मापनार्थे) → मा → मा + श्यन्‌ → माय इति अङ्गम्‌ → माय + ते → लटि मायते</big>

<big>ईकारान्तधातवः (10 धातवः)</big>

<big>सर्वे आत्मनेपदिनः | गुणनिषेधत्वात्‌ अत्रापि किमपि अङ्गकार्यं नास्ति | अपि च ई + य इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति | अतः केवलं वर्णमेलनम्—</big>

<big>पीङ्‌ पाने → पी + श्यन्‌ → पी + य → पीय इति अङ्गम्‌ → पीय + ते → पीयते (पिबति इत्यर्थः)</big>

<big>ईङ्‌ गतौ → ई + श्यन्‌ → ईय → ईयते (गच्छति इत्यर्थः)</big>

<big>प्रीङ्‌ प्रीतौ → प्री + श्यन्‌ → प्रीय → प्रीयते (प्रसन्नः भवति)</big>

<big>रीङ्‌ स्रवणे → री + श्यन्‌ → रीय → रीयते (जलं वहति)</big>

<big>व्रीङ्‌ वृणोत्यर्थे → व्री + श्यन्‌ → व्रीय → व्रीयते (आच्छादयति)</big>

<big>डीङ्‌ विहायसा गतौ → डी + श्यन्‌ → डीय → डीयते (पक्षी डीयते)</big>

<big>दीङ्‌ क्षये → दी + श्यन्‌ → दीय → दीयते (क्षीणः भवति, न्यूनीभवति)</big>

<big>धीङ्‌ आधारे → धी + श्यन्‌ → धीय → धीयते (धारणं करोति)</big>

<big>मीङ्‌ हिंसायाम्‌ → मी + श्यन्‌ → मीय → मीयते (हिंसां कारोति)</big>

<big>लीङ्‌ श्लेषणे → ली + श्यन्‌ → लीय → लीयते (विलीनः भवति)</big>

<big>ऊकारान्तधातवः (2 धातू)</big>

<big>द्वावपि आत्मनेपदिनौ |</big>

<big>षूङ्‌ प्राणिप्रसवे → सू + श्यन्‌ → सू + य → सूय इति अङ्गम्‌ → सूय + ते → सूयते (जनयति, प्रसूयते)</big>

<big>दूङ्‌ परितापे → दूय → दूयते (दुःखी भवति)</big>

<big>अदुपधधातवः (19 धातवः)</big>

<big>णश अदर्शने → नश्‌ + श्यन्‌ → नश्‌ + य → नश्य इति अङ्गम्‌ → नश्य + ति → नश्यति</big>

<big>शक विभाषितो-मर्षणे → शक्‌ + श्यन्‌ → शक्य इति अङ्गम्‌ → शक्य + ति/ते → शक्यति/ते (शक्नोति)</big>

<big>अण प्राणने → अण्‌ + श्यन्‌ → अण्‌ + य → अण्य + ते → अण्यते (जीवितः तिष्ठति)</big>

<big>पद गतौ → पद्‌ + श्यन्‌ → पद्‌ + य → पद्य → पद्य + ते → पद्यते (गच्छति, भवति, घटितो भवति)</big>

<big>रध्‌ → रध्य → रध्यति, मन्‌ → मन्य → मन्यते, तप्‌ → तप्य → तप्यति, शप्‌ → शप्य → शप्यति, णभ → नभ्‌ → नभ्य → नभ्यति, अस्‌ → अस्य → अस्यति, जस्‌ → जस्य → जस्यति, तस्‌ → तस्य → तस्यति, दस्‌ → दस्य → दस्यति, वस्‌ → वस्य → वस्यति, मस्‌ → मस्य → मस्यति, स्नस्‌ → स्नस्य → स्नस्यति, नह्‌ → नह्य → नह्यति</big>

<big>इदुपधधातवः (17 धातवः)</big>

<big>ष्विदा गात्रप्रक्षरणे (स्वेदस्य आगमनम्‌) → स्विद्‌ + श्यन्‌ → स्विद्य इति अङ्गम्‌ → स्विद्य + ति → स्विद्यति</big>

<big>क्लिद्‌ → क्लिद्य → क्लिद्यति</big>

<big>क्ष्विद्‌ → क्ष्विद्य → क्ष्विद्यति</big>

<big>खिद दैन्ये → खिद्‌ + श्यन्‌ → खिद्य → खिद्य + ते → खिद्यते</big>

<big>विद सत्तायाम्‌ → विद्‌ + श्यन्‌ → विद्य → विद्य + ते → विद्यते</big>

<big>षिधु संराद्धौ → सिध्‌ + श्यन्‌ → सिध्य इति अङ्गम् → सिध्य + ति → सिध्यति</big>

<big>डिप्‌ → डिप्य → डिप्यति</big>

<big>क्षिप प्रेरणे (तुदादौ क्षिपति, चुरादौ क्षिपयति) → क्षिप्‌ + श्यन्‌ → क्षिप्य → क्षिप्य + ति → क्षिप्यति</big>

<big>तिम्‌ → तिम्य → तिम्यति</big>

<big>स्तिम्‌ → स्तिम्य → स्तिम्यति</big>

<big>क्लिश उपतापे (क्लेश-प्राप्तिः) → क्लिश्‌ → क्लिश्‌ + श्यन्‌ → क्लिश्य इति अङ्गम्‌ → क्लिश्य + ते → क्लिश्यते</big>

<big>लिश → लिश्‌ → लिश्य → लिश्यते</big>

<big>क्लिष → क्लिष्‌ → क्लिष्य → क्लिष्यति</big>

<big>इष गतौ → इष्‌ → इष्य → इष्यति</big>

<big>रिष हिंसायाम्‌ → रिष्‌ → रिष्य → रिष्यति</big>

<big>बिस → बिस्‌ → बिस्य → बिस्यति</big>

<big>ष्णिह प्रीतौ → स्निह्‌ + श्यन्‌ → स्निह्य इति अङ्गम्‌ → स्निह्य + ति → स्निह्यति</big>

<big>उदुपधधातवः (38 धातवः)</big>

<big>बुध अवगमने → बुध्‌ + श्यन्‌ → बुध्य इति अङ्गम्‌ → बुध्य + ते → बुध्यते</big>

<big>युध संप्रहारे → युध्‌ + श्यन्‌ → युध्य इति अङ्गम्‌ → युध्य + ते → युध्यते</big>

<big>क्रुध क्रोधे → क्रुध्‌ + श्यन्‌ → क्रुध्य इति अङ्गम्‌ → क्रुध्य + ति → क्रुध्यति</big>

<big>क्षुध बुभुक्षायाम्‌ → क्षुध् + श्यन्‌ → क्षुध्य इति अङ्गम्‌ → क्षुध्य + ति → क्षुध्यति</big>

<big>शुध शौचे → शुध्‌ + श्यन्‌ → शुध्य इति अङ्गम्‌ → शुध्य + ति → शुध्यति</big>

<big>कुप क्रोधे → कुप्‌ + श्यन्‌ → कुप्य इति अङ्गम्‌ → कुप्य + ति → कुप्यति</big>

<big>पुष पुष्टौ → पुष्‌ + श्यन्‌ → पुष्य इति अङ्गम्‌ → पुष्य + ति → पुष्यति</big>

<big>शुष शोषणे (शुष्कः भवति) → शुष्‌ + श्यन्‌ → शुष्य इति अङ्गम्‌ → शुष्य + ति → शुष्यति</big>

<big>तुष प्रीतौ (सन्तुष्टः भवति) → तुष्‌ + श्यन्‌ → तुष्य इति अङ्गम्‌ → तुष्य + ति → तुष्यति</big>

<big>ऋदुपधधातवः (13 धातवः)</big>

<big>सृज विसर्गे (त्यजति) → सृज्‌ + श्यन्‌ → सृज्य इति अङ्गम्‌ → सृज्य + ते → सृज्यते</big>

<big>नृती गात्रविक्षेपे → नृत्‌ + श्यन्‌ → नृत्य इति अङ्गम्‌ → नृत्य + ति → नृत्यति</big>

<big>तृप प्रीणने (तृप्तः भवति, प्रसन्नः भवति) → तृप्‌ + श्यन्‌ → तृप्य इति अङ्गम्‌ → तृप्य + ति → तृप्यति</big>

<big>हृष तुष्टौ (हर्षः आयाति) → हृष्‌ + श्यन्‌ → हृष्य इति अङ्गम्‌ → हृष्य + ति → हृष्यति</big>

<big>ऋधौ वृद्धौ (वर्धने) → ऋध्‌ + श्यन्‌ → ऋध्य इति अङ्गम्‌ → ऋध्य + ति → ऋध्यति</big>

<big>कृश तनूकरणे (कृशः भवति) → कृश्‌ + श्यन्‌ → कृश्य इति अङ्गम्‌ → कृश्य + ति → कृश्यति</big>

<big>तृष्‌ → तृष्यति, गृध्‌ → गृध्यति, दृप्‌ → दृप्यति, भृश्‌ → भृश्यति, वृश्‌ → वृश्यति, मृष्‌ → मृष्यति/ते</big>

<big>शेषधातवः (15 धातवः)</big>

<big>पुष्प विकसने → पुष्प्‌ + श्यन्‌ → पुष्प्य इति अङ्गम्‌ → पुष्प्य + ति → पुष्प्यति</big>

<big>दीपी दीप्तौ (प्रकाशते) → दीप्‌ + श्यन्‌ → दीप्य इति अङ्गम्‌ → दीप्य + ति → दीप्यति</big>

<big>पूरी आप्यायने (पूरणे) → पूर्‍ + श्यन्‌ → पूर्य इति अङ्गम्‌ → पूर्य + ति → पूर्यति</big>

<big>व्रीड्‌ → व्रीड्यति, राध्‌ → राध्यति, स्तीम्‌ → स्तीम्यति</big>

<big>'''B.''' विशेषधातवः (25 धातवः)</big>

<big>1. अनिदित्‌-धातूनाम्‌ उपधायां नकारलोपः (2 धातू)</big>

<big>यस्य धातोः ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, सः धातुः इदित्‌ इति उच्यते | यः धातुः इदित्‌, नास्ति, सः अनिदित्‌ इत्युच्यते | अनिदितां धातूनाम्‌ उपधायाः नकारस्य लोपः भवति किति ङिति प्रत्यये परे | दिवादिगणे तादृशौ द्वौ धातू स्तः, रञ्ज रागे → रञ्ज्‌, भ्रंशु अधःपतने → भ्रंश् च | श्यन्‌ ङिद्वत्‌ अतः श्यनि परे अनयोः धात्वोः न-लोपो भवति |</big>

<big>धातुपाठे अनुस्वारः, वर्गीयव्यञ्जनानां पञ्चमसदस्याः च, इमे सर्वे मूले दन्त्य-नकारः एव इति बोध्यम्‌ | तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः, ततः अग्रे च यथासङ्गम्‌ अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति |</big>

<big>अतः दिवादिगणे रञ्ज्‌-धातोः मूलरूपम्‌ अस्ति वस्तुतः रन्ज्‌; भ्रंश्-धातोः मूलरूपम्‌ अस्ति भ्रन्श्‌ | यथा—</big>

<big>रन्ज्‌ → '''नश्चापदान्तस्य झलि''' इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → रंज्‌ → '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णादेशः → रञ्ज्‌ | अतः धातुः अस्ति रञ्ज्‌, परन्तु उपधायां नकारः अस्ति इति बोध्यम्‌ |</big>

<big>रञ्ज्‌ → '''दिवादिभ्यः श्यन्‌''' (३.१.६९) इत्यनेन दिवादौ श्यन्‌ भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → रञ्ज्‌ + श्यन्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → रज्‌ + य → रज्य इति अङ्गम् → रज्य + ति → रज्यति</big>

<big>अयं रञ्ज्‌-धातुः भ्वादौ अपि अस्ति | तत्र शप्‌ इति विकरणं; शप्‌ च न कित्‌ न वा ङित्‌ अतः '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इति सूत्रेण नलोपः न भवति | परन्तु तत्रापि नलोपः इष्टः, अतः पानिणिना तदर्थं विशिष्टसूत्रं विरचितम्‌—</big>

<big>'''रञ्जेश्च''' (६.४.२६) = रञ्ज्‌-धातोः अपि नकारस्य लोपः भवति शपि परे | रञ्जेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''नलोपः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रञ्जेः च अङ्गस्य नलोपः शपि''' |</big>

<big>भ्वादिगणे रजति/रजते इति रूपे भवतः |</big>

<big>भ्रन्श्‌ → '''नश्चापदान्तस्य झलि''' इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → भ्रंश्‌ | शकारः ययि नास्ति, अतः परसवर्णादेशः न भवति | तर्हि धातुः भ्रंश्‌, परन्तु उपधायां नकारः अस्ति इति बोध्यम्‌ |</big>

<big>भ्रंश्‌ → '''दिवादिभ्यः श्यन्‌''' (३.१.६९) इत्यनेन दिवादौ श्यन्‌ भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → भ्रंश्‌ + श्यन्‌ → '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → भ्रश्‌ + य → भ्रश्य इति अङ्गम् → भ्रश्य + ति → भ्रश्यति</big>

<big>अयं भ्रंश्‌-धातुः भ्वादौ अपि अस्ति | तत्र न-लोपः न भवति, भ्रंशते इति रूपम्‌ |</big>

<big>'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषां ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति''' |</big>

<big>अनुस्वारादेशः— '''नश्चापदान्तस्य झलि''' |</big>

<big>'''नश्चापदान्तस्य झलि''' (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''मो‍ऽनुस्वारः''' (८.३.२३) इत्यस्मात्‌ '''मः''' इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तस्य मः नः च अनुस्वारः''' '''झलि संहितायाम्''' |</big>

<big>परसवर्णादेशः— '''अनुस्वारस्य ययि परसवर्णः''' |</big>

<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अनुस्वारस्य ययि परसवर्णः संहितायाम्''' |</big>

<big>'''परसवर्णः''' इत्युक्ते अनुस्वारात्‌ परः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात्‌ परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थाने‍ऽन्तरतमः''' (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थाने‍ऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |</big>

<big>धेयम्‌—‌ श्‌, ष्‌, स्‌, ह् इति वर्णाः '''यय्'''-प्रत्याहारे न सन्ति इति कारणेन एषु परेषु अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |</big>

<big>'''स्थाने‍ऽन्तरतमः''' (१.१.५०) = प्रसङ्गे (स्थानं, गुणं, प्रमाणम्‌, अर्थम्‌ इत्येषु अन्यतमम्‌ अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रं परिभाषा-सूत्रम्‌ | यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम्‌ अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात्‌ इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत्‌ सूत्रम्‌ आगत्य नियमति तत्‌ परिभाषा-सूत्रम्‌ इत्युच्यते | अत्र '''प्रसङ्गे''' तुल्यतम आदेश इति उक्तम्‌ | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम्‌ इत्यस्य आधारेण आदेशस्य विधानं चेत्‌, तर्हि स्थानम्‌, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्‌ | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्‌, गुणः; गुणः नोपलभ्यते चेत्‌ प्रमाणं, प्रमाणं नोपलभ्यते चेत्‌ अर्थः इति निर्णयस्य आधारः | आधिक्येन स्थानम्‌ अनुसृत्य एव आदेशो भवति; अपरेषां प्रसङ्गः विरलः |</big>

<big>(१) स्थानम्‌</big>

<big>मुखे स्थानस्य सादृश्यम्‌ अनुसृत्य आदेशो निर्णीयते | यथा—</big>

<big>'''अकः सवर्णे दीर्घः''' (६.१.१०१) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः''' '''संहितायाम्‌''' |</big>

<big>दण्ड + अग्रम्‌ → दण्डाग्रम्‌ | अत्र द्वौ अपि अकारौ कण्ठ्यौ, नाम कण्ठे उत्पन्नौ | अतः तयोः स्थाने यः दीर्घादेशो भवति, सोऽपि कण्ठः भवेत्‌ सम्भवति चेत्‌ | तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशो भवति |</big>

Revision as of 00:50, 30 May 2021



दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन्‌ विकरणप्रत्ययः विहितः अस्ति | सर्वप्रथमं कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः, तदा कर्तरि शप्‌ इति सूत्रं प्रबाध्य दिवादिभ्यः श्यन्‌ (३.१.६९) आगत्य कार्यं करोति | किमर्थम्‌ ? अस्यां दशायां दिवादिभ्यः श्यन्‌ स्वस्य कार्यं न करोति चेत्‌ इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप्‌ इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः दिवादिभ्यः श्यन्‌, कर्तरि शप्‌ इत्यस्य अपवादभूतसूत्रम्‌ | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत्‌ सूत्रं अपवादः अस्ति, तत्‌ अपरस्य अपेक्षया बलवत्‌ | अतः अत्र दिवादिभ्यः श्यन्‌ इति सूत्रस्य कार्यं सिध्यति |

दिवादिभ्यः श्यन्‌ (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव्‌ आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन्‌ प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दिवादिभ्यः धातुभ्यः श्यन्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |

कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |

अयं श्यन्‌-प्रत्ययः शित्‌ इति कारणतः तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात्‌ कारणात्‌, श्यन्‌-प्रत्यये परे, सार्वधातुकार्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम्‌ | परन्तु श्यन्‌ अपित्‌, अतः सार्वधातुकमपित्‌ (१.२.४) इति सूत्रेण ङिद्वत्‌ | ङिद्वत्‌ अतः क्क्ङिति च (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्‌, तत्र तत्र निषिद्धम्‌ |

सार्वधातुकमपित्‌ (१.२.४) = अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌ (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् |

क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |

प्रश्नः उदेति यत्‌ श्यन्‌-प्रत्ययस्य आगमनात्‌ प्रागेव किमर्थं न गुणकार्यं भवतु ? यथा दिव्‌-धातुः + तिप्‌ | तिप्‌ तु सार्वधातुकः अतः अनेन किमर्थं न गुणः ? उत्तरम्‌ अस्ति यत्‌ श्यनः विधानं नित्यम्‌, तिपः गुणकार्यम्‌ अनित्यम्‌ इति कारणेन गुणकार्यं निषिद्धम्‌ | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (परिभाषा ३८) | अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्‌ भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत्‌ भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत्‌ भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्‌ भवति |

नित्यम्‌ | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्‌, तस्यां दशायां यत्‌ अपरं सूत्रम्‌ अस्ति, तत्‌ नित्यसूत्रम्‌ इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्‌, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम्‌ अस्ति, तदा तत्‌ सूत्रं प्रथममेव प्रवर्तनीयम्‌ | नित्यम्‌ इत्यस्मात् कारणात्‌ बलवत्‌ | अतः पूर्वसूत्रं नित्यम्‌ अस्ति चेत्‌ पूर्वसूत्रं सत्यपि पूर्वम्‌ आयाति |

तर्हि आहत्य दिवादिगणे श्यन्‌ विहितः; श्यन्‌ च ङिद्वत्‌ | अस्य एकः परिणामः गुणनिषेधः | परन्तु प्रत्ययस्य ङित्‌‍ ङिद्वत्‌ च भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |

यः कोऽपि प्रत्ययः कित्‌ ङित्‌ वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—

१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | दिवादौ पी + श्यन्‌ + ते → पीयते | पुष्‌ + श्यन्‌ + ति → पुष्यति | क्क्ङिति च (१.१.५) |

२) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां धातूनाम्‌ इत्‌-संज्ञकः इत्‌ (ह्रस्वः इकारः) नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | भ्रंश्‌ + श्यन्‌ + ति‌ → भ्रश्यति | भ्रंश्‌ + श्यन्‌ + शतृ → भ्रश्यत्‌ | अनिदितां हल उपधाया क्ङिति (६.४.२४) |

३) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्यध्‌ + श्यन्‌ + ति → विध्यति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |

अन्यानि कित्‌-ङित्‌-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |

सम्प्रति धातूनाम्‌ आयोजनशैली एकवारं स्मारणीया | एकैकस्मिन्‌ पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते |

धातवः चतुर्दशविधाः

एकवारम्‌ धातूनां आयोजन-पद्धतिः का, किमर्थं च इति स्मरणीया |

वयं जानीमः यत्‌ पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम्‌ अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्‌, बहून्‌ शब्दान्‌ जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम्‌ अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते |

परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम्‌ आयोजनं न कृतम्‌ | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम्‌ ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः— नव अजन्तधातूनां श्रेण्यः, पञ्च च हलन्तधातूनां श्रेण्यः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम्‌ अन्तिमस्वरम्‌ अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम्‌ अनुसृत्य भवति | नाम अन्तिमवर्णात्‌ प्राक्‌ यः वर्णः, तम्‌ अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |

अधुना दिवादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम्‌ | दिवादिगणः प्रथमधातुगणसमूहे, नाम अस्मिन्‌ गणे अङ्गं सर्वत्र अदन्तम्‌ | श्यन्‌-प्रत्ययस्य शकारस्य इत्‌-संज्ञा लशक्वतद्धिते (१.३.८) इति सूत्रेण, नकारस्य इत्‌-संज्ञा हलन्त्यम्‌ (१.३.३) इति सूत्रेण, तस्य लोपः (१.३.९) इत्यनेन तयोर्लोपः; य इत्यवश्यिष्यते | दिवादिगणीयः धातुः यः कोऽपि भवतु नाम, अङ्गस्य अन्ते "य" इत्यस्य अकारः भवति एव | यथा नृत्‌ + य → नृत्य |

पूर्वमेव अस्माभिः सार्वधातुकलकारेषु (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषु) तिङ्‌-प्रत्ययाः साधिताः | पूर्वतनेपाठे अदन्ताङ्ग-तिङ्‌प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम्‌ | अधुना दिवादिगणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम्‌ इति ज्ञेयम्‌ | एकवारम्‌ अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम्‌ अदन्तम्‌ अङ्गम्‌ अपेक्ष्यते; हस्ते अङ्गम्‌ अस्ति चेत्‌, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता |

तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्‌; अङ्गं ज्ञायते चेत्‌, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |

एकवारं दिवादिगणे, चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम | तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्ताङ्गस्य ज्ञानेन, सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते | अत्र दृष्टान्ते परस्मैपदे नश्‌-धातुः, अङ्गम्‌ अस्ति नश्‌ + श्यन्‌ → नश्य |


                       लटि सिद्ध-प्रत्ययाः—                                       लट्‌-लकारे तिङन्तरूपाणि—

                       ति         तः     अन्ति                                     नश्यति       नश्यतः       नश्यन्ति

                       सि         थः       थ                                       नश्यसि       नश्यथः       नश्यथ

                       मि         वः       मः                                      नश्यामि       नश्यावः       नश्यामः

                       लोटि सिद्ध-प्रत्ययाः—                                   लोट्‌-लकारे तिङन्तरूपाणि—

                       तु, तात्‌     ताम्‌     अन्तु                                नश्यतु / नश्यता‌त्‌     नश्यताम्‌     नश्यन्तु

                       ०, तात्‌     तम्‌       त                                   नश्य/नश्यतात्‌         नश्यम्‌       नश्यत

                       आनि       आव     आम                                  नश्यानि                 नश्याव      नश्याम

                      लङि सिद्ध-प्रत्ययाः—                                     लङ्-लकारे तिङन्तरूपाणि—

                      त्‌         ताम्‌         अन्‌                               अनश्यत्‌              अनश्यताम्‌       अनश्यन्‌

                      स्‌         तम्‌           त                                 अनश्यः             अनश्यतम्‌         अनश्यत

                     अम्‌         व            म                                 अनश्यम्‌             अनश्याव         अनश्याम

                     विधिलिङि सिद्ध-प्रत्ययाः—                                 विधिलिङ्-लकारे तिङन्तरूपाणि—

                     इत्‌         इताम्‌       इयुः                                 नश्येत्‌             नश्येताम्‌             नश्येयुः

                     इः          इतम्‌        इत                                  नश्येः              नश्येतम्‌              नश्येत

                    इयम्‌         इव         इम                                   नश्येयम्‌            नश्येव                 नश्येम

दिवादिगणे, आत्मनेपदे विद्‌-धातुः, अङ्गम्‌ अस्ति विद्‌ + श्यन्‌ → विद्य

                    लटि‌ सिद्ध-प्रत्ययाः—                                             लट्‌-लकारे तिङन्तरूपाणि—

                    ते         इते         अन्ते                                    विद्यते            विद्येते                विद्यन्ते

                    से         इथे          ध्वे                                     विद्यसे            विद्येथे                विद्यध्वे

                    ए         वहे           महे                                      विद्ये             विद्यावहे               विद्यामहे

                   लोटि‌ सिद्ध-प्रत्ययाः—                                            लोट्‌-लकारे तिङन्तरूपाणि—

                  ताम्‌        इताम्‌     अन्ताम्‌                                    विद्यताम्‌         विद्येताम्‌             विद्यन्ताम्‌

                   स्व         इथाम्‌      ध्वम्‌                                     विद्यस्व           विद्येथाम्‌             विद्यध्वम्‌

                   ऐ          आवहै      आमहै                                     विद्यै             विद्यावहै              विद्यामहै

                   लङि‌ सिद्ध-प्रत्ययाः—                                             लङ्-लकारे तिङन्तरूपाणि—

                  त         इताम्‌         अन्त                                     अविद्यत        अविद्येताम्‌             अविद्यन्त

                 थाः       इथाम्‌           ध्वम्‌                                     अविद्यथाः      अविद्येथाम्‌            अविद्यध्वम्‌

                  इ          वहि           महि                                       अविद्ये         अविद्यावहि             अविद्यामहि

                  विधिलिङि‌ सिद्ध-प्रत्ययाः—                                        विधिलिङ्-लकारे तिङन्तरूपाणि—

                 ईत        ईयाताम्‌      ईरन्‌                                        विद्येत         विद्येयाताम्‌                 विद्येरन्‌

                ईथाः       ईयाथाम्‌     ईध्वम्‌                                       विद्येथाः       विद्येयाथाम्‌                 विद्येध्वम्‌

                ईय         ईवहि         ईमहि                                       विद्येय          विद्येवहि                    विद्येमहि

अग्रे केवलम्‌ अङ्गं च लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |


दिवादिगणः (140 धातवः)

A. सामान्यधातवः (115 धातवः)

एषां धातूनां कृते किमपि कार्यं नास्ति | केवलं वर्णमेलनम्‌ | इगन्तधातुः वा लघु-इगुपधधातुः वा चेत्‌ सार्वधातुकमपित्‌ (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः |

आकारान्तधातवः (1 धातुः)

माङ्‌ माने (मापनार्थे) → मा → मा + श्यन्‌ → माय इति अङ्गम्‌ → माय + ते → लटि मायते

ईकारान्तधातवः (10 धातवः)

सर्वे आत्मनेपदिनः | गुणनिषेधत्वात्‌ अत्रापि किमपि अङ्गकार्यं नास्ति | अपि च ई + य इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति | अतः केवलं वर्णमेलनम्—

पीङ्‌ पाने → पी + श्यन्‌ → पी + य → पीय इति अङ्गम्‌ → पीय + ते → पीयते (पिबति इत्यर्थः)

ईङ्‌ गतौ → ई + श्यन्‌ → ईय → ईयते (गच्छति इत्यर्थः)

प्रीङ्‌ प्रीतौ → प्री + श्यन्‌ → प्रीय → प्रीयते (प्रसन्नः भवति)

रीङ्‌ स्रवणे → री + श्यन्‌ → रीय → रीयते (जलं वहति)

व्रीङ्‌ वृणोत्यर्थे → व्री + श्यन्‌ → व्रीय → व्रीयते (आच्छादयति)

डीङ्‌ विहायसा गतौ → डी + श्यन्‌ → डीय → डीयते (पक्षी डीयते)

दीङ्‌ क्षये → दी + श्यन्‌ → दीय → दीयते (क्षीणः भवति, न्यूनीभवति)

धीङ्‌ आधारे → धी + श्यन्‌ → धीय → धीयते (धारणं करोति)

मीङ्‌ हिंसायाम्‌ → मी + श्यन्‌ → मीय → मीयते (हिंसां कारोति)

लीङ्‌ श्लेषणे → ली + श्यन्‌ → लीय → लीयते (विलीनः भवति)

ऊकारान्तधातवः (2 धातू)

द्वावपि आत्मनेपदिनौ |

षूङ्‌ प्राणिप्रसवे → सू + श्यन्‌ → सू + य → सूय इति अङ्गम्‌ → सूय + ते → सूयते (जनयति, प्रसूयते)

दूङ्‌ परितापे → दूय → दूयते (दुःखी भवति)

अदुपधधातवः (19 धातवः)

णश अदर्शने → नश्‌ + श्यन्‌ → नश्‌ + य → नश्य इति अङ्गम्‌ → नश्य + ति → नश्यति

शक विभाषितो-मर्षणे → शक्‌ + श्यन्‌ → शक्य इति अङ्गम्‌ → शक्य + ति/ते → शक्यति/ते (शक्नोति)

अण प्राणने → अण्‌ + श्यन्‌ → अण्‌ + य → अण्य + ते → अण्यते (जीवितः तिष्ठति)

पद गतौ → पद्‌ + श्यन्‌ → पद्‌ + य → पद्य → पद्य + ते → पद्यते (गच्छति, भवति, घटितो भवति)

रध्‌ → रध्य → रध्यति, मन्‌ → मन्य → मन्यते, तप्‌ → तप्य → तप्यति, शप्‌ → शप्य → शप्यति, णभ → नभ्‌ → नभ्य → नभ्यति, अस्‌ → अस्य → अस्यति, जस्‌ → जस्य → जस्यति, तस्‌ → तस्य → तस्यति, दस्‌ → दस्य → दस्यति, वस्‌ → वस्य → वस्यति, मस्‌ → मस्य → मस्यति, स्नस्‌ → स्नस्य → स्नस्यति, नह्‌ → नह्य → नह्यति

इदुपधधातवः (17 धातवः)

ष्विदा गात्रप्रक्षरणे (स्वेदस्य आगमनम्‌) → स्विद्‌ + श्यन्‌ → स्विद्य इति अङ्गम्‌ → स्विद्य + ति → स्विद्यति

क्लिद्‌ → क्लिद्य → क्लिद्यति

क्ष्विद्‌ → क्ष्विद्य → क्ष्विद्यति

खिद दैन्ये → खिद्‌ + श्यन्‌ → खिद्य → खिद्य + ते → खिद्यते

विद सत्तायाम्‌ → विद्‌ + श्यन्‌ → विद्य → विद्य + ते → विद्यते

षिधु संराद्धौ → सिध्‌ + श्यन्‌ → सिध्य इति अङ्गम् → सिध्य + ति → सिध्यति

डिप्‌ → डिप्य → डिप्यति

क्षिप प्रेरणे (तुदादौ क्षिपति, चुरादौ क्षिपयति) → क्षिप्‌ + श्यन्‌ → क्षिप्य → क्षिप्य + ति → क्षिप्यति

तिम्‌ → तिम्य → तिम्यति

स्तिम्‌ → स्तिम्य → स्तिम्यति

क्लिश उपतापे (क्लेश-प्राप्तिः) → क्लिश्‌ → क्लिश्‌ + श्यन्‌ → क्लिश्य इति अङ्गम्‌ → क्लिश्य + ते → क्लिश्यते

लिश → लिश्‌ → लिश्य → लिश्यते

क्लिष → क्लिष्‌ → क्लिष्य → क्लिष्यति

इष गतौ → इष्‌ → इष्य → इष्यति

रिष हिंसायाम्‌ → रिष्‌ → रिष्य → रिष्यति

बिस → बिस्‌ → बिस्य → बिस्यति

ष्णिह प्रीतौ → स्निह्‌ + श्यन्‌ → स्निह्य इति अङ्गम्‌ → स्निह्य + ति → स्निह्यति

उदुपधधातवः (38 धातवः)

बुध अवगमने → बुध्‌ + श्यन्‌ → बुध्य इति अङ्गम्‌ → बुध्य + ते → बुध्यते

युध संप्रहारे → युध्‌ + श्यन्‌ → युध्य इति अङ्गम्‌ → युध्य + ते → युध्यते

क्रुध क्रोधे → क्रुध्‌ + श्यन्‌ → क्रुध्य इति अङ्गम्‌ → क्रुध्य + ति → क्रुध्यति

क्षुध बुभुक्षायाम्‌ → क्षुध् + श्यन्‌ → क्षुध्य इति अङ्गम्‌ → क्षुध्य + ति → क्षुध्यति

शुध शौचे → शुध्‌ + श्यन्‌ → शुध्य इति अङ्गम्‌ → शुध्य + ति → शुध्यति

कुप क्रोधे → कुप्‌ + श्यन्‌ → कुप्य इति अङ्गम्‌ → कुप्य + ति → कुप्यति

पुष पुष्टौ → पुष्‌ + श्यन्‌ → पुष्य इति अङ्गम्‌ → पुष्य + ति → पुष्यति

शुष शोषणे (शुष्कः भवति) → शुष्‌ + श्यन्‌ → शुष्य इति अङ्गम्‌ → शुष्य + ति → शुष्यति

तुष प्रीतौ (सन्तुष्टः भवति) → तुष्‌ + श्यन्‌ → तुष्य इति अङ्गम्‌ → तुष्य + ति → तुष्यति

ऋदुपधधातवः (13 धातवः)

सृज विसर्गे (त्यजति) → सृज्‌ + श्यन्‌ → सृज्य इति अङ्गम्‌ → सृज्य + ते → सृज्यते

नृती गात्रविक्षेपे → नृत्‌ + श्यन्‌ → नृत्य इति अङ्गम्‌ → नृत्य + ति → नृत्यति

तृप प्रीणने (तृप्तः भवति, प्रसन्नः भवति) → तृप्‌ + श्यन्‌ → तृप्य इति अङ्गम्‌ → तृप्य + ति → तृप्यति

हृष तुष्टौ (हर्षः आयाति) → हृष्‌ + श्यन्‌ → हृष्य इति अङ्गम्‌ → हृष्य + ति → हृष्यति

ऋधौ वृद्धौ (वर्धने) → ऋध्‌ + श्यन्‌ → ऋध्य इति अङ्गम्‌ → ऋध्य + ति → ऋध्यति

कृश तनूकरणे (कृशः भवति) → कृश्‌ + श्यन्‌ → कृश्य इति अङ्गम्‌ → कृश्य + ति → कृश्यति

तृष्‌ → तृष्यति, गृध्‌ → गृध्यति, दृप्‌ → दृप्यति, भृश्‌ → भृश्यति, वृश्‌ → वृश्यति, मृष्‌ → मृष्यति/ते

शेषधातवः (15 धातवः)

पुष्प विकसने → पुष्प्‌ + श्यन्‌ → पुष्प्य इति अङ्गम्‌ → पुष्प्य + ति → पुष्प्यति

दीपी दीप्तौ (प्रकाशते) → दीप्‌ + श्यन्‌ → दीप्य इति अङ्गम्‌ → दीप्य + ति → दीप्यति

पूरी आप्यायने (पूरणे) → पूर्‍ + श्यन्‌ → पूर्य इति अङ्गम्‌ → पूर्य + ति → पूर्यति

व्रीड्‌ → व्रीड्यति, राध्‌ → राध्यति, स्तीम्‌ → स्तीम्यति

B. विशेषधातवः (25 धातवः)

1. अनिदित्‌-धातूनाम्‌ उपधायां नकारलोपः (2 धातू)

यस्य धातोः ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, सः धातुः इदित्‌ इति उच्यते | यः धातुः इदित्‌, नास्ति, सः अनिदित्‌ इत्युच्यते | अनिदितां धातूनाम्‌ उपधायाः नकारस्य लोपः भवति किति ङिति प्रत्यये परे | दिवादिगणे तादृशौ द्वौ धातू स्तः, रञ्ज रागे → रञ्ज्‌, भ्रंशु अधःपतने → भ्रंश् च | श्यन्‌ ङिद्वत्‌ अतः श्यनि परे अनयोः धात्वोः न-लोपो भवति |

धातुपाठे अनुस्वारः, वर्गीयव्यञ्जनानां पञ्चमसदस्याः च, इमे सर्वे मूले दन्त्य-नकारः एव इति बोध्यम्‌ | तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः, ततः अग्रे च यथासङ्गम्‌ अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति |

अतः दिवादिगणे रञ्ज्‌-धातोः मूलरूपम्‌ अस्ति वस्तुतः रन्ज्‌; भ्रंश्-धातोः मूलरूपम्‌ अस्ति भ्रन्श्‌ | यथा—

रन्ज्‌ → नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → रंज्‌ → अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णादेशः → रञ्ज्‌ | अतः धातुः अस्ति रञ्ज्‌, परन्तु उपधायां नकारः अस्ति इति बोध्यम्‌ |

रञ्ज्‌ → दिवादिभ्यः श्यन्‌ (३.१.६९) इत्यनेन दिवादौ श्यन्‌ भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → रञ्ज्‌ + श्यन्‌ → अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → रज्‌ + य → रज्य इति अङ्गम् → रज्य + ति → रज्यति

अयं रञ्ज्‌-धातुः भ्वादौ अपि अस्ति | तत्र शप्‌ इति विकरणं; शप्‌ च न कित्‌ न वा ङित्‌ अतः अनिदितां हल उपधाया क्ङिति (६.४.२४) इति सूत्रेण नलोपः न भवति | परन्तु तत्रापि नलोपः इष्टः, अतः पानिणिना तदर्थं विशिष्टसूत्रं विरचितम्‌—

रञ्जेश्च (६.४.२६) = रञ्ज्‌-धातोः अपि नकारस्य लोपः भवति शपि परे | रञ्जेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ नलोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रञ्जेः च अङ्गस्य नलोपः शपि |

भ्वादिगणे रजति/रजते इति रूपे भवतः |

भ्रन्श्‌ → नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → भ्रंश्‌ | शकारः ययि नास्ति, अतः परसवर्णादेशः न भवति | तर्हि धातुः भ्रंश्‌, परन्तु उपधायां नकारः अस्ति इति बोध्यम्‌ |

भ्रंश्‌ → दिवादिभ्यः श्यन्‌ (३.१.६९) इत्यनेन दिवादौ श्यन्‌ भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → भ्रंश्‌ + श्यन्‌ → अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → भ्रश्‌ + य → भ्रश्य इति अङ्गम् → भ्रश्य + ति → भ्रश्यति

अयं भ्रंश्‌-धातुः भ्वादौ अपि अस्ति | तत्र न-लोपः न भवति, भ्रंशते इति रूपम्‌ |

अनिदितां हल उपधाया क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषां ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | श्नान्नलोपः (६.४.२३) इत्यस्मात्‌ , लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |

अनुस्वारादेशः— नश्चापदान्तस्य झलि |

नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्‌-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्‌, ष्‌, स्‌, ह्‌ इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्‌, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | मो‍ऽनुस्वारः (८.३.२३) इत्यस्मात्‌ मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |

परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः |

अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | यय्‌-प्रत्याहारे श्‌, ष्‌, स्‌, ह्‌ एतान्‌ वर्जयित्वा सर्वे हल्‌-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनुस्वारस्य ययि परसवर्णः संहितायाम् |

परसवर्णः इत्युक्ते अनुस्वारात्‌ परः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात्‌ परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थाने‍ऽन्तरतमः (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थाने‍ऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |

धेयम्‌—‌ श्‌, ष्‌, स्‌, ह् इति वर्णाः यय्-प्रत्याहारे न सन्ति इति कारणेन एषु परेषु अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |

स्थाने‍ऽन्तरतमः (१.१.५०) = प्रसङ्गे (स्थानं, गुणं, प्रमाणम्‌, अर्थम्‌ इत्येषु अन्यतमम्‌ अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इदं सूत्रं परिभाषा-सूत्रम्‌ | यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम्‌ अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात्‌ इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत्‌ सूत्रम्‌ आगत्य नियमति तत्‌ परिभाषा-सूत्रम्‌ इत्युच्यते | अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम्‌ | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम्‌ इत्यस्य आधारेण आदेशस्य विधानं चेत्‌, तर्हि स्थानम्‌, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्‌ | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्‌, गुणः; गुणः नोपलभ्यते चेत्‌ प्रमाणं, प्रमाणं नोपलभ्यते चेत्‌ अर्थः इति निर्णयस्य आधारः | आधिक्येन स्थानम्‌ अनुसृत्य एव आदेशो भवति; अपरेषां प्रसङ्गः विरलः |

(१) स्थानम्‌

मुखे स्थानस्य सादृश्यम्‌ अनुसृत्य आदेशो निर्णीयते | यथा—

अकः सवर्णे दीर्घः (६.१.१०१) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अनुवृत्ति-सहितसूत्रम्‌— अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्‌ |

दण्ड + अग्रम्‌ → दण्डाग्रम्‌ | अत्र द्वौ अपि अकारौ कण्ठ्यौ, नाम कण्ठे उत्पन्नौ | अतः तयोः स्थाने यः दीर्घादेशो भवति, सोऽपि कण्ठः भवेत्‌ सम्भवति चेत्‌ | तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशो भवति |