11 - उद्देश्यविधेयभावः

From Samskrita Vyakaranam
< न्यायशास्त्रम्‌‎ | 10---prashnAH-uttarANi-ca10---nyAyashAstram/10---prashnAH-uttarANi-ca/11-uddeshya-vidheya-bhAvah
Jump to navigation Jump to search

ध्वनिमुद्रणानि -

१) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam_2017-11-04

२) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam--2_2017-11-11

३) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam--3_2017-11-18

४) visheShaNa-visheShyabhAva-uddeshya-vidheya-bhAvayoH-vailakShaNyam--4_+_paratvAparatvam_2017-11-25


उद्देश्यविधेयभावः


गते पाठे उक्तं यत्‌ विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोर्च मध्ये सूक्ष्मभेदः विद्यते | कुत्रचित्‌ अस्य भेदः नावगम्यते चेदपि स्वस्य कार्यं प्रवर्तयितुं शक्यते | परन्तु अन्यत्र, द्वयोः मध्ये विद्यमनभेदस्य बोधो न भवति चेत्‌ भाषायां दोषो जायते | अतः अनयोर्मध्ये यत्‌ वैलक्षण्यम्‌ अस्ति, तस्मिन्‌ महत्त्वम्‌ अस्माभिः अवधातव्यम्‌ | सम्प्रति कीदृशं पार्थक्यम्‌ अस्तीति पश्येम |


उद्देश्यविधेयभावस्य बोधनार्थं प्रथमतया अस्माकं ज्ञातवाक्यं परिशीलनीयं—यज्ञदत्तः आसने उपविष्टः इति प्रसङ्गे 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः यज्ञदत्तः' |


'आसननिष्ठा' इत्यनेन आसने विद्यमाना, सप्तमीतत्पुरुषसमासः, आसने निष्ठा | अत्र वक्तव्यं यत्‌ यद्यपि सूत्रविधानेन सप्तमीतत्पुरुषसमासः अल्पस्थानेषु भवति किन्तु प्राचीनसाहित्ये सप्तमीतत्पुरुषसमासः लभ्यते यत्र पाणिनीयसूत्रेण नापि विधीयते | दृष्टान्ते पुरुषोत्तमः इति शब्दः अस्ति, देवः इति तात्पर्यम्‌ | पुरुषेषु उत्तमः, पुरुषोत्तमः | सप्तमी शौण्डैः (२.१.४०) इति सप्तमीतत्पुरुषसमासविधायकं सूत्रम्‌ | अस्मिन्‌ सूत्रे शौण्डादि-गणः पठितः; अस्मिन्‌ गणे षोडश शब्दाः सन्ति— निपुण, कुशल, प्रवीण, पण्डित इत्यादयः | शौण्डादिगणे उत्तम-शब्दः नास्ति | तथापि 'पुरुषोत्तम' इति समासः कीदृशः इति चेत्‌, सप्तमीतत्पुरुषसमासः इत्येव वक्तव्यं भवति | अत्र प्रसिद्धम्‌ उदाहरणं, किन्तु काव्येषु इतोऽपि तादृशाः यथेष्टं शब्दाः स्वीकृताः सप्तमीतत्पुरुषसमासपरिधौ | अतः सूत्रविधानं नास्ति चेदपि एतादृशेषु स्थलेषु सप्तमीतत्पुरुषसमासः क्रियते | आसननिष्ठा, आसने निष्ठा |


ततः अग्रे आसननिष्ठ-अधिकरणता कर्मधारयसमासः, आसननिष्ठा अधिकरणता | अत्र 'आसननिष्ठा', 'अधिकरणता' इति पदयोः एकार्थबोद्धकत्वं, समानविभक्तिकत्वं च अस्ति | तदर्थं द्वयोः विशेषणविशेष्यभावः सम्भवः, यस्मात्‌ कर्मधारयसमासः | अग्रे अधिकरणतानिरूपिता तृतीयातत्पुरुषसमासः, अधिकरणतया निरूपिता | अत्र एकार्थबोद्धकत्वं नास्ति, समानविभक्तिकत्वम्‌ अपि नास्ति; तदर्थं विशेषणविशेष्यभावः न सम्भवति | अग्रे अधिकरणतानिरूपित-आधेयता कर्मधारयसमासः, अधिकरणतानिरूपिता आधेयता | आधेयताश्रयः षष्ठीतत्पुरुषसमासः, आधेयतायाः आश्रयः |


वस्तुतः 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः' इति सर्वम्‌ एकमेव समस्तपदम् | अपि च यत्र समासः भवति, तत्र सन्धिः अपि नित्यः | अतः 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः' इति पदम्‌ एतादृशम्— आसननिष्ठाधिकरणतानिरूपिताधेयताश्रयः |


आधेयताश्रयः यज्ञदत्तः— अत्र किन्तु नास्ति समासः | समासः किमर्थं न भवति इति चेत्‌, अत्र विशेषणविशेष्यभावो नास्ति | कर्मधारयसमासः विशेषणविशेष्यभावस्थले एव भवति | यथा कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः | अत्र कर्मधारयसमासः, किन्तु विशेषणविशेष्यभावः अस्ति वा ? वस्तुतः कर्मधारयसमासः नवविधः— विशेषणपूर्वपदः, विशेषणोत्तरपदः, विशेषणोभयपदः, उपमानपूर्वपदः, उपमानोत्तरपदः, अवधारणापूर्वपदः, सम्भावनापूर्वपदः, मध्यमपदलोपः, मयूरव्यंसकादिः इति; एतेषु सर्वेषु नवसु अपि प्रकारेषु विशेषणविशेष्यभावः एकरीत्या भवति एव | यथा नरः व्याघ्रः इव, नरव्याघ्रः, उपमानोत्तरपदकर्मधारयः | एतादृशेषु स्थलेषु यद्यपि परम्परागतः विशेषणविशेष्यभावः अस्माभिः न दृश्येत, तथापि तत्र सर्वत्रापि विशेषणविशेष्यभावस्य कश्चन अंशः भवत्येव | तस्य विशेषणविशेष्यभावस्य विभिन्नं स्वरूपं भवतु— उपमान-उपमेयभावः, पुनः सम्भावनापूर्वकर्मधारयः इत्यादिषु सर्वत्रापि स्पष्टतया विशेषणविशेष्यभावः न दृश्यते चेदपि तस्य भावस्य सारः तु बीजरूपेण अस्त्येव |


दृष्टान्ते कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः— सम्भावनापूर्वपदकर्मधारयः | अत्र 'ग्रन्थः' इति शब्देन सर्वेऽपि ग्रन्थाः स्वीक्रियन्ते | कादम्बरी इति शब्देन एकः ग्रन्थः विशिष्यते | अत्र 'विशिष्यते', 'विशेषणम्‌' अनयोः अर्थः कः ? कश्चन महान्‌ समूहः भवति; तस्मात्‌ समूहात्‌ यत्किमपि एकप्रकारकं पदार्थं वयं पृथक्‌ कुर्मः |


इदानीं 'वृक्षः' इति अस्ति | वृक्षः इति कथनेन सर्वेऽपि वृक्षाः अन्तर्भवन्ति | किन्तु 'उन्नतः वृक्षः' इति कोऽपि कथयति चेत्‌, सर्वेषु वृक्षेषु यस्य वृक्षस्य विषये सः वक्तुम्‌ इच्छति, केवलं स एव वृक्षः स्वीक्रियते | अत्र उन्नत-शब्दः किं करोति इति चेत्‌, अनेन उन्नतत्वम्‌ इति धर्मः अन्येभ्यः वृक्षेभ्यः एतम्‌ उन्नतं वृक्षं पृथक्‌ करोति |


अत्रापि कादम्बरीग्रन्थः इति स्थितौ एवमेव— ग्रन्थः इत्यनेन सर्वेऽपि ग्रन्थाः अन्तर्भवन्ति | तदा कादम्बरी इति शब्देन कश्चन ग्रन्थविशेषः तस्मात्‌ ग्रन्थसमूहात्‌ पृथक्‌ क्रियते | अतः अत्रापि विशेषणविशेष्यभावः भवति | यद्यपि सामान्यतया स्पष्टतया न ज्ञायते, स्पष्टतया न प्रतिभाति, किन्तु विशेषणविशेष्यभावस्य कश्चन अंशः अत्र अस्ति |


वस्तुतः एकेन एव सूत्रेण कर्मधारयसमाससंज्ञा विधीयते, किन्तु स च नवविधः | तच्च सूत्रम्‌ अस्ति— तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) | समानाधिकरणः इत्यनेन एकार्थबोधकत्वं, समानविभक्तिकत्वं च सिध्यति | अनेन सूत्रेण उच्यते कयोर्मध्ये कर्मधारयसमासः भवति | यथा सम्भावनापूर्वपदकर्मधारयः वदामः, कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः, हिमालयः इति पर्वतः हिमालयपर्वतः, गङ्गा इति नदी, गङ्गानदी | एषु स्थलेषु च सम्भावनापूर्वपदकर्मधारयसमासः इति उच्यते |


किन्तु सम्भावनापूर्वपदकर्मधारयस्य व्याप्तिः अत्यन्तं न्यूना | सन्दीपः इति बालकः, सन्दीपबालकः इति न भवति | किमर्थं न लभ्यते इत्युक्तौ, सम्भावनापूर्वपदकर्मधारयः प्रयोगम्‌ अश्रित्य भवति | सर्वत्र कर्तुं न शक्यते | यत्र प्रसिद्धाः प्रयोगाः सन्ति, तत्र एव भवति |


प्रकृतविषये कथनस्य तात्पर्यम्‌ एवं यत्‌ सम्भावनापूर्वपदकर्मधारये कश्चन विशेषणविशेष्यभावः अस्ति | अत एव 'एषः समासः एतेन सूत्रेण भवति, एषः समासः एतेन सूत्रेण भवति' इति सर्वत्र उच्यते व्याकरणाभ्यासे किन्तु सम्भावनापूर्वपदकर्मधारयः अन्येन केनचिदपि सूत्रेण न भवति | यथा उन्नतः वृक्षः उन्नतवृक्षः इत्यत्र विशेषणविशेष्ययोर्मध्ये येन सूत्रेण उच्यते, तेन एव सूत्रेण अत्रापि सम्भावनापूर्वपदकर्मधारयसमासः भवति | कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः इत्यत्रापि तेन एव सूत्रेण समासः विधीयते— विशेषणविशेष्ययोः येन सूत्रेण स्मासः उच्यते, तेन एव सूत्रेण | सारांशः कः ? अत्रापि सम्भावनापूर्वपदकर्मधस्थलेऽपि कश्चन विशेषणविशेष्यभावः अस्ति | साधारणतया स्पष्टतया यथासामान्यं न भाति चेदपि, स च अंशः अस्ति एव |


अधुना मूलविषये 'आधेयताश्रयः यज्ञदत्तः' इति स्थले उद्देश्यविधेयभावः इति कश्चन सिद्धान्तः प्रवर्तते | विशेषणविशेष्यभावात्‌ अतिरिक्तः कश्चन अंशः, उद्देश्यविधेयभावः | उत् + दिश्‌ + घञ्‌ → उद्देशः इति नित्यपुंलिङ्गशब्दः भावार्थे; उत्‌ + दिश्‌ + ण्यत्‌ → उद्देश्य इति विशेष्यनिघ्न-कर्मण्यर्थकशब्दः, त्रिषु लिङ्गेषु भवति च | लक्ष्यीकृत्य इति अर्थः | ण्यत्‌ प्रत्यययुक्ताः अन्ये शब्दाः— वि + शिष्‌ + ण्यत्‌ → विशेष्य; एवमेव पेयं, खाद्यं, कार्यं, वाक्यं, व्याप्यम्‌ इतीमानि पदानि ण्यत्‌-प्रत्ययान्तानि |


उद्देश्यविधेयभावः यत्र भवति, तत्र विशेषणविशेष्यभावस्य केचन नियमाः न अनुस्रियन्ते | उदाहरणार्थं विशेषणविशेष्यभावे समानलिङ्गत्वं भवेत्‌ | विशेषस्य यत्‌ लिङ्गं, तदेव भवति विशेषणस्यापि | उद्देश्यविधेयभावस्थले तथा नास्ति |


यथा 'आश्रयः यज्ञदत्तः' इति उच्यते | अत्र यज्ञदत्तः आश्रयः, यज्ञदत्तः च पुंलिङ्गे | यदि किन्तु उत्पीठिकां स्वीकुर्मः, उत्पीठिका इति आश्रयः, तदानीमपि आधेयताश्रयः उत्पीठिका इत्येव वक्तव्यम्‌ अस्माभिः | 'आश्रया' इति किमपि नास्ति; 'आश्रयः' इत्येव शब्दः | अधुना आश्रयः विशेष्यनिघ्नशब्दः नास्ति अपि तु नियतलिङ्गकः; किन्तु अत्र तावान्‌ एव भेदः इति न— अत्र उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः |


उद्देश्यविधेयभावः नाम कः ? उद्देश्यविधेयभावे यत्‌ किमपि वस्तु उद्दिश्य अन्यत्‌ किमपि विदध्मः | विदध्मः इत्युक्तौ आरोपयामः | दृष्टान्ते 'एषः मम मित्रम्‌' | अत्र किमर्थम्‌ 'एषः मम मित्रम्‌' ? 'एतत्‌ मम मित्रं' किमर्थं न भवति ? यद्यपि मित्रं नपुंसके अस्ति; किन्तु अत्र कश्चन पुरुषः अस्ति, अहं तं दर्शयित्वा वदामि, 'एषः मम मित्रम्‌' इति | अथवा काचित्‌ महिला अस्ति; तां दर्शयित्वा वदामि, 'एषा मम मित्रम्‌' | मित्रं नपुंसकलिङ्गे, किन्तु किमर्थं समानलिङ्गत्वम्‌ अकृत्वा 'एषा मम मित्रं' न तु 'एतत् मम मित्रम्‌' ? उत्तरम्‌ अस्ति यत्‌ अत्र उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः | नाम अस्माकं पुरतः विद्यमानः कश्चन जनः अस्ति | सः जनः अत्र उद्देश्यः | इत्युक्ते तम्‌ उद्दिश्य मित्रत्वं वयं तत्र कल्पयामः, मित्रत्वं तत्र आरोपयामः | 'विधेयः', 'विदधाति' इत्यस्य स एव अर्थः— आरोपणम्‌ |


'आधेयताश्रयः यज्ञदत्तः' इति स्थले यज्ञदत्तः इति उद्देश्यः, आधेयताश्रयः इति विधेयः | यज्ञदत्ते आधेयताश्रत्वं विधीयते | उद्देश्यविधेयभावः विशेषणविशेष्यभावात्‌ भिन्नः | यदि वदामः 'उत्तमः यज्ञदत्तः', यज्ञदत्तः उद्देश्यः, उत्तमः विधेयः इति वक्तुं शक्यते किम्‌ ? आं, शक्यते | दृष्टान्ते उन्नतः वृक्षः अस्ति इति चिन्तयतु | सामान्यतया 'उन्नतः वृक्षः' इति यदा वदामः तदा विशेषणविशेष्यभावः | किन्तु अधुना रामः मार्गे गच्छति | मार्गे एकं वृक्षं पश्यति; वृक्षं दृष्ट्वा वदति, “अहो ! एषः वृक्षः उन्नतः !” | अत्र वृक्षस्य उन्नतस्य च विशेषणविशेष्यभावः नास्ति | अपि तु उद्देश्यविधेयभावः | अतः ययोः द्वयोः पदयोर्मध्ये विशेषणविशेष्यभावः भवति, तयोः कदाचित्‌ उद्देश्यविधेयभावः अपि भवितुम्‌ अर्हति |


तर्हि तयोर्मध्ये कः भेदः ? इति चेत्‌, विशेषणविशेष्यभावः इत्यस्य अर्थः एवं— कश्चन समुदायः अस्ति; तस्मात्‌ समुदायात्‌ एकः पदार्थः विशिष्यते, भिद्यते, पृथक्‌ क्रियते | शतं वृक्षाः सन्ति; तेषु एकः उन्नतः | अत्र अयम्‌ एकः वृक्षः अन्येभ्यः वृक्षेभ्यः पृथक्‌ क्रियते | रामः वक्तुम्‌ इच्छति, 'एकः वृक्षः श्वः कर्तनीयः' इति | किन्तु वृक्षशब्दस्य कथनेन लोके सर्वे विद्यमानाः वृक्षाः गृह्यन्ते | अतः तस्मात्‌ बृहतः समुदायात्‌ कः वृक्षः इति व्यक्तीकर्तुं रामः यदा वदति, “मया श्वः यः वृक्षः कर्तनीयः, सः उन्नतः' , तदा अनेन अयम्‌ एकः वृक्षः लोके अवशिष्टेभ्यः वृक्षेभ्यः पृथक्‌ क्रियते | वृक्षसमूहात्‌ अयं वृक्षः विशेषणीयः येन पृथक्‌ स्यात्‌ | येन 'सर्वेषु वृक्षेषु अन्यतमः' इति प्रकटीकर्तुं शक्नुयात्‌ | इति विशेषणविशेष्यभावः |


किन्तु वृक्षसमूहात्‌ अन्यतमः वृक्षः पृथक्‌ करणीयः इति नास्ति चेत्‌, एकस्य परस्परज्ञातवृक्षस्य स्वरूपं रामः वर्णयितुम्‌ इच्छति इति चेत्‌, तर्हि 'अयं वृक्षः उन्नतः' इति रामः वदति | नाम पुरतः सर्वैः जनैः कश्चन वृक्षः दृश्यते | तं वृक्षं दृष्ट्वा तस्य स्वरूपं वर्णयितुम्‌ इच्छाति रामः | 'अहो, एषः वृक्षः उन्नतः !' इति वदति सः | अत्र तु वृक्षस्य समूहात्‌ एकं वृक्षं पृथक्‌ कर्तुम्‌ इच्छा इति न | अपि तु पुरतः दृश्यमाने वृक्षे उन्नतत्वं विधीयते रामेण | पुरतः दृश्यमानं वृक्षम्‌ उद्दिश्य उन्नत-शब्देन उन्नतत्वं तस्मिन्‌ वृक्षे विधीयते |


आहत्य 'उत्तमः वृक्षः', अपि च 'अयं वृक्षः उत्तमः'— अनयोर्मध्ये भावः भिन्नः | 'अयं वृक्षः उत्तमः' इत्यस्मिन्‌ उद्देश्यविधेयभावः न तु विशेषणविशेष्यभावः | 'उत्तमः वृक्षः' इत्यस्मिन्‌ विशेषणविशेष्यभावः | 'आश्रयः यज्ञदत्तः' इत्यस्मिन्‌ केवलम्‌ उद्देश्यविधेयभावः भवति; अत्र तु विशेषणविशेष्यभावः न सम्भवति यतोहि बहवः यज्ञदत्ताः, तादृशः यज्ञदत्तसमूहः नास्ति | सर्वेषु यज्ञदत्तेषु अयम्‌ अन्यतमः विशिष्टः इति नार्थः | अपि तु केवलम्‌ अत्र एकस्य यज्ञदत्तस्य स्वरूपं कथयामः | यज्ञदत्तः इति अस्माकम्‌ उद्देश्यः; तम्‌ उद्धिश्य विशिष्टधर्मम्‌ आरोपयामः, विधद्मः |


एतादृशेषु स्थलेषु, नाम यत्र उद्देश्यविधेयभावः भवति, तत्र कर्मधारयसमासः न भवति | वाक्यम्‌ एव तत्र व्यस्तप्रयोगः भवति, विशेषणविशेष्यस्याभावात्‌ | 'एषा महिला मम मित्रम्‌'; अत्र न कोऽपि समासः सम्भवति | अधुना आश्रयः इति शब्दः नियतलिङ्गः इति भिन्नविषयः; स एव विशेषणविशेष्याभावस्य कारणं नास्ति | उत्पीठिका भवतु, यज्ञदत्तः भवतु, आसनं भवतु, अत्र यद्वस्तु वर्णनीयम्‌ अस्ति तदस्माभिः सर्वैः ज्ञातम्‌ इति कारणतः, वस्तुसमूहः नास्ति इति कारणतः, उद्देश्यविधेयभावः एव अस्ति न तु विशेषणविशेष्यभावः | तस्मान्न कर्मधारयः |


- - -


अत्र किञ्चित्‌ तत्सम्बद्धशास्त्रीयचिन्तनम्‌ | केचन प्रश्नाः |


१) तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति एकमेव कर्मधारयसंज्ञाविधायकं सूत्रम्‌ इत्युक्तम्‌ | अनेन एकेन सूत्रेण नवानामपि प्रकाराणां कर्मधारयसमासानां कर्मधारयसंज्ञा भवति | अस्मिन्‌ सूत्रे च 'समानाधिकरणः' इत्युक्तं, नाम याभ्यां पदाभ्यां समस्यते, द्वयोः पदयोः सामानाधिकरण्यं वर्तते चेत्‌ उत्पन्नस्य समासस्य कर्मधारयसंज्ञा भवति | यत्र विशेषणविशेष्यभावः अस्ति तत्र द्वयोः पदयोः सामानाधिकरण्यम्‌ अस्त्येव | कर्मधारयसमासस्य नवसु अपि प्रकारेषु विशेषणविशेष्यभावस्य कश्चन अंशः भवति, तदर्थं सामानाधिकरण्यम्‌ अपि अस्ति, तदर्थञ्च कर्मधारयसंज्ञा |


अधुना यत्र उद्देश्यविधेयभावो भवति, तत्र कर्मधारयसमासो न भवति इत्युक्तम्‌ | किन्तु यत्र उद्देश्यविधेयभावो भवति, तत्र द्वयोः पदयोः सामानाधिकरण्यम्‌ इति तु अस्ति | उद्देश्यविधेयभावे सति सामानाधिकरण्यं भवति चेत्‌, किमर्थम्‌ अत्रापि तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रेण कर्मधारयसमासः न स्यात्‌ ?


यज्ञदत्तः आसने उपविष्टः | तत्र आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः यज्ञदत्तः इति स्थितिः | अत्र 'आश्रयः', 'यज्ञदत्तः' इत्यनयोः पदयोः कर्मधारयसमसो न भवति इत्युक्तम्‌ | किन्तु अनयोः द्वयोः पदयोः सामानाधिकरण्यम्‌ इति तु अस्ति | तदाधरेण तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रेण कर्मधारयसमासः भवेत्‌ खलु ?


अत्र किं भवति, कर्मधारयसमासो भवति न वा, सामान्यतत्पुरुषसमासो भवति न वा, बहुव्रीहिसमासो भवति न वा इत्येतादृशप्रश्नः द्वितीयप्रश्नः | आदौ 'अनयोः पदयोः मध्ये समासः भवति वा' इति प्रथमप्रश्नः | तदानीं समासः भवति चेत्‌ स च समासः कीदृशः इति द्वितीयप्रशनः | द्वयोः पदयोः समासः भवति चेदेव 'एषः कः समासः' इति प्रश्नः उदेति |


तर्हि आदौ एतयोः पदयोः समासः भवति न वा इति द्रष्टव्यम्‌ | भवति चेत्‌ सः तत्पुरुषसमासो वा अन्यविधो वा, नाम स च समासः कीदृशः इति प्रश्नः | अधुना कर्मधारयसमासः तत्पुरुषस्य कश्चन प्रभेदः | तत्‌ कथं स्वीकृतम्‌ इति चेत्‌, यः कोऽपि समासः उत्तरपदार्थप्रधानः, सः तत्पुरुषस्य कश्चन प्रभेदः एव | कर्मधारयसमासः उत्तरपदार्थप्रधानः अतः तत्पुरुषे अन्तर्भूतः | उद्देश्यविधेयभावः यत्र अस्ति, तत्र समासः एव न भवति | किमर्थम्‌ इति चेत्‌ उद्देश्यविधेयभावापन्नयोः पदयोः समासविधायकसूत्रमेव नास्ति | अतः सामानाधिकरण्यम्‌ अस्ति चेदपि समासः एव न भवति, तदर्थं च कर्मधारयसमासे परिगणना नास्ति |


सुन्दरः बालकः, आश्रयः यज्ञदत्तः इत्यनयोः द्वयोः अपि सामानाधिकरण्यम्‌ अस्ति चेत्‌, शास्त्रीयरीत्या भेदः कः ? शास्त्रीयरीत्या किमर्थम्‌ 'आश्रयः यज्ञदत्तः' इति द्वाभ्यां पदाभ्यां न समस्यते ? 'सुन्दरः बालकः' इति स्थितौ विशेषणविशेष्यभावो वर्तते | विशेषणविशेष्यभावे विशेषणत्वेन यस्य पदस्य प्रयोगं कुर्मः, तत्‌ अन्येभ्यः पदार्थेभ्यः विशिष्यमाणं पदार्थं व्यावर्तयति | 'सुन्दरः बालकः' इति स्थले बालकाः बहवः सन्ति | तत्र विशेषणत्वेन प्रयुक्तशब्दः 'सुन्दरः', तं सुन्दरं बालकं अन्येभ्यः बालकेभ्यः व्यावर्तयति—नाम् पृथक्‌ करोति | विशेषणस्य कार्यं तदेव | उद्देश्यविधेयभावस्थले व्यावर्तनं न विवक्षितम्‌ | 'बालकः सुन्दरः' इति स्थितौ 'बालकः' इति कथनेन कस्य विषये वक्ता वदति इति पूर्वमेव ज्ञायते | तस्मिन्‌ विद्यमाने बालके कोऽपि धर्मः—अत्र सैन्दर्यम्—आरोप्यते | अतः तत्र बालकः उद्देश्यः, सौदर्यं विधेयम्‌ |


तर्हि विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोः भेदः कः इति चेत्‌, 'सुन्दरः बालकः' इति यदा कथ्यते, तदानीं बालकस्य परिचयः सौन्दर्य-गुणेन एव भवति | आदौ श्रोता 'सौन्दर्यं' जानाति, अनन्तरं तादृशसौन्दर्यविशिष्टः मनुष्यः अस्ति इति एतद्द्वारा, सौन्दर्यद्वारा, श्रोता इदानीं तं बालकं जानाति—विशेषणविशेष्यभावस्थले | 'अयं बालकः सुन्दरः' इति कथ्यते चेत्‌, कस्य विषये वार्ता प्रवर्तमाना इति पूर्वमेव निश्चितं; बालकस्य परिचयः श्रोतुः मनसि पूर्वमेव जातः | तदा तस्य बालकस्य विषये कश्चन धर्मः उच्यते— अत्र सौन्दर्यम्‌ | तत्तु अतिरिक्तं ज्ञानम्‌ | इत्युक्ते सौन्दर्यगुणस्य कथनेन श्रोता बालकस्य परिचयं न प्राप्नोति | तदर्थम्‌ उच्यते‌ यत्‌ इदं सौन्दर्यज्ञानम्‌ अतिरिक्तम्‌ |


विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोः द्वयोरपि स्थले सामानाधिकरण्यम्‌ | 'सुन्दरः बालकः' इति स्थले सौन्दर्यम्‌ अपि बालकत्वम्‌ अपि बालकपदार्थे भवतः; 'बालकः सुन्दरः' इति स्थलेऽपि सौन्दर्यम्‌ अपि बालकत्वम्‌ अपि बालकपदार्थे भवतः | किन्तु यत्र सामानाधिकरण्यम्‌ अस्ति तत्र समासो भवति इति नियमेन नोक्तम्‌ | यावत्सु पदयुगलेषु मध्ये तत्पुरुषसमासः विहितः, तेषु युगलेषु सामानाधिकरण्यं यत्र दृश्यते, सः कर्मधारयः इति |


उद्देश्यविधेयभावापन्नयोः पदयोः मध्ये समासः एव न विहितः अतः सामानाधिकरण्यम्‌ अस्ति चेदपि कर्मधारयः न भवति | 'सुन्दरः बालकः' इति स्थितौ समासः विहितो भवति विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण | विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इत्यनेन विशेषणविशेष्यभावापन्नयोः मध्ये समासः विहितः | 'सुन्दरः बालकः' इत्यत्र समासविधायकसूत्रम्‌ अस्ति; 'बालकः सुन्दरः' इत्यत्र केनापि सूत्रेण समासः न विहितः | तस्मात्‌ अत्र समासः एव न भवति |


२) कर्मधारयसमासस्य साधनार्थं प्रक्रिया कीदृशी ?


'सुन्दरः बालकः' इति स्थितौ प्रथमतया विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण समासः विधीयते, तदा समासः कीदृशः इति प्रश्ने सति उत्तरपदार्थप्रधानत्वात्‌ तत्पुरुषः (२.१.२२) इति अधिकारसूत्रेण तत्पुरुषसमासः | वस्तुतः विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रं तत्पुरुषः (२.१.२२) इत्यस्य क्षेत्रे अस्ति; विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इत्यस्य अनुवृत्तिसहितसूत्रमिदम्—सुप्‌ विशेषणं सुपा समानाधिकरणेन विशेष्येण सह बहुलं तत्पुरुषः समासः इति | ततः अग्रे च सामानाधिकरण्यम्‌ अस्ति अतः तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रेण कर्मधारयसमासः | उत्तरपदार्थप्रधानः किन्तु वैयधिकरण्यम्‌‍ अस्ति चेदपि तत्पुरुषः (२.१.२२) इति सूत्रेण तत्पुरुषसमासः | यथा राज्ञः पुत्रः → राजपुत्रः | किन्तु यस्मिन्‌ तत्पुरुषसमासे सामानाधिकरण्यम्‌ अस्ति, सः तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इत्यनेन कर्मधारयः |


आहत्य द्वयोः पदयोः एकार्थबोधकत्वं, समानविभक्तिकत्वं, ततः सामानाधिकरण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थम्‌ | प्रथमतया समासविधायकसूत्रम्‌ अपेक्षितं, तदा एव सामानाधिकरण्ये सति कर्मधारयसमासत्वम्‌ | कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्रं सर्वत्र समानं न | विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण समाससंज्ञा भवति एषां कर्मधारयप्रकाराणां कृते— विशेषणपूर्वपदस्य (नीलः मेघः, नीलमेघः), विशेषणोभयपदस्य (स्थूलः उन्नतः, स्थूलोन्नतः), अवधारणापुर्वपदस्य (गुरुः एव देवः, गुरुदेवः; विद्या एव धनं, विद्याधनम्‌), सम्भावनापूर्वपदस्य (अयोध्या इति नगरी, अयोध्यानगरी; कैलासः इति अद्रिः, कैलासाद्रिः; आम्रः इति वृक्षः, आम्रवृक्षः; हिमालयः इति पर्वतः, हिमालयपर्वतः), मध्यपदलोपस्य (द्व्यधिकं शतं, द्विशतम्‌) | विशेषणोत्तरपदकर्मधरयस्य समाससंज्ञा भवति कुत्सितानि कुत्सनैः (२.१.५३) इति भिन्नसूत्रेण | यथा वैयाकरणः खसूचिः, वैयाकरणखसूचिः (खसूचिः इत्युक्ते यः बहून्‌ दोषान्‌ करोति) | भिन्नसूत्रेण यतोहि विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इति सूत्रेण विशेषणवाचकपदं पूर्वपदमेव भवति | किन्तु एकवारं यदा समासः साधितः, तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रम्— तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति |


तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति सूत्रे 'तत्पुरुषः' किमर्थम्‌ उक्तः इति चेत्, केवलं 'समानाधिकरणः कर्मधारयः' इति उच्यते चेत्‌ दोषो भवति | पाचिका भार्या → पाचिकाभार्यः, यस्य पत्नी पाचिका, इति स्थितौ द्वयोः पदयोः सामानाधिकरण्यं वर्तते, किन्तु अन्यपदप्राधान्यम्‌ अस्ति इति कारणतः बहुव्रीहिसमासः | पाचिका भार्या यस्य सः पाचिकाभार्यः | कर्मधारयः प्रायः उत्तरपदप्रधानः इति कृत्वा तत्पुरुषसमासश्रेण्यां स्थापितः |


प्रायः उत्तरपदप्रधानः तत्पुरुषः किमर्थम्‌ उक्तम्‌ इति चेत्, पञ्चनवतिप्रतिशतं तथा; कुत्रचिदेव उत्तरपदप्रधानः न | नरः व्याघ्रः इव नरव्याघ्रः इति पूर्वपदप्रधानः | किन्तु आधिक्येन तत्पुरुषः उत्तरपदप्रधानः इति कृत्वा स्वभावेन उत्तरपदप्रधानः | न्याये यदुच्यते लक्षणशब्देन तथा न, किन्तु स्वभावेन उत्तरपदप्रधानः |


३) कर्मधारयसमासे कीदृशं पदं विशेषणयोग्यं, कीदृशं पदं च विशेष्ययोग्यम्‌ ?


विशेषणं विशेष्येण बहुलम्‌ (२.१.५७) इत्यस्मिन्‌ वि + शिष्‌ भेदार्थे + ल्युट्‌ करणार्थे → विशेषणम्‌ | वि + शिष्‌ + ण्यत्‌ (तव्यत्‌-अनीयर्‌ तुल्यः)→ विशेष्य विशेषणीयार्थे | यत्‌ विशेषणीयम्‌ अस्ति, तद्विशेष्यम्‌ | अनेन विशेषणम्‌ इति भेदकम्‌ अस्ति, विशेष्यम्‌ इति भेद्यम्‌ अस्ति |


अधुना कीदृशं पदं विशेषणं भवितुं योग्यं, कीदृशं च पदं विशेष्यं भवितुं योग्यम्‌ इति द्रष्टव्यम्‌ | द्वयोः पदयोः मध्ये 'एतदेव विशेषणम्‌, एतदेव विशेष्यम्‌' इत्यस्य निर्धारणार्थं कतिचन नियमाः सन्ति | शब्दाः चतुर्विधाः— जातिप्रवृत्तिनिमित्तकशब्दाः, गुणप्रवृत्तिनिमित्तकशब्दाः, क्रियाप्रवृत्तिनिमित्तकशब्दाः, संज्ञाप्रवृत्तिनिमित्तकशब्दाः च | सङ्क्षेपे जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः इति वक्तुं शक्यते | जातिः प्रवृत्तेः निमित्तं यस्य, जातिप्रवृत्तिनिमित्तकः इत्यर्थः | यथा वृक्ष-शब्दस्य प्रवृत्तेः, नाम प्रयोगस्य, निमित्तम्‌ अस्ति वृक्षत्वजातिः, अतः वृक्षशब्दः जातिप्रवृत्तिनिमित्तकः | तर्हि शब्दाः चतुर्विधाः— जातिशब्दाः (यथा वृक्षः, उत्पलं च); गुणशब्दाः (यथा स्थूलः, उन्नतः, शीतः च); क्रियाशब्दाः (यथा पाचकः, पाठकः, नर्तकः च); संज्ञाशब्दाः (यथा अयोध्या, काशी, देवदत्तः च) | वृक्ष-शब्दस्य निमित्तं वृक्षत्वजातिः; स्थूल-शब्दस्य निमित्तं स्थौल्य-गुणः; पाचक-शब्दस्य निमित्तं पाकक्रिया; अयोध्या-शब्दस्य निमित्तम्‌ अयोध्यात्वसंज्ञा | अयोध्या अपि संज्ञा, अयोध्यात्वम्‌ अपि संज्ञा | आहत्य जातिशब्दाः, गुणशब्दाः, क्रियाशब्दाः, संज्ञाशब्दाः च |


1) द्वयोः पदयोर्मध्ये एकः जातिवाचकः, अन्यः गुणवाचको वा क्रियावाचको वा संज्ञावाचको वा इति चेत्‌, जातिशब्दस्य एव विशेष्यवाचकत्वं भवति | गुणशब्दस्य, क्रियाशब्दस्य, संज्ञाशब्दस्य च विशेषणवाचकत्वं भवति | यथा उन्नतवृक्षः, पाठकपुरुषः, अयोध्यानगरी इति |


2) पदद्वयमपि गुणवाचकम्‌ इति चेत्‌ किं विशेषणां किं विशेष्यम्‌ इत्यस्मिन्‌ कोऽपि नियमो नास्ति | स्थूलः उन्नतः → स्थूलोन्नतः | उन्नतः स्थूलः → उन्नतस्थूलः |


3) पदद्वयमपि क्रियावाचकम्‌ इति चेदपि कोऽपि नियमो नास्ति | पाठकः नर्तकः → पाठकनर्तकः | नर्तकः पाठकः → नर्तकपाठकः |


4) द्वयोः मध्ये एकः गुणशब्दः, अन्यः क्रियाशब्दः इति चेदपि कोऽपि नियमो नास्ति | स्थूलः पाचकः → स्थूलपाचकः | पाचकः स्थूलः → पाचकस्थूलः |


5) विशेषजाति-सामान्यजातिशब्दयोः समासे विशेषजातिशब्दः नित्यं विशेषणं, सामान्यजातिशब्दः नित्यं विशेष्यः च | आम्रः इति वृक्षः → आम्रवृक्षः |


अत्र च उन्नतवृक्षः विशेषणपूर्वकर्मधारयः; स्थूलोन्नतः, नर्तकपाठकः, स्थूलपाचकः च विशेषणोभयपदकर्मधारयः; कैलासाद्रिः, आम्रवृक्षः च सम्भावनापूर्वपदकर्मधारयः इति |


४) 'आधेयताश्रयः यज्ञदत्तः' इति स्थले का गतिः ?


अधुना प्रकृतौ 'आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः यज्ञदत्तः' इति स्थले यज्ञदत्तः इति उद्देश्ये विधीयते आश्रयत्वम्‌ | तर्हि यथा 'सुन्दरः बालकः' इति स्थितौ सुन्दरः प्रथमः इत्यतः बालकस्य परिचयो भवति सौन्दर्यगुणेन, तथैव आश्रयः प्रथमः इति कृत्वा आश्रयत्वेन परिचयः दीयते यज्ञदत्तस्य इति किमर्थं न स्यात् ? यदि वास्तवे आश्रयत्वेन यज्ञदत्तस्य बोधो भवति, तदानीं विशेषणविशेष्यभावः एव | यदि पूर्वमेव यज्ञदत्तस्य परिचयः जातः, तर्हि तस्मिन्‌ परिचिते यज्ञदत्ते यदा आश्रयत्वं विधीयते तदा उद्देश्यविधेयभावः | अतः कथनसमये तात्पर्यं किम्‌ इत्यस्य आधारेण विशेषणविशेष्यभावः अथवा उद्देश्यविधेयभावः इति निश्चीयते |


'सुन्दरः बालकः', 'बालकः सुन्दरः' इति उभयत्रापि यः कोऽपि अर्थो भवितुम्‌ अर्हति | वाक्यस्तरे उद्देश्यविधेयभावः यत्र अस्ति तत्र उद्देश्यवाचकत्वम्‌ आदौ प्रयोक्तव्यं, विधेयवाचकत्वम्‌ अनन्तरं प्रयोक्तव्यम्‌ इति तथा किमपि नास्ति | एवमेव विशेषणविशेष्यभावस्थले, वाक्यस्तरे विशेषणवाचकत्वं पूर्वं, विशेष्यवाचकत्वम्‌ अनन्तरम्‌ इति तथा कोऽपि नियमो नास्ति | तात्पर्यम्‌ एव मुख्यम्‌ | किन्तु सामान्यव्यवहारे सुबोधार्थम्‌ एतादृशक्रमः उपयुज्यते— उद्देश्यवाचकपदं च विशेषणवाचकपदं च पूर्वम्‌ | अतः 'आधेयताश्रयः यज्ञदत्तः' इति स्थले 'आधेयताश्रयः' इति पदं पूर्वम्‌ इत्यस्य एव आधारेण विशेषणविशेष्यभावः, इति वक्तुं न शक्यते; वक्तुः तात्पर्यं द्रष्टव्यम्‌ |


यदि शतं पुरुषाः सन्ति, तेषु च नवनवतिः पुरुषाः उत्थिताः, एकः च उपविष्टः, स च एकः पुरुषः आसने उपविष्टः इति कृत्वा, महतः जनसमूहात्‌ पृथक्करणार्थं यदि वदामः आसननिष्ठ-अधिकरणतानिरूपित-आधेयताश्रयः पुरुषः, तर्हि विशेषणविशेष्यभावः अवश्यं सिध्यति | आश्रयः पुरुषः, आश्रयपुरुषः | विशेषणपूर्वपदकर्मधारयः | विशेषणविशेष्यभावः विवक्षितः चेत्‌, कर्मधारयसमासः भवति एव | एतादृशीषु परिस्थितिषु सामान्यतया उद्देश्यविधेयभावः एव विवक्षितः इति कारणतः अत्र समासो न भवति इति वदामः | किन्तु यदि वास्तवे विशेषणविशेष्यभावः विवक्षितः. तर्हि समासः भवति अवश्यम्‌ |


आश्रयशब्दः विशेषणं न भवितुम्‌ अर्हति इति को‍ऽपि नियमः नास्ति; विशेषणविशेष्यभावविवक्षायाम्‌ आश्रयशब्दः गुणवाचकः इति कृत्वा विशेषणत्वेन उपयोगो भवति अवश्यम्‌‍ | तर्हि आश्रयशब्दः नियतलिङ्गशब्दः सन्नपि विशेषणत्वेन उपयोक्तुं शक्यते | महिला विशेष्यम्‌ अस्ति चेदपि | आधेयताश्रयः महिला → आधेयताश्रयमहिला इति कर्मधारयसमासः |


दृष्टान्ते दशरथपुत्रः रामः | रामाः बहवः सन्ति— बलरामः, परशुरामः इत्यादयः | कस्य रामस्य विषये वदन्नस्ति इति ज्ञापनीयम्‌ | तदर्थम्‌ अत्र दशरथपुत्रः इति विशेषणं, रामः इति विशेष्यः | अधुना पुत्रशब्दस्य स्थाने अपत्यम्‌ इति उपयुज्महे चेदपि भवति | अपत्यं नपुंसकलिङ्गशब्दः, सन्तानार्थे | दशरथापत्यं रामः | इदानीं दशरथापत्यं विशेषणम्‌ | कर्मधारयसमासे कृते दशरथापत्यरामः | एवमेव जनकापत्यं सीता, जनकापत्यसीता |


आहत्य द्वयोः पदयोः एकार्थबोधकत्वं, समानविभक्तिकत्वं, ततः सामानाधिकरण्यं च पर्याप्तं नास्ति कर्मधारयसमासस्य साधनार्थम्‌ | प्रथमतया समासविधायकसूत्रम्‌ अपेक्षितं, तदा एव सामानाधिकरण्ये सति कर्मधारयसमासत्वम्‌ | कर्मधारयसमासस्थले नवसु प्रकारेषु समासविधायकसूत्राणि विभिन्नानि | किन्तु एकवारं यदा समासः साधितः, तदा कर्मधारयसंज्ञा नवानां कृते एकमेव सूत्रम्— तत्पुरुषः समानाधिकरणः कर्मधारयः (१.२.४२) इति | विशेषणविशेष्यभाव-उद्देश्यविधेयभावयोः निर्धारणे च वक्तुः तात्पर्यं प्रमुखम्‌ | व्यावर्तनं विवक्षा इति चेत्‌, शब्दक्रमः यः कोऽपि भवतु नाम— विशेषणविशेष्यभावः एव अस्ति | उद्देश्यः पूर्वमेव परिचितः इति चेत्‌, तत्सम्बद्धातिरिक्तं ज्ञानम्‌ इति दीयते चेत्‌, उद्देश्यविधेयभावः इत्येव अस्ति |


Swarup – October 2017

11 - उद्देश्यविधेयभावः.pdf




–––––––––––––––––––––––––––


धेयम्‌ -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [click here] and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.