05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH/tadAdi-tadanta-grahaNaM-paribhAShA-23: Difference between revisions
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती) |
m (Protected "तदादि-तदन्त-ग्रहणाम् - परिभाषा २३" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(6 intermediate revisions by 2 users not shown) | |||
Line 1:
{{DISPLAYTITLE:तदादि-तदन्त-ग्रहणाम् - परिभाषा २३}}
ध्वनिमुद्रणम् -
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/65_tadAdi-tadanta-grahaNaM_paribhAShA-23_2017-02-08.mp3 tadAdi-tadanta-grahaNaM_paribhAShA-#23_2017-02-08]
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इति सूत्रे अनुवृत्ति-सहितसूत्रम्— '''य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि''' | तत्र '<nowiki/>'''श्नुधातुभ्रुवाम्'<nowiki/>''' इति भागः '<nowiki/>'''अङ्गानाम्'''' इत्यस्य विशेषणाम् | अनेन '''श्नु''' इति भागः '''अङ्गस्य''' इत्यस्य विशेषणम् | अत्र उच्यते यत् '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन 'यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात्' इत्यर्थः | न तु यत् अङ्गं 'श्नु', तस्मात् इति |</big>
<big>अत्र प्रश्नः उदेति, यतोहि '''श्नु''' इति भागः '''अङ्गस्य''' इत्यस्य विशेषणम्, अतः '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः किमर</big><big>्थं न स्यात् ?</big> <big>अत्र '''प्रत्य'''</big><big>'''यग्रहणे तदन्ता ग्राह्याः''' इति परिभाषायाः का आवश्यकता ?</big>
<big>उच्यते | अत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः यः वर्तते, स एव तदन्तविधिः '''प्रत्ययग्रहणे''' इति परिभाषायाम्</big><big><nowiki/></big><big> अनुवर्तते | तर्</big><big>'''<nowiki/>'''</big><big>हि पुनः प्र</big><big><nowiki/></big><big>श्नः— एवं रीत्या द्विवारं कथनस्य का आवश्यकता ?</big>
<big>वस्तुतस्तु द्विवारम् इति नास्ति; अत्र 'श्नु' च 'अङ्ग' च अनयोः सम्बन्धपूरणार्थम् इयं परिभाषा अपेक्षते | सम्पूर्णपरिभाषा एवं— '''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्''' (परिभाषा #२३) | अस्यां च परिभाषायां द्वयोः सूत्रयोः 'योगविभागः' कृतः | अस्य कथनस्य आशयः एवं— चिन्तयतु द्वे सूत्रे स्तः | प्रत्येकं सूत्रं भागद्वये विभज्य, प्रत्येकस्मात् कंश्चन अंशं स्वीकृत्य, अनयोः द्वयोः अंशयोः योगं कृत्वा नूतना परिभाषा यदा निर्मीयते, तदा अयं योगविभागः इत्युच्यते |</big>
<big>अत्र '''यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्''' (१.४.१३) इति सूत्रे ''''अङ्गम्'''<nowiki/>' इति भागं निष्कास्य '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति भागः स्वीक्रियते | पुनः '''येन विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रे ''''तदन्तस्य'''<nowiki/>' इति भागः स्वीक्रियते | द्वयोः अंशयोः ('<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>', ''''तदन्तस्य'''<nowiki/>' इत्यनयोः) संयोजनेन परिभाषा निर्मिता; अयं च 'योगविभागः' |</big>
<big>तदानीं किं भवति, यस्मात् प्रत्ययः विधीयते,</big> <big>'तदादि</big><big>' इति उपतिष्ठते 'प्रत्</big><big>यये गृह्यमाणे' | अर्थात् '''यस्मात्प'''</big><big>'''्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्''' (१.४.१३) इति सूत्रम् अस्माभिः पूर्व</big><big>मेव पठित</big><big>ं, तेन या अङ्ग-संज्ञा विधीयते सा च अस्य स</big><big>ूत्रस्य एकं प्रयोजनम्, एकः अर्थः</big> <big>| अपरः अर्थः</big> <big>जन्यते यदा '<nowiki/>'''अङ्गम्'''<nowiki/>' इति भागः पृथक्क्रियते | तदानीं सूत्रं भवति '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति | सूत्रस्य प्रथमे अर्थे, अङ्ग-संज्ञा विधीयमाने अर्थे, '<nowiki/>'''प्रत्यये'''<nowiki/>' इत्यनेन 'प्रत्यये परे' इत्यर्थः; अधुना '<nowiki/>'''प्रत्यये गृह्यमाणे'''<nowiki/>' इत्यर्थः | अस्मिन् नूतने अर्थे '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>', ''''तदन्तस्य'''<nowiki/>' इत्यनयोः संयोजनेन नवीना सम्मिलिता, समाहृता ['assembled'] परिभाषा | तदादिविधिः एकस्मात् सूत्रात् आनीयते; तदन्तविधिः अन्यस्मात् आनीयते | मिलित्वा परिभाषा इत्युच्यते |</big>
<big>'<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इत्यनेन तदादिविधिः | अङ्गसंज्ञा-विधायकसूत्रात् '<nowiki/>'''यस्मात्प्रत्ययविधिस्तदादि प्रत्यये'''<nowiki/>' इति भागं पृथक्कृत्य, अर्थं विपरणमय्य, ''''प्रत्यये'''<nowiki/>' इत्यस्य सप्तमीविभक्तिम् आश्रित्य 'प्रत्यये गृह्यमाणे सति' इत्यर्थम् उक्त्वा, ततः परं</big> <big>'तदादि</big><big>' इति अंशः साध्यते |</big>
<big><nowiki/><nowiki/><nowiki/><nowiki/><nowiki/></big><big><nowiki/></big><big><nowiki/></big>
<big>अपि च व</big><big>्याकरणशास्त्रे त</big><big>दन्तविधिः यत्र यत्</big><big>र आश्रीयते, यत्र यत्र उपयुज्यते,</big> <big>तत्र सर्वत्रापि '''येन विधिस्तद'''</big><big>'''न्तस्य'''</big> <big>(</big><big>१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव सः | अ</big><big>तः '''प्'''</big><big>'''रत्ययग्रहण-'''पर</big><big>िभाषायां विद्यमान-तदन्तविधिरपि '''येन'''</big> <big>'''विधिस्तदन्तस्य''' (१.१.७२) इति सूत्रब</big><big>ोधित-तदन्तवि</big><big>धिरेव | अतः सः परिभाषायां विद्यमान-तदन्तविधिः अन्यः न, अपि तु '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य एव |</big>
<big>अस्य च सर्वस्य श्रवणेन स्वाभाविकप्रश्नः उदेति, "किन्तु अस्माकम् ''''अचि श्नुधातु...'''<nowiki/>' इति स्थितौ तु तदादि इति प्रसङ्गो नास्ति किल ? अत्र 'श्नु + अङ्गम्' इत्यनेन श्नुप्रत्ययान्तम् अङ्गम् इत्येव अर्थः साधनीयः" |</big>
<big>अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजम् | यतोहि अत्रापि</big> <big>तदादि इति अपेक्षितम् एव | नो चेत् श्नुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत्, 'देवदत्तः फलं प्राप्नुवन् पठति' इति वाक्ये, 'देवदत्तः फलं प्राप्नु' इति समुदाये प्रत्ययः अन्ते अस्ति | 'देवदत्तः फलं प्राप्नु' इति श्नुप्रत्ययान्त-पर्यन्त-भागे श्नु-प्रत्ययः अन्ते अस्ति इति कृत्वा 'देवदत्तः फलं प्राप्नु' इत्येव अङ्गम् | यतोहि 'देवदत्तः फलं प्राप्नु' इत्यपि श्नु-प्रत्ययान्तम् | तस्य अङ्गसंज्ञा-वारणार्थं 'यस्मात् विहितः' इत्युक्ते 'देवदत्तः फलं प्राप्' इति समुदायात् न अपि तु आप्-धातुतः एव श्नुप्रत्ययः विहितः | 'तदादि' इत्यस्य ग्रहणेन 'आप्नु' इत्यस्य एव अङ्गत्वं न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | तदादिविधेः प्रयोजनम् इदम् |</big>
<big>आप्-धातोरेव अयं श्नु-प्रत्ययः विहितः | अपि च सुबन्तस्य 'प्राप्नुवन्' इति यथा, तिङन्तस्य 'प्राप्नुवन्ति' इत्यस्यापि तथैव | देवदत्ताः फलानि प्राप्नुवन्ति | आहत्य '''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्''' इत्यनेन यस्मात् प्रत्ययः विहितः तस्मादेव प्रत्ययान्तस्य ग्रहणम् | एवं च आप्-धातोः श्नु-प्रत्ययः कृतश्चेत् 'आप्नु' इत्येव गृह्यते, तस्य एव उकारस्य स्थाने उवङ्-आदेशः विधीयते, न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | यतोहि 'यस्मात् श्नु-प्रत्ययः विहितः' इत्यस्य कथनेन 'आप्' इत्यस्मात् विहितः; 'यस्मात् विहितः तदादिः' अतः आप् इत्यस्मात् आरभ्य इति भागः गृह्यते '<nowiki/>'''श्नुधातुभ्रुवाम् अङ्गानाम्'''' इत्यनेन, '''श्नु''' '''अङ्गस्य''' इत्यनेन | न तु देवदत्तः इत्यस्मात् आरभ्य | अतः आप् इत्येतदाद्यवयवक, श्नु-प्रत्ययान्तावयवक-समुदायः ग्राह्यः, इति अर्थः | नाम आप्नु इति समुदाये आप् इति आद्यवयवः, नु इति अन्तावयवः, आप्नु इति समुदायः; आप् इत्येतदाद्यवयवक, नु इत्येतदन्तावयवक-समुदायः | तस्य च अजादि-प्रत्यये परे उवङ्-आदेशः |</big>
<big>आहत्य '<nowiki/>'''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्'''<nowiki/>' इति परिभाषा यत्र यत्र प्रवर्तते, तत्र सर्वत्रापि तदादिविधिः अपेक्षते | अधुना यत्र यत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) प्रवर्तते, तत्र सर्वत्र ''''प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्'''<nowiki/>' इति परिभाषा अपि प्रवर्तते इति नास्ति | केवलं यत्र प्रत्ययविधिः भवति, तत्र | तत्र सर्वत्र तदादिविधिः अपेक्षते | किन्तु '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य यः तदन्तविधिः, सः सर्वदा प्रत्ययविधौ एव इति नास्ति; प्रत्ययभिन्ने अपि भवति बहुत्र | यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य, तत्र तदादिविधिः न अप</big><big>ेक्षते |</big>
Swarup – February 2017
[https://static.miraheze.org/samskritavyakaranamwiki/7/7f/TadAdi-tadanta-grahaNaM_paribhAShA_23.pdf tadAdi-tadanta-grahaNaM paribhAShA 23.pdf] (37k) Swarup Bhai, Feb 8, 2017, 10:40 PM
|
Latest revision as of 19:35, 12 July 2021
ध्वनिमुद्रणम् -
१) tadAdi-tadanta-grahaNaM_paribhAShA-#23_2017-02-08
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रे अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि | तत्र 'श्नुधातुभ्रुवाम्' इति भागः 'अङ्गानाम्' इत्यस्य विशेषणाम् | अनेन श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम् | अत्र उच्यते यत् प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन 'यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात्' इत्यर्थः | न तु यत् अङ्गं 'श्नु', तस्मात् इति |
अत्र प्रश्नः उदेति, यतोहि श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम्, अतः येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः किमर्थं न स्यात् ? अत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः इति परिभाषायाः का आवश्यकता ?
उच्यते | अत्र येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः यः वर्तते, स एव तदन्तविधिः प्रत्ययग्रहणे इति परिभाषायाम् अनुवर्तते | तर्हि पुनः प्रश्नः— एवं रीत्या द्विवारं कथनस्य का आवश्यकता ?
वस्तुतस्तु द्विवारम् इति नास्ति; अत्र 'श्नु' च 'अङ्ग' च अनयोः सम्बन्धपूरणार्थम् इयं परिभाषा अपेक्षते | सम्पूर्णपरिभाषा एवं— प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् (परिभाषा #२३) | अस्यां च परिभाषायां द्वयोः सूत्रयोः 'योगविभागः' कृतः | अस्य कथनस्य आशयः एवं— चिन्तयतु द्वे सूत्रे स्तः | प्रत्येकं सूत्रं भागद्वये विभज्य, प्रत्येकस्मात् कंश्चन अंशं स्वीकृत्य, अनयोः द्वयोः अंशयोः योगं कृत्वा नूतना परिभाषा यदा निर्मीयते, तदा अयं योगविभागः इत्युच्यते |
अत्र यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१.४.१३) इति सूत्रे 'अङ्गम्' इति भागं निष्कास्य 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति भागः स्वीक्रियते | पुनः येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रे 'तदन्तस्य' इति भागः स्वीक्रियते | द्वयोः अंशयोः ('यस्मात्प्रत्ययविधिस्तदादि प्रत्यये', 'तदन्तस्य' इत्यनयोः) संयोजनेन परिभाषा निर्मिता; अयं च 'योगविभागः' |
तदानीं किं भवति, यस्मात् प्रत्ययः विधीयते, 'तदादि' इति उपतिष्ठते 'प्रत्यये गृह्यमाणे' | अर्थात् यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१.४.१३) इति सूत्रम् अस्माभिः पूर्वमेव पठितं, तेन या अङ्ग-संज्ञा विधीयते सा च अस्य सूत्रस्य एकं प्रयोजनम्, एकः अर्थः | अपरः अर्थः जन्यते यदा 'अङ्गम्' इति भागः पृथक्क्रियते | तदानीं सूत्रं भवति 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति | सूत्रस्य प्रथमे अर्थे, अङ्ग-संज्ञा विधीयमाने अर्थे, 'प्रत्यये' इत्यनेन 'प्रत्यये परे' इत्यर्थः; अधुना 'प्रत्यये गृह्यमाणे' इत्यर्थः | अस्मिन् नूतने अर्थे 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये', 'तदन्तस्य' इत्यनयोः संयोजनेन नवीना सम्मिलिता, समाहृता ['assembled'] परिभाषा | तदादिविधिः एकस्मात् सूत्रात् आनीयते; तदन्तविधिः अन्यस्मात् आनीयते | मिलित्वा परिभाषा इत्युच्यते |
'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इत्यनेन तदादिविधिः | अङ्गसंज्ञा-विधायकसूत्रात् 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति भागं पृथक्कृत्य, अर्थं विपरणमय्य, 'प्रत्यये' इत्यस्य सप्तमीविभक्तिम् आश्रित्य 'प्रत्यये गृह्यमाणे सति' इत्यर्थम् उक्त्वा, ततः परं 'तदादि' इति अंशः साध्यते |
अपि च व्याकरणशास्त्रे तदन्तविधिः यत्र यत्र आश्रीयते, यत्र यत्र उपयुज्यते, तत्र सर्वत्रापि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव सः | अतः प्रत्ययग्रहण-परिभाषायां विद्यमान-तदन्तविधिरपि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव | अतः सः परिभाषायां विद्यमान-तदन्तविधिः अन्यः न, अपि तु येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य एव |
अस्य च सर्वस्य श्रवणेन स्वाभाविकप्रश्नः उदेति, "किन्तु अस्माकम् 'अचि श्नुधातु...' इति स्थितौ तु तदादि इति प्रसङ्गो नास्ति किल ? अत्र 'श्नु + अङ्गम्' इत्यनेन श्नुप्रत्ययान्तम् अङ्गम् इत्येव अर्थः साधनीयः" |
अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजम् | यतोहि अत्रापि तदादि इति अपेक्षितम् एव | नो चेत् श्नुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत्, 'देवदत्तः फलं प्राप्नुवन् पठति' इति वाक्ये, 'देवदत्तः फलं प्राप्नु' इति समुदाये प्रत्ययः अन्ते अस्ति | 'देवदत्तः फलं प्राप्नु' इति श्नुप्रत्ययान्त-पर्यन्त-भागे श्नु-प्रत्ययः अन्ते अस्ति इति कृत्वा 'देवदत्तः फलं प्राप्नु' इत्येव अङ्गम् | यतोहि 'देवदत्तः फलं प्राप्नु' इत्यपि श्नु-प्रत्ययान्तम् | तस्य अङ्गसंज्ञा-वारणार्थं 'यस्मात् विहितः' इत्युक्ते 'देवदत्तः फलं प्राप्' इति समुदायात् न अपि तु आप्-धातुतः एव श्नुप्रत्ययः विहितः | 'तदादि' इत्यस्य ग्रहणेन 'आप्नु' इत्यस्य एव अङ्गत्वं न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | तदादिविधेः प्रयोजनम् इदम् |
आप्-धातोरेव अयं श्नु-प्रत्ययः विहितः | अपि च सुबन्तस्य 'प्राप्नुवन्' इति यथा, तिङन्तस्य 'प्राप्नुवन्ति' इत्यस्यापि तथैव | देवदत्ताः फलानि प्राप्नुवन्ति | आहत्य प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् इत्यनेन यस्मात् प्रत्ययः विहितः तस्मादेव प्रत्ययान्तस्य ग्रहणम् | एवं च आप्-धातोः श्नु-प्रत्ययः कृतश्चेत् 'आप्नु' इत्येव गृह्यते, तस्य एव उकारस्य स्थाने उवङ्-आदेशः विधीयते, न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | यतोहि 'यस्मात् श्नु-प्रत्ययः विहितः' इत्यस्य कथनेन 'आप्' इत्यस्मात् विहितः; 'यस्मात् विहितः तदादिः' अतः आप् इत्यस्मात् आरभ्य इति भागः गृह्यते 'श्नुधातुभ्रुवाम् अङ्गानाम्' इत्यनेन, श्नु अङ्गस्य इत्यनेन | न तु देवदत्तः इत्यस्मात् आरभ्य | अतः आप् इत्येतदाद्यवयवक, श्नु-प्रत्ययान्तावयवक-समुदायः ग्राह्यः, इति अर्थः | नाम आप्नु इति समुदाये आप् इति आद्यवयवः, नु इति अन्तावयवः, आप्नु इति समुदायः; आप् इत्येतदाद्यवयवक, नु इत्येतदन्तावयवक-समुदायः | तस्य च अजादि-प्रत्यये परे उवङ्-आदेशः |
आहत्य 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इति परिभाषा यत्र यत्र प्रवर्तते, तत्र सर्वत्रापि तदादिविधिः अपेक्षते | अधुना यत्र यत्र येन विधिस्तदन्तस्य (१.१.७२) प्रवर्तते, तत्र सर्वत्र 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इति परिभाषा अपि प्रवर्तते इति नास्ति | केवलं यत्र प्रत्ययविधिः भवति, तत्र | तत्र सर्वत्र तदादिविधिः अपेक्षते | किन्तु येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य यः तदन्तविधिः, सः सर्वदा प्रत्ययविधौ एव इति नास्ति; प्रत्ययभिन्ने अपि भवति बहुत्र | यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य, तत्र तदादिविधिः न अपेक्षते |
Swarup – February 2017
tadAdi-tadanta-grahaNaM paribhAShA 23.pdf (37k) Swarup Bhai, Feb 8, 2017, 10:40 PM