10---nyAyashAstram/10---prashnAH-uttarANi-ca/14---uttaradesha-sanyogaM-prati-vibhAga-karaNaM-va: Difference between revisions
No edit summary |
m (Vidhya moved page 14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा ? to 13 - अधोदेशसंयोगजनकः व्यापारः पतनम् without leaving a redirect) |
||
Line 1: | Line 1: | ||
<big>प्रश्नः— उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?</big> |
|||
{{DISPLAYTITLE: 13 - अधोदेशसंयोगजनकः व्यापारः पतनम्}} |
|||
<big>ध्वनिमुद्रणम् -</big> |
|||
<big>[https://archive.org/download/Nyaya-Shastram---Vidyadharii/119_adhodesha-sanyogajanakaH-vyApAraH-patanam_2017-12-23.mp3 १) adhodesha-sanyogajanakaH-vyApAraH-patanam_2017-12-23]</big> |
|||
<big>उत्तरं— सामान्यक्रमः अयं—</big> |
|||
<big><u>अधोदेशसंयोगजनकः व्यापारः पतनम्</u></big> |
|||
⚫ | |||
<big>प्रश्नः— 'अधोदेशसंयोगजनकः व्यापारः पतनम्' इत्यस्मिन् कथने 'व्यापारः' नाम कः ?</big> |
|||
<big>विभागः पूर्वसंयोगनाशं जनयति, तदा उत्तरदेशसंयोगो भवति | अत्र विभागः एकं संयोगं नाशयति, अपरं संयोगम् उत्पादयति | एतत् अवश्यं भवितुम् अर्हति; विभागलक्षणविरोधी विचारो नास्ति | विभागः संयोगस्य नाशकः अपि जनकः अपि भवितुम् अर्हति | यतोहि यं संयोगं नाशयति, तमेव संयोगं जनयति इति नास्ति | यं संयोगं नाशयति, सः संयोगः भिन्नः; यं संयोगं जनयति, सः संयोगः भिन्नः | अतः विभागे संयोगनाशकत्वं संयोगजनकत्वं चोभयमविरुद्धम् | यथा वक्ष्यमाणे शब्दे शब्दजनकत्वं शब्दनाशकत्वं च | यस्य जनकत्वं तस्यैव नाशकत्वम् इति नोच्यते | क्रियायामपि पूर्वसंयोगनाशकत्वम् उत्तरसंयोगजनकत्वं चोभयं वर्तते | लक्षणं तु संयोगासमवायिकारणत्वमिति |</big> |
|||
<big>उत्तरं— पतनप्रक्रियायां कश्चन क्रमो भवति |</big> |
|||
<big>उत्तरदेशसंयोगं प्रति विभाग एव अन्यथासिद्धो यदि भवेत्तर्हि विभागजनकस्य कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्येत | अतः उत्तरदेशसंयोगं प्रति विभागः कारणं भवत्येव |</big> |
|||
⚫ | |||
<big>प्रश्नः— क्रिया विभागं जनयति | विभागः पूर्वदेशसंयोगनाशं जनयति | पूर्वदेशसंयोगनाशः अपि च क्रिया उत्तरदेशसंयोगं जनयति | अतः विभागः परम्परया उत्तरदेशसंयोगं प्रति कारणं इति स्वीकार्यं इति चेत्, कुलालस्य पितुः अपि परम्परया घटं प्रति कारणं भवतु | किन्तु, तन्नाङ्गीकृतम् | अतः एतदपि नाङ्गीकार्यम् |</big> |
|||
<big>अस्मिन् प्रसङ्गे 'अधोदेशसंयोगजनकः व्यापारः पतनम्' इति उक्तम् | अत्र व्यापारः इत्युक्ते क्रिया एव | क्रियायाः लक्षणं— संयोगासमवायिकारणं कर्म | तदर्थम् अत्र उक्तं यत् क्षिप्तकन्दुकस्य अधोदेशेन सह यः संयोगः जायते, तस्य जनिका पतनक्रिया | यया क्रियया अधोदेशेन सह संयोगः उत्पद्यते सा संयोगजनिका | जनकत्वेन कारणत्वस्य इङ्गितम् |</big> |
|||
<big>उत्तरं— क्रिया-विभागः-संयोगनाशः-संयोगोत्पत्तिः | अत्र क्रमे संयोगोत्पत्तौ क्रिया कारणम् | क्रिया विभागोत्पत्तिं विना संयोगं न जनयति | अतः क्रियया संयोगजनने विभागस्य व्यापारत्वम् | यथा इन्द्रियद्वारा प्रत्यक्षजनने सन्निकर्षस्य व्यापारत्वम् | व्यापारश्च नान्यथासिद्धः कारणमेव | कुलालपितुः कथमत्र दृष्टान्तरूपेण ग्रहणम् ? कुलालपिता कारणस्य जनकः न तु कारणजन्यः | (कार्यकारणयोः मध्यवर्तिनाम् अन्यथासिद्धत्वं कुत्रापि अन्यत्र दृष्टं वा ?)</big> |
|||
<big>उपरितन-प्रक्रियां सम्यक्तया वीक्षताम् | अत्र बोध्यं यत् आद्यपतनक्रिया विभागात् साक्षात् पूर्वं, तस्य कारणं च | सत्यं, विभागं प्रति आद्यपतनक्रिया कारणम् | किन्तु आद्यपतनक्रिया उत्तरदेशसंयोगात् साक्षात् पूर्वं नास्ति किल | कारणपरिष्कारविषये अस्माभिरधीतं यत् किञ्चन कस्यचित् कारणमिति निर्धारयितुं तेन कार्याधिकराणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् | कार्यं प्रति कारणस्य नियतपूर्ववृत्तित्वं भवेत् |</big> |
|||
<big>अत्र बोध्यं यत् 'व्यापारः' इति 'क्रिया' इत्यर्थे न अपि तु 'तज्जन्यत्वे सति तज्जन्यजनकत्वम्' इति व्यापारस्य लक्षणाम् | व्यापारः, लोके माध्यमम् इति वदामः |</big> |
|||
<big>अतः उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया कारणं न स्यात् | यया रीत्या कुलालस्य पिता घटं प्रति अन्यथासिद्धः, तया एव रीत्या उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथासिद्धा स्यात् यतोहि साक्षात् पूर्वं इयं क्रिया न घटिता | परन्तु तथा नास्ति | यथोक्तं, क्रियायाः लक्षणं— संयोगासमवायिकारणं कर्म | विभागं प्रति संयोगं प्रति च क्रियायाः असाधारणकारणत्वं स्वीकृतम् अस्ति |</big> |
|||
<big>प्रश्नः— किन्तु एवं चेत्, लक्षणे एतादृशीम् एकां सीमां कृत्वा निर्दिशन्ति स्म यत् 'पूर्वदेशसंयोगनाशको गुणः विभागः' इति, यथा 'आद्यपतनासमवायिकारणं गुरुत्वम्' इति सीमितं तद्वत् |</big> |
|||
<big>कथं विभागस्य अपि संयोगस्य अपि कर्म कारणम् ? कथम् उत्तरदेशसंयोगं प्रति आद्यपतनक्रिया अन्यथासिद्धा नास्ति ? इति चेत्, आद्यपतनक्रिया कदा नश्यति ? उत्तरदेशसंयोगानन्तरम् एव क्रिया नश्यति | अतः उत्तरदेशसंयोगकार्यनियतपूर्ववृत्तित्वं क्रियायां वर्तते | क्रिया चतुर्थक्षणपर्यन्तं तिष्ठति, उत्तरदेशसंयोगेन नश्यति इति स्वीक्रियते | किमर्थं तावत् कालपर्यन्तं क्रियायाः स्थितिः स्वीक्रियते इति चेत्, संयोगं प्रति तस्याः कारणत्वम् अस्ति | नाम यदा उत्तरदेशसंयोगः जायते, तावता आद्यपनतक्रिया न नष्टा | उत्तरदेशसंयोगस्य जन्यत्वम् आवश्यकं, तदर्थमेव तावत् पर्यन्तम् आद्यपनतक्रियया स्थातव्यम् |</big> |
|||
<big>उत्तरं— 'संयोगनाशको गुणो विभागः' इत्यत्र विभागेन सर्वदाऽपि संयोगः नश्यति | इति तावदेव तेषां तात्पर्यम् | इत्युक्ते पूर्वसंयोगः नश्यति अथवा कः संयोगः नश्यति इति तैः नोक्तम् | नोक्तं चेदपि समस्या नास्ति; तत्र दोषः कोऽपि नास्ति |</big> |
|||
<big>बहुत्र कार्यकारणभावे कार्यात् साक्षत् प्राक् कारणं स्वयं जन्यते | किन्तु कुत्रचित् कार्यकारणभावस्य प्रमाणार्थं पूर्वकालिकपदार्थः अधुनापि वर्तते इत्यनेन कारणत्वं स्वीक्रियते | तादृशीषु परिस्थितिषु तस्य अन्यथासिद्धत्वं न कल्प्यते | संयोगासमवायिकारणं कर्म | कर्म संयोगं जनयति | किन्तु कदाचित् कर्म साक्षात् संयोगं न जनयति; कदाचित् कर्म विभागं जनयति, तदा पूर्वसंयोगनाशः, तदा एव उत्तरदेशसंयोगः | उत्तरदेशसंयोगं प्रति असमावायिकारणम् आद्यपनतक्रिया | उत्तरदेशसंयोगं प्रति पूर्वसंयोगनाशः अपि कारणम् | यावत् पूर्वसंयोगः न नश्यति, तावत् उत्तरदेशसंयोगः नोत्पद्यते | पूर्वसंयोगः उत्तरदेशसंयोगं प्रतिबन्धकः; प्रतिबन्धकाभावः कार्यं प्रति कारणम् | उत्तरदेशसंयोगं प्रति आद्यपनतक्रिया असमावायिकारणं; पूर्वसंयोगनाशः च निमित्तकारणम् |</big> |
|||
<big>'संयोगनाशको गुणो विभागः' इति कथनेन, कस्यापि च लक्षणस्य कथनेन तत्र लक्षणदोषोऽस्ति वा इति चिन्तनीयम् | अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा असम्भवदोषो वा इति चिन्तनीयम् | अतः 'संयोगनाशको गुणो विभागः' इति उक्तं चेत्, विभागे अव्याप्तिः कुत्रचित् अस्ति वा इति द्रष्टव्यम् | अस्य लक्षणास्य विभागे यदि कुत्रचित् अव्याप्तिर्भवति, तर्हि लक्षणं परिवर्तनीयम् | किन्तु तथा तु कुत्रापि नास्ति | सर्वेऽपि विभागाः संयोगनाशकाः एव | अतः कुत्रापि 'संयोगनाशक्त्वे सति गुणत्वम्' इति लक्षणेन, विभागे अव्याप्तिः नास्ति |</big> |
|||
<big>क्रिया विभागं जनयति; विभागेन क्रिया न जन्यते | किमर्थम् इति चेत्, उत्तरदेशसंयोगेन पूर्वविभागो नश्यति | द्वितीयपतनक्रियोत्पत्तिपूर्वक्षणे विभागस्य अवस्थानं न भवति | अतः द्वितीयपतनक्रियां प्रति विभागः कारणं न भवितुम् अर्हति; विभागः कामपि क्रियां प्रति कारणं न भवति | संयोगनाशः चिरं तिष्ठति, परन्तु विभागः चिरं न तिष्ठति | 'विभक्तम्' इति प्रतीतिः विद्यते कतिपयक्षणपर्यन्तम् एव; उत्तरदेशसंयोगेन पूर्वविभागो नश्यति |*</big> |
|||
<big>एवमेव, विभागात् अन्यत्र कुत्रापि अतिव्याप्तिर्न भवति | इत्युक्ते विभागम् अतिरिच्य अन्यः कोऽपि गुणः संयोगं न नाशयति | क्रिया संयोगं नाशयति; किन्तु क्रिया तु क्रिया एव, गुणः न | कोऽपि गुणः सन् संयोगं नाशयति चेत्, सः विभाग एव | तेन कारणेन 'संयोगनाशक्त्वे सति गुणत्वम्' इति लक्षणस्य विभागात् अन्यत्र कुत्रापि अतिव्याप्तिर्न भवति |</big> |
|||
<big>द्वितीयपतनक्रियां प्रति प्रथमक्रिया प्रतिबन्धिका | यावत् प्रथमक्रिया न नश्यति, तावत् द्वितीयपतनक्रिया न जायते | प्रतिबन्धकाभावः कार्यंं प्रति कारणम् अतः प्रथमक्रियाभावः द्वितीयपतनक्रियां प्रति कारणम् |</big> |
|||
<big>'संयोगनाशको गुणो विभागः' इत्यस्मिन् विभागे अव्याप्तिः यदि स्यात्, अथवा विभागात् अन्यत्र कुत्रचित् अतिव्याप्तिः यदि स्यादेव लक्षणवाक्ये किमपि योजनीयम्; अन्यथा न योजनीयम् | अत्र न अव्याप्तिः न वा अतिव्याप्तिः | अतः लक्षणं परिवर्तनीयं नास्ति |</big> |
|||
⚫ | |||
<big>अन्यथा किं भवति इत्युक्तौ लक्षणे तस्य योजितदलस्य वैयर्थ्यं भवति | लक्षणे यत्किमपि दलं योजनीयं चेत्, अव्याप्तिवारणाय व्याप्तिवारणाय एव योजनीयम्; अन्यथा न योजनीयम् | इदानीं यत्र 'आद्यपतनासमवायिकारणं गुरुत्वम्' इत्युच्यते, तत्र आद्यम् इति वक्तव्यम् अस्ति | किमर्थम् इत्युक्ते, केवलं 'पतनासमवायिकारणं गुरुत्वम्' इति वदामश्चेत्, पतनस्य असमवायिकारणं वेगः अपि भवति | कस्य पतनस्य कारणम् ? द्वितीयपतनस्य | अतः 'पतनासमवायिकारणं' केवलं गुरुत्वं न; वेगः अपि भवति, अतः वेगे अतिव्याप्तिः | तदर्थम् 'आद्यम्' इति गुरुत्वलक्षणे योजनीयम् | तर्हि आद्यं किमर्थं योजितम् ? अतिव्याप्तिवारणाय |</big> |
|||
<big>*अत्र किन्तु न्यायशास्त्रे कश्चन मतभेदोऽपि वर्तते | केचन वदन्ति यत् विभागः तदाश्रयद्रव्यस्थितिकालं यावत् तिष्ठति | आश्रयनाशात् नश्यति इति मन्तव्यम् इति तैरुच्यते | उत्तरसंयोगानन्तरमपि इमौ विभक्तौ इति प्रतीतिः भवत्येव अतः उत्तरसंयोगः विभागस्य नाशकः इति वक्तुं न शक्यते | युक्त्या विचारः क्रियते चेत् विभागस्य उत्तरसंयोगेन नाशः इति कल्पने काठिन्यमेव प्रतिभाति | तथा सति इमौ विभक्तौ इति प्रतीत्यनापत्तिः | गुणस्य नाशः द्विधा भवति | विरोधिगुणेन आश्रयनाशाद्वा | विरोधिगुणस्यानाशकत्वे आश्रयनाशनाश्यत्वं स्वतः भवत्येव |</big> |
|||
<big>अत्र प्रकृतौ तु विभागः पूर्वसंयोगं नाशयति | अपरं संयोगं जनयति चेदपि 'संयोगनाशकः गुणः विभागः' इति यदा उच्यते, तदानीं कुत्रापि अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा न भवति | अतः तत्र ''''पूर्व'''संयोगनाशकः गुणः' इति योजनीयं नास्ति | धेयं यत् 'पूर्वसंयोगनाशकः गुणः' इत्युक्तं चेत् कोऽपि तादृशदोषः नास्ति, किन्तु व्यर्थता भवति | लक्षणे पूर्वसंयोगनाशकत्वं वदामश्चेत् 'पूर्व'-पदं व्यर्थम् | अतः नैव योजनीयम् | यथोक्तञ्च गुरुत्वलक्षणे आद्यपदाभावे वेगेऽतिव्याप्तिः— तदर्थमेव 'आद्य'-पदं योजितम् |</big> |
|||
⚫ | [https://static.miraheze.org/samskritavyakaranamwiki/ |
||
<big>इत्थञ्च अन्ततो गत्वा तात्पर्यमेवं यत् लक्षणे किमपि योजनीयं वा न वा इत्याशये, “लक्षणं स्पष्टं भवतु' वा 'लक्षणस्य सम्यक् अवगमनं भवतु', 'लक्षणं सम्यक् अवगन्तव्यं जनैः' इति कारणेन दलं न योजयन्ति नैयायिकाः | लक्षणे तावदेव वक्तव्यं यावदावश्यकम् | स्पष्टप्रतिपत्यर्थं लक्षणे व्यर्थविशेषणानां प्रयोगो न भवति | तदानीं किमपि योज्यते यदा लक्षणे दोषः अस्ति, नो चेत् न |</big> |
|||
<big>प्रश्नः— विभागः उतरदेशसंयोगं प्रति कारणम् इति चेत्, तदेव उतरदेशसंयोगजनकत्वं विभागस्य लक्षणं किमर्थं न स्यात् (पूर्वदेशनाशकत्वस्य स्थाने) ?</big> |
|||
<big>उत्तरम्— एकस्य वस्तुनः एकमेव लक्षणमिति नास्ति | यथा पृथिव्याः गन्धवत्त्वं, पाकजरूपवत्त्वं, नानारूपवत्त्वं, नानारसवत्त्वम् इत्यादिकम् | अव्याप्त्यादिदोषाः न सन्ति चेत् किमपि लक्षणं भवितुम् अर्हति | एकं लक्षणम् अपरस्य दूषकं न भवति |</big> |
|||
⚫ | |||
⚫ | [https://static.miraheze.org/samskritavyakaranamwiki/9/92/14_-_%E0%A4%89%E0%A4%A4%E0%A5%8D%E0%A4%A4%E0%A4%B0%E0%A4%A6%E0%A5%87%E0%A4%B6%E0%A4%B8%E0%A4%82%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%82_%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A4%E0%A4%BF_%E0%A4%B5%E0%A4%BF%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%83_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%A3%E0%A4%82_%E0%A4%B5%E0%A4%BE.pdf 14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा.pdf] |
Revision as of 18:14, 17 June 2021
प्रश्नः— उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?
उत्तरं— सामान्यक्रमः अयं—
पूर्वदेशसंयोगः (यथा वृक्ष-फलयोः) → आद्यपतनक्रिया → विभागः → पूर्वसंयोगनाशः → उत्तरदेशसंयोगः → प्रथमक्रियानाशः → द्वितीयपतनक्रियोत्पत्तिः
विभागः पूर्वसंयोगनाशं जनयति, तदा उत्तरदेशसंयोगो भवति | अत्र विभागः एकं संयोगं नाशयति, अपरं संयोगम् उत्पादयति | एतत् अवश्यं भवितुम् अर्हति; विभागलक्षणविरोधी विचारो नास्ति | विभागः संयोगस्य नाशकः अपि जनकः अपि भवितुम् अर्हति | यतोहि यं संयोगं नाशयति, तमेव संयोगं जनयति इति नास्ति | यं संयोगं नाशयति, सः संयोगः भिन्नः; यं संयोगं जनयति, सः संयोगः भिन्नः | अतः विभागे संयोगनाशकत्वं संयोगजनकत्वं चोभयमविरुद्धम् | यथा वक्ष्यमाणे शब्दे शब्दजनकत्वं शब्दनाशकत्वं च | यस्य जनकत्वं तस्यैव नाशकत्वम् इति नोच्यते | क्रियायामपि पूर्वसंयोगनाशकत्वम् उत्तरसंयोगजनकत्वं चोभयं वर्तते | लक्षणं तु संयोगासमवायिकारणत्वमिति |
उत्तरदेशसंयोगं प्रति विभाग एव अन्यथासिद्धो यदि भवेत्तर्हि विभागजनकस्य कर्मणः कथं कारणत्वं प्रतिपादयितुं शक्येत | अतः उत्तरदेशसंयोगं प्रति विभागः कारणं भवत्येव |
प्रश्नः— क्रिया विभागं जनयति | विभागः पूर्वदेशसंयोगनाशं जनयति | पूर्वदेशसंयोगनाशः अपि च क्रिया उत्तरदेशसंयोगं जनयति | अतः विभागः परम्परया उत्तरदेशसंयोगं प्रति कारणं इति स्वीकार्यं इति चेत्, कुलालस्य पितुः अपि परम्परया घटं प्रति कारणं भवतु | किन्तु, तन्नाङ्गीकृतम् | अतः एतदपि नाङ्गीकार्यम् |
उत्तरं— क्रिया-विभागः-संयोगनाशः-संयोगोत्पत्तिः | अत्र क्रमे संयोगोत्पत्तौ क्रिया कारणम् | क्रिया विभागोत्पत्तिं विना संयोगं न जनयति | अतः क्रियया संयोगजनने विभागस्य व्यापारत्वम् | यथा इन्द्रियद्वारा प्रत्यक्षजनने सन्निकर्षस्य व्यापारत्वम् | व्यापारश्च नान्यथासिद्धः कारणमेव | कुलालपितुः कथमत्र दृष्टान्तरूपेण ग्रहणम् ? कुलालपिता कारणस्य जनकः न तु कारणजन्यः | (कार्यकारणयोः मध्यवर्तिनाम् अन्यथासिद्धत्वं कुत्रापि अन्यत्र दृष्टं वा ?)
अत्र बोध्यं यत् 'व्यापारः' इति 'क्रिया' इत्यर्थे न अपि तु 'तज्जन्यत्वे सति तज्जन्यजनकत्वम्' इति व्यापारस्य लक्षणाम् | व्यापारः, लोके माध्यमम् इति वदामः |
प्रश्नः— किन्तु एवं चेत्, लक्षणे एतादृशीम् एकां सीमां कृत्वा निर्दिशन्ति स्म यत् 'पूर्वदेशसंयोगनाशको गुणः विभागः' इति, यथा 'आद्यपतनासमवायिकारणं गुरुत्वम्' इति सीमितं तद्वत् |
उत्तरं— 'संयोगनाशको गुणो विभागः' इत्यत्र विभागेन सर्वदाऽपि संयोगः नश्यति | इति तावदेव तेषां तात्पर्यम् | इत्युक्ते पूर्वसंयोगः नश्यति अथवा कः संयोगः नश्यति इति तैः नोक्तम् | नोक्तं चेदपि समस्या नास्ति; तत्र दोषः कोऽपि नास्ति |
'संयोगनाशको गुणो विभागः' इति कथनेन, कस्यापि च लक्षणस्य कथनेन तत्र लक्षणदोषोऽस्ति वा इति चिन्तनीयम् | अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा असम्भवदोषो वा इति चिन्तनीयम् | अतः 'संयोगनाशको गुणो विभागः' इति उक्तं चेत्, विभागे अव्याप्तिः कुत्रचित् अस्ति वा इति द्रष्टव्यम् | अस्य लक्षणास्य विभागे यदि कुत्रचित् अव्याप्तिर्भवति, तर्हि लक्षणं परिवर्तनीयम् | किन्तु तथा तु कुत्रापि नास्ति | सर्वेऽपि विभागाः संयोगनाशकाः एव | अतः कुत्रापि 'संयोगनाशक्त्वे सति गुणत्वम्' इति लक्षणेन, विभागे अव्याप्तिः नास्ति |
एवमेव, विभागात् अन्यत्र कुत्रापि अतिव्याप्तिर्न भवति | इत्युक्ते विभागम् अतिरिच्य अन्यः कोऽपि गुणः संयोगं न नाशयति | क्रिया संयोगं नाशयति; किन्तु क्रिया तु क्रिया एव, गुणः न | कोऽपि गुणः सन् संयोगं नाशयति चेत्, सः विभाग एव | तेन कारणेन 'संयोगनाशक्त्वे सति गुणत्वम्' इति लक्षणस्य विभागात् अन्यत्र कुत्रापि अतिव्याप्तिर्न भवति |
'संयोगनाशको गुणो विभागः' इत्यस्मिन् विभागे अव्याप्तिः यदि स्यात्, अथवा विभागात् अन्यत्र कुत्रचित् अतिव्याप्तिः यदि स्यादेव लक्षणवाक्ये किमपि योजनीयम्; अन्यथा न योजनीयम् | अत्र न अव्याप्तिः न वा अतिव्याप्तिः | अतः लक्षणं परिवर्तनीयं नास्ति |
अन्यथा किं भवति इत्युक्तौ लक्षणे तस्य योजितदलस्य वैयर्थ्यं भवति | लक्षणे यत्किमपि दलं योजनीयं चेत्, अव्याप्तिवारणाय व्याप्तिवारणाय एव योजनीयम्; अन्यथा न योजनीयम् | इदानीं यत्र 'आद्यपतनासमवायिकारणं गुरुत्वम्' इत्युच्यते, तत्र आद्यम् इति वक्तव्यम् अस्ति | किमर्थम् इत्युक्ते, केवलं 'पतनासमवायिकारणं गुरुत्वम्' इति वदामश्चेत्, पतनस्य असमवायिकारणं वेगः अपि भवति | कस्य पतनस्य कारणम् ? द्वितीयपतनस्य | अतः 'पतनासमवायिकारणं' केवलं गुरुत्वं न; वेगः अपि भवति, अतः वेगे अतिव्याप्तिः | तदर्थम् 'आद्यम्' इति गुरुत्वलक्षणे योजनीयम् | तर्हि आद्यं किमर्थं योजितम् ? अतिव्याप्तिवारणाय |
अत्र प्रकृतौ तु विभागः पूर्वसंयोगं नाशयति | अपरं संयोगं जनयति चेदपि 'संयोगनाशकः गुणः विभागः' इति यदा उच्यते, तदानीं कुत्रापि अव्याप्तिदोषो वा अतिव्याप्तिदोषो वा न भवति | अतः तत्र 'पूर्वसंयोगनाशकः गुणः' इति योजनीयं नास्ति | धेयं यत् 'पूर्वसंयोगनाशकः गुणः' इत्युक्तं चेत् कोऽपि तादृशदोषः नास्ति, किन्तु व्यर्थता भवति | लक्षणे पूर्वसंयोगनाशकत्वं वदामश्चेत् 'पूर्व'-पदं व्यर्थम् | अतः नैव योजनीयम् | यथोक्तञ्च गुरुत्वलक्षणे आद्यपदाभावे वेगेऽतिव्याप्तिः— तदर्थमेव 'आद्य'-पदं योजितम् |
इत्थञ्च अन्ततो गत्वा तात्पर्यमेवं यत् लक्षणे किमपि योजनीयं वा न वा इत्याशये, “लक्षणं स्पष्टं भवतु' वा 'लक्षणस्य सम्यक् अवगमनं भवतु', 'लक्षणं सम्यक् अवगन्तव्यं जनैः' इति कारणेन दलं न योजयन्ति नैयायिकाः | लक्षणे तावदेव वक्तव्यं यावदावश्यकम् | स्पष्टप्रतिपत्यर्थं लक्षणे व्यर्थविशेषणानां प्रयोगो न भवति | तदानीं किमपि योज्यते यदा लक्षणे दोषः अस्ति, नो चेत् न |
प्रश्नः— विभागः उतरदेशसंयोगं प्रति कारणम् इति चेत्, तदेव उतरदेशसंयोगजनकत्वं विभागस्य लक्षणं किमर्थं न स्यात् (पूर्वदेशनाशकत्वस्य स्थाने) ?
उत्तरम्— एकस्य वस्तुनः एकमेव लक्षणमिति नास्ति | यथा पृथिव्याः गन्धवत्त्वं, पाकजरूपवत्त्वं, नानारूपवत्त्वं, नानारसवत्त्वम् इत्यादिकम् | अव्याप्त्यादिदोषाः न सन्ति चेत् किमपि लक्षणं भवितुम् अर्हति | एकं लक्षणम् अपरस्य दूषकं न भवति |
Swarup – April 2018