तदादि-तदन्त-ग्रहणाम् - परिभाषा २३
05---sArvadhAtukaprakaraNam-adantam-aGgam/08---tudAdigaNaH/tadAdi-tadanta-grahaNaM-paribhAShA-23
ध्वनिमुद्रणम् -
१) tadAdi-tadanta-grahaNaM_paribhAShA-#23_2017-02-08
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रे अनुवृत्ति-सहितसूत्रम्— य्वोः श्नुधातुभ्रुवाम् अङ्गानां इयङुवङौ अचि | तत्र 'श्नुधातुभ्रुवाम्' इति भागः 'अङ्गानाम्' इत्यस्य विशेषणाम् | अनेन श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम् | अत्र उच्यते यत् प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन 'यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात्' इत्यर्थः | न तु यत् अङ्गं 'श्नु', तस्मात् इति |
अत्र प्रश्नः उदेति, यतोहि श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम्, अतः येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः किमर्थं न स्यात् ? अत्र प्रत्ययग्रहणे तदन्ता ग्राह्याः इति परिभाषायाः का आवश्यकता ?
उच्यते | अत्र येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः यः वर्तते, स एव तदन्तविधिः प्रत्ययग्रहणे इति परिभाषायाम् अनुवर्तते | तर्हि पुनः प्रश्नः— एवं रीत्या द्विवारं कथनस्य का आवश्यकता ?
वस्तुतस्तु द्विवारम् इति नास्ति; अत्र 'श्नु' च 'अङ्ग' च अनयोः सम्बन्धपूरणार्थम् इयं परिभाषा अपेक्षते | सम्पूर्णपरिभाषा एवं— प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् (परिभाषा #२३) | अस्यां च परिभाषायां द्वयोः सूत्रयोः 'योगविभागः' कृतः | अस्य कथनस्य आशयः एवं— चिन्तयतु द्वे सूत्रे स्तः | प्रत्येकं सूत्रं भागद्वये विभज्य, प्रत्येकस्मात् कंश्चन अंशं स्वीकृत्य, अनयोः द्वयोः अंशयोः योगं कृत्वा नूतना परिभाषा यदा निर्मीयते, तदा अयं योगविभागः इत्युच्यते |
अत्र यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१.४.१३) इति सूत्रे 'अङ्गम्' इति भागं निष्कास्य 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति भागः स्वीक्रियते | पुनः येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रे 'तदन्तस्य' इति भागः स्वीक्रियते | द्वयोः अंशयोः ('यस्मात्प्रत्ययविधिस्तदादि प्रत्यये', 'तदन्तस्य' इत्यनयोः) संयोजनेन परिभाषा निर्मिता; अयं च 'योगविभागः' |
तदानीं किं भवति, यस्मात् प्रत्ययः विधीयते, 'तदादि' इति उपतिष्ठते 'प्रत्यये गृह्यमाणे' | अर्थात् यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१.४.१३) इति सूत्रम् अस्माभिः पूर्वमेव पठितं, तेन या अङ्ग-संज्ञा विधीयते सा च अस्य सूत्रस्य एकं प्रयोजनम्, एकः अर्थः | अपरः अर्थः जन्यते यदा 'अङ्गम्' इति भागः पृथक्क्रियते | तदानीं सूत्रं भवति 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति | सूत्रस्य प्रथमे अर्थे, अङ्ग-संज्ञा विधीयमाने अर्थे, 'प्रत्यये' इत्यनेन 'प्रत्यये परे' इत्यर्थः; अधुना 'प्रत्यये गृह्यमाणे' इत्यर्थः | अस्मिन् नूतने अर्थे 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये', 'तदन्तस्य' इत्यनयोः संयोजनेन नवीना सम्मिलिता, समाहृता ['assembled'] परिभाषा | तदादिविधिः एकस्मात् सूत्रात् आनीयते; तदन्तविधिः अन्यस्मात् आनीयते | मिलित्वा परिभाषा इत्युच्यते |
'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इत्यनेन तदादिविधिः | अङ्गसंज्ञा-विधायकसूत्रात् 'यस्मात्प्रत्ययविधिस्तदादि प्रत्यये' इति भागं पृथक्कृत्य, अर्थं विपरणमय्य, 'प्रत्यये' इत्यस्य सप्तमीविभक्तिम् आश्रित्य 'प्रत्यये गृह्यमाणे सति' इत्यर्थम् उक्त्वा, ततः परं 'तदादि' इति अंशः साध्यते |
अपि च व्याकरणशास्त्रे तदन्तविधिः यत्र यत्र आश्रीयते, यत्र यत्र उपयुज्यते, तत्र सर्वत्रापि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव सः | अतः प्रत्ययग्रहण-परिभाषायां विद्यमान-तदन्तविधिरपि येन विधिस्तदन्तस्य (१.१.७२) इति सूत्रबोधित-तदन्तविधिरेव | अतः सः परिभाषायां विद्यमान-तदन्तविधिः अन्यः न, अपि तु येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य एव |
अस्य च सर्वस्य श्रवणेन स्वाभाविकप्रश्नः उदेति, "किन्तु अस्माकम् 'अचि श्नुधातु...' इति स्थितौ तु तदादि इति प्रसङ्गो नास्ति किल ? अत्र 'श्नु + अङ्गम्' इत्यनेन श्नुप्रत्ययान्तम् अङ्गम् इत्येव अर्थः साधनीयः" |
अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजम् | यतोहि अत्रापि तदादि इति अपेक्षितम् एव | नो चेत् श्नुप्रत्ययः अन्ते अस्ति, प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत्, 'देवदत्तः फलं प्राप्नुवन् पठति' इति वाक्ये, 'देवदत्तः फलं प्राप्नु' इति समुदाये प्रत्ययः अन्ते अस्ति | 'देवदत्तः फलं प्राप्नु' इति श्नुप्रत्ययान्त-पर्यन्त-भागे श्नु-प्रत्ययः अन्ते अस्ति इति कृत्वा 'देवदत्तः फलं प्राप्नु' इत्येव अङ्गम् | यतोहि 'देवदत्तः फलं प्राप्नु' इत्यपि श्नु-प्रत्ययान्तम् | तस्य अङ्गसंज्ञा-वारणार्थं 'यस्मात् विहितः' इत्युक्ते 'देवदत्तः फलं प्राप्' इति समुदायात् न अपि तु आप्-धातुतः एव श्नुप्रत्ययः विहितः | 'तदादि' इत्यस्य ग्रहणेन 'आप्नु' इत्यस्य एव अङ्गत्वं न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | तदादिविधेः प्रयोजनम् इदम् |
आप्-धातोरेव अयं श्नु-प्रत्ययः विहितः | अपि च सुबन्तस्य 'प्राप्नुवन्' इति यथा, तिङन्तस्य 'प्राप्नुवन्ति' इत्यस्यापि तथैव | देवदत्ताः फलानि प्राप्नुवन्ति | आहत्य प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम् इत्यनेन यस्मात् प्रत्ययः विहितः तस्मादेव प्रत्ययान्तस्य ग्रहणम् | एवं च आप्-धातोः श्नु-प्रत्ययः कृतश्चेत् 'आप्नु' इत्येव गृह्यते, तस्य एव उकारस्य स्थाने उवङ्-आदेशः विधीयते, न तु 'देवदत्तः फलं प्राप्नु' इत्यस्य | यतोहि 'यस्मात् श्नु-प्रत्ययः विहितः' इत्यस्य कथनेन 'आप्' इत्यस्मात् विहितः; 'यस्मात् विहितः तदादिः' अतः आप् इत्यस्मात् आरभ्य इति भागः गृह्यते 'श्नुधातुभ्रुवाम् अङ्गानाम्' इत्यनेन, श्नु अङ्गस्य इत्यनेन | न तु देवदत्तः इत्यस्मात् आरभ्य | अतः आप् इत्येतदाद्यवयवक, श्नु-प्रत्ययान्तावयवक-समुदायः ग्राह्यः, इति अर्थः | नाम आप्नु इति समुदाये आप् इति आद्यवयवः, नु इति अन्तावयवः, आप्नु इति समुदायः; आप् इत्येतदाद्यवयवक, नु इत्येतदन्तावयवक-समुदायः | तस्य च अजादि-प्रत्यये परे उवङ्-आदेशः |
आहत्य 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इति परिभाषा यत्र यत्र प्रवर्तते, तत्र सर्वत्रापि तदादिविधिः अपेक्षते | अधुना यत्र यत्र येन विधिस्तदन्तस्य (१.१.७२) प्रवर्तते, तत्र सर्वत्र 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्' इति परिभाषा अपि प्रवर्तते इति नास्ति | केवलं यत्र प्रत्ययविधिः भवति, तत्र | तत्र सर्वत्र तदादिविधिः अपेक्षते | किन्तु येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य यः तदन्तविधिः, सः सर्वदा प्रत्ययविधौ एव इति नास्ति; प्रत्ययभिन्ने अपि भवति बहुत्र | यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य, तत्र तदादिविधिः न अपेक्षते |
Swarup – February 2017
tadAdi-tadanta-grahaNaM paribhAShA 23.pdf (37k) Swarup Bhai, Feb 8, 2017, 10:40 PM